॥श्रीः॥ ॥श्रीमते हयवदनपरब्रह्मणे नमः॥ ॥तृतीयस्याध्यायस्य चतुर्थः पादः॥ प्रधानभूतविद्याप्रकारनिरूपणानन्तरं तदङ्गकर्मविशेषादिनिरूपणमिति पूर्वपादेनास्य पादस्य सङ्गतिः। विद्यायाः स्वातंत्र्येण फलसाधनत्वे सिद्ध एव तदङ्गकर्मविशेषचिंतनं युक्तम्। अतो विद्यायाः कर्माङ्गत्वशङ्कानिराकरणार्थमुपोद्धातरूपं प्रथमाधिकरणम्— पुरुषार्थोऽतशब्दादिति बादरायणः॥1॥ शेषत्वात्पुरुशेषावात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः॥2॥ आचारदर्शनात्॥3॥ तच्छ्रतेः॥4॥ समन्वारम्भणात्॥5॥ तद्वतो विधानात्॥6॥ नियमात्॥7॥ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात्॥8॥ तुल्यं तु दर्शनम्॥9॥ असार्वत्रिकी॥10॥ विभागश्शतवत्॥11॥ अध्ययनमात्रवतः॥12॥ नाविशेषात्॥13॥ स्तुतयेऽनुमतिर्वा॥14॥ कामकारेणचैके॥15॥ उपमर्दञ्च॥16॥ ऊर्ध्वरेतस्सु च शब्दे हि॥17॥ परामर्शं जैमिनिरचोदनाच्चापवदति हि॥18॥ अनुष्ठेयं बादरायणस्साम्यश्रुतेः॥19॥ विधिर्वा धारणवत्॥20॥ किं विद्यातः पुरुषार्थः उत विद्यांगात् कर्मण इति विद्यायाः क्रतुषु कर्तृभूतात्मसंस्कारद्वारेण क्रत्वर्थत्वतदभावाभ्यां संशये पूर्वपक्षः। विद्या कर्तृभूतात्मसंस्कारद्वारेण क्रत्वर्था। ‘आत्मानमुपासीत आत्मा द्रष्टव्यः’ इति द्वितीयाश्रुतितव्यप्रत्ययाभ्यां" विद्यायाः कर्मसु कर्तृभूतात्मसंस्कारत्वावगमात्। एवं च ‘ब्रह्मविदाप्नोति पर’ मित्यादिषु फलश्रुतिरर्थवादः। यथान्येषु पर्णतादिषु। उक्तं हि जैमिनिना– ‘द्रष्टसंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थवादः स्यादि’ति। ‘यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं श्रृणोति। यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते। यत्प्रयाजानूयाजा इज्यन्ते वर्मवा एतद्यज्ञस्य क्रियते वर्म यजमानाय भ्रातृव्याभिभूत्या’ इत्यादिविधिविधेयेषु पर्णतादिद्रव्येष्वञ्जनादिसंस्कारेषु प्रयाजादिकर्मसु च फलश्रवणमर्थवादः, तेषां वाक्येन प्रकरणेन च क्रत्वंगभावावगत्या परार्थत्वादिति सूत्रार्थः। ननु जीवस्य पर्णतावत् नास्त्यव्यभिचरितक्रतुसम्बन्ध-। तस्य लौकिकेष्वपि कर्मसु कर्तृत्वात्। अतोऽनारभ्याधीताया विद्यायाः पर्णताया जुहूद्वारेव न कर्तृद्वारा क्रत्वर्थतोपपद्यत इति चेत् न। लौकिककर्मकर्तृत्वस्य देहादव्यतिरेकेऽप्युपपत्त्या श्रुतिषु प्रतिपाद्यस्य देहातिरिक्तस्यात्मन- पारलौकिकफलैः क्रतुभिरेवापेक्षितत्वेन तस्याव्यभितरितक्रतुसम्बन्धसद्भावात्। नन्वौपनिषद्यात्मविद्या न जीवविषया किं तु जीवातिरिक्तब्रह्मविषयाऽतो न सा कर्तृसंस्काराद्वारा क्रत्वर्थेति चेत्। स्यादेतदेवं यदि जीवातिरिक्तं ब्रह्म स्यात्। जीव एव हि ब्रह्म ‘तत्त्वमसी’त्यादिसामानाधिकरण्यात्। ननु तत्सामानाधिकरण्यं" शरीरशरीरिभावनिबन्धनमित्यसकृतुक्तम्। सत्यमुक्तम्। दुरुक्तंतु तत् विद्याक्रतुशेषत्वप्रत्याय- कश्रुतिलिंगाद्युपोद्बलितेन ‘तत्त्वमसी’त्यादिसामानाधिकरण्येन जीवएव ब्रह्मेति निर्णयात्। तथा हि। ‘यदेव विद्ययाकरोती’ति श्रुतिः विद्यायाः कर्माङ्गत्वमाह। न च तत्र विद्याश्रुतिः प्रकरयणादुद्गीथविद्यामात्रविषयेति वक्तुं शक्यम्। प्रकरणात् बलीयस्या श्रुत्याविद्यामात्रविषयत्वावगमात्। श्रुत्यनुग्राहकं जनकादीनां कर्मप्राधान्येना- चारलिंगमपि द्दश्यते। ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः। इयाजसोऽपि सुबहून्यज्ञानप्यव्यपाश्रयः’ इत्यादिहि स्मरन्ति। ‘तं विद्याकर्मणी समन्वारभेते’ इति श्रुतौ परलोकं प्रयान्तं विद्याकर्मणी अनुवर्तेते इति विद्याकर्मणोस्सहित्यं च द्दश्यते। तत्साहित्यमुक्तेन न्यायेन विद्यायाः कर्माङ्गत्वे सत्येव भवति। अपि च ‘आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुंबे शुचौ देशे स्वाध्यायमधीयानो धार्मिकान् विदधदहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यस्सखल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तत’ इति श्रुतिः अध्ययनवतो गार्हस्थ्याश्रमविहितानि कर्माणि विदधत्यर्थज्ञानं कर्मार्थत्वेन विनियुङ्क्ते। अर्थावबोधपर्यंतं" ह्यध्ययनं। अतो ब्रह्मविद्यामपि कर्मसु विनियुङ्क्त एव। किंच ‘कुर्वन्नेवेह कर्माणि जिजीविषच्छतं समा’ इत्यात्मविदः कृत्स्नस्य पुरुषायुषस्य कर्मसु नियमेन विनियोगमीशावास्यश्रुतिराह। अतोऽपि कर्मण एव फलम्। विद्यातु कर्माङ्गमित्यवसीयते। एवम्भूतश्रुतिलिंगादिबलादौपनिषदात्मविद्यायाः" कर्माङ्गत्वावगमादौपनि- षदात्मा जीवएव। तद्विद्याऽपि कर्तृसंस्कारतया क्रत्वर्थैवेति निश्चीयत इति॥ एवंप्राप्ते सिद्धान्तः–विद्यातएव पुरुषार्थः। न तु विद्यासंस्कृतकर्तृकात् कर्मणः। सर्वेषु वेदान्तेषु कर्मकर्तृर्जीवादधिकस्य सकलजगदभिन्ननिमित्तोपादानस्य सकलजीव नियन्तुरपहतपाप्मत्वादि गुणकस्य निरतिशयानन्दरूपस्य परब्रह्मणउपदेशात् तद्विद्यायाः कर्तृसंस्कारतया क्रत्वर्थत्वायोगात्। तर्ह्युदाहृतश्रुतिलिंगादीनां कागतिरितिचेत्। उच्यते। ‘यदेव विद्यये’ति श्रुतिः प्रकृतोद्गीथविद्याविषया। नत्वौपनिषदात्मविद्याविषयाऽपि। तस्या जीवाधिकपरब्रह्मविषयायाः ‘तथा विद्वान्नामरूपाद्विमुक्त’ इत्यादिश्रुतिशतैः पतब्रह्मप्राप्तिफलकतया प्रमितायाः स्वतन्त्रत्वेन कर्माङ्गत्वायोगात्। आचारदर्शनं तु विद्यायाः कर्मानंगत्वेऽपि तुल्यम्। ‘किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे येषां न आत्मे’त्यपि दर्शनात्। कथं कर्मतत्त्यागयोरपि ब्रह्मवित्सु द्दष्टयोरुपपत्तिः। फलार्थकर्मणां त्यागः निष्कामकृतकर्मणां" विद्यासहकारित्वमिति न विरोधः। ‘तं विद्याकर्मणी’ इति श्रुतौ विद्यास्वस्मै फलायान्वारभते कर्मच स्वस्मै फलायेति विभागो द्रष्टव्यः। क्षेत्ररत्नविक्रयिणं शतद्वयमन्वेतीत्युक्तौ हि क्षेत्रार्थं शतं रत्नार्थं शतमिति विभागः प्रतीयते। न च विदुषि फलार्थकर्मान्वारम्भणासम्भवः। तत्राप्यनेकदेहान्वयाय प्रारब्धकर्मानुवृत्तिसम्भवात्। ‘आचार्यकुलाद्वेदमधीत्ये’ त्यादिश्रुत्याऽपि न विद्यायाः कर्माङ्गत्वसिद्धिः। अध्ययनमात्रवतः कर्मविधानात्। अध्ययनविधिर्ह्यक्षरराशिग्रहण- पर्यन्तो नार्थज्ञानपर्यन्तः। येनार्थज्ञानपर्यन्तमध्ययनं" ‘अधीत्ये’ त्यनेन गृह्येत। ‘स्थाणुरयं भारहरः किलाभूदधीत्य वेदं न विजानाति योऽर्थ’मिति श्रुत्यन्तरे अक्षरराशिग्रहणमात्रनिर्वृत्तावधीत्येतिव्यवहारदर्शनात्। अध्ययनविधेरर्थज्ञानपर्यन्तत्वेऽपि न विद्यायाः कर्माङ्गत्वसिद्धिः। मीमांसान्यायसाध्यादुपासनारूपाया विद्याया भिन्नत्वात्। ‘कुर्वन्नेवेहे’ति यावज्जीवं कर्मानुवृत्तिनियमेनापि न विद्यायाः कर्माङ्गत्वसिद्धिः। नियमस्य विद्यांगकर्मविषयतयाऽप्युपपत्तेः। वस्तुतस्तु विद्यास्तुतये कुर्वन्नेवेति कर्मानुमतिरेवेयम्। ‘एवं त्वयिनान्यथेऽतोऽस्ति न कर्म लिप्यते नर’ इति वाक्यशेषान्नरमत इति नरो निस्सङ्गः तस्मिन्नात्मविदि त्वयि यावज्जीवं यत्किंचित्कर्म क्रियमाणमपि न श्लिष्यते इदं तत्वमिति हि विद्यामाहात्म्यस्तुतिरितः" प्रतीयते। अपिचैके शाखिनः कामकारेण ब्रह्मविद्यानिष्ठस्य गार्हस्थ्यत्यागमधीयते ‘किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं" लोक’ इति। अतोऽपि विद्या कर्मांगं। न हि विद्यायाः कर्मांगत्वे पूर्वं प्रधानत्वांगानुष्ठानमुपपद्यते। अपि च पुण्यापुण्यरूपस्य कर्मणः सर्वस्यापि विद्ययोपमर्दमप्यधीयते ‘क्षीयन्तेचास्य कर्माणि तस्मिन्द्दष्टे परावर’ इत्यादावतोऽपि न विद्याकर्माङ्गम्। नह्यङ्गेनाङ्गिन उपमर्द उपपद्यते। नन्वेवंसति कर्मणो विद्याङ्गत्वमपि न स्यात्। अङ्गिनाङ्गोपमर्दस्याप्ययो- गात्। उच्यते। येषां" कर्मणां विद्यानिवर्त्यत्वं न तेषां विद्याङ्गत्वमिष्यते। तदेतच्चतुर्थाध्याये स्फटीभविष्यति। जैमिनिना तूपनिषदां जीवादिरिक्तब्रह्मपरत्वमपह्नुत्य देहातिरिक्तात्ममात्रपरत्वमुपगम्य तद्वेदनं पारलौकिकसर्वकर्माङ्गमिष्यत इति तन्मते विद्यानिवर्त्यकर्मणामपि पारलौकिकात्मवेदनसाध्यत्वाविशेषेण विद्यां प्रत्यंगित्वस्य वक्तव्यत्वात् अङ्गेनांगिन उपमर्दो न सम्भवतीति दूषणमुक्तम्। अपिचोर्ध्वरेतस्स्वप्याश्रमेषु ब्रह्मविद्या द्दश्यते। अतोऽपि न विद्या तदङ्गम्। नचोर्ध्वरेतस आश्रमा नसन्त्येव। ‘यावज्जीवमग्निहोत्रं जुहोती’त्यादिश्रुति- विरुद्धानां" स्मृतीनामप्रामाण्यादिति चेन्न। स्मृतिष्विव वैदिकशब्देऽपि तेषां दर्शनात्। श्रूयते हि– ‘त्रयो धर्मस्कन्धाः यज्ञोऽध्ययनं" दानमिति प्रथमस्तपएव द्वितीये ब्रह्मचार्याचार्यकुलवासी तृतीयोऽप्यन्तमात्मानमाचार्य- कुलऽवसादयन् सर्व एते पुण्यलोका भवन्ति ब्रह्मसंस्थोऽमृतत्वमेति, येचेमेऽरण्ये श्रद्धा तप इत्युपासते, एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ती’त्यादिश्रुतिरूर्ध्वरेतसां" समर्पको वैदिकः शब्दः। नन्वत्रोर्ध्वरेतसां अनुवादमात्रं, चोदनाभावात्। अपिचापवदति च श्रुतिराश्रमान्तरं ‘वीरहावा एष देवानां" योऽग्निमुद्वासयत’ इति। तस्मादग्न्युद्वासननिन्दाविरोधात् ब्रह्मसंस्थोऽमृतत्वमेतीति चेत् उच्यते। अस्त्विह स्तुत्यर्थतयाऽनुवादः, सोऽपि प्रमाणान्तरतः प्राप्तिमपेक्षते। अन्यथा गृहस्थाश्रमोऽपि न सिध्येत्। अतस्तस्य प्रमाणान्तरतः प्राप्तिरन्वेष्टव्येति सन्याय इतरेषामपि समान-। तत्र ‘त्रयो धर्मस्कन्ध’ इति त्रेधा विभागानुसारेण यज्ञोऽध्ययनं दानमिति गृहस्थधर्माणां तप इत तपः प्रधानयोर्वैखानसपारिव्राज्यधर्मयोः" ब्रह्मचारित्यादिना नैष्ठिकधर्माणा़ञ्चानुकीर्तनमिति विभागप्रकारो द्रष्टव्यः। ‘ब्रह्मसंस्थोऽमृतत्वमेती’त्यत्र ब्रह्मसंस्थशब्दस्तु यौगिकस्सर्वाश्रमसाधारणः। सर्वेषामाश्रमिणां ब्रह्मणि संस्थाया निष्ठायास्सम्भवात्। ते ब्रह्मनिष्ठा विकलाः केवलाश्रमधर्मानुष्ठायिनः" पुण्यलोकभाजो भवन्तीति तेषु यो ब्रह्मनिष्ठस्सोऽमृतत्वभाग्यवतीति वाक्यार्थः। तस्मात् गृहस्थाश्रमवदूर्ध्वरेतस आश्रमाअपि द्दश्यन्त इति तेऽप्यनुष्ठेयाः। अनुवादस्य प्राप्त्याक्षेपकत्वसाम्यात्। अथवा ‘यज्ञोऽध्ययनं दान’मित्या- दाविवाश्रमाणां विधि कल्प्यः। अपूर्वत्वात्। ‘अधस्तात् समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयती’ति मृताग्निहोत्रप्रकरणगतश्रुतिलिंगविभक्तियोगातधोधारणइवाप्राप्तत्वादुपरिधारणेऽपि विधिरेष्टव्य इति ‘विधिस्तु धारणेऽपूर्वत्वा’दिति पूर्वतंत्राधिकरणे निर्णीतत्वेन तस्य न्यायस्यात्रापि साम्यात् सर्वथोर्ध्वरेतस आश्रमास्सन्तीति सिद्धम्॥ संग्रहकारिकाः॥ विद्या गच्छति शेषतां क्रतुगणे श्रुत्यादिमानैस्ततः। संस्कार्यस्य तयाऽऽत्मनोऽपि भवति व्रीह्यादिवच्छेषता॥ जीवस्यैव च तत्र कर्तुरुचिता सातस्सएवोच्यते। वेदान्तेषु तदीयवेदनफलोद्धोषाः प्रशंसापराः॥ मैवं समस्तागममौळिलाळितो निश्शेषकल्याणगुणाकरो हरिः। नापह्नवार्हस्तदुपाश्रयाखिला विद्यास्वन्त्रैव विमुक्तिसाधिनी॥ यातु श्रुतिस्तत्र यदेव विद्ययेत्नूक्तिरेषा प्रकृतैकसंश्रया। आचारद्दष्ट्यादि च तुल्यतादिभिर्निराकृतं नाभिमतार्थसाधकम्॥ विद्याद्दष्टोर्ध्वरेस्स्वपि च भजति सा न क्रतोश्शेषभावं" धर्मस्कन्धत्रयोक्त्या श्रुतिशिरसि मितास्ते न सन्तीत्युक्तम्। तस्यां वैखानसानां तप इति यतिनां चोर्ध्वसंग्राहकं स्यात् सर्वे ते पुण्यलोकान्समियुरमृततामप्यवस्थावभेदात्॥ इति पुरुषार्थाधिकरणम्॥1॥