कामादीतरत्र तत्रचायतनादिभ्यः॥38॥ आदरादलोपः॥39॥ उपस्थितेतस्तद्वचनात्॥40॥ प्राणितृत्वादीनामशनायायद्यतीतत्वादीनां च भेदकत्वाभावाद्विद्यैक्यं समर्थिकम्। इह अपहतपाप्मत्वादि- विशिष्टाकाशरूपत्वस्य वशित्वादिविशिष्टाकाशत्वस्य भेदकत्वेन रूपभेदात् विद्याभेद इति प्रत्यवस्थानात्सङ्गतिः। छान्दोग्ये ‘अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्य’ मिति आकाशः स्वान्तर्वर्तिगुणाष्टकविशिष्ट उपास्यः श्रूयते। बृहदारण्यके ‘सवा एष महानज आत्मे’त्युपक्रम्य ‘य एषोऽन्तर्हृदय आकाशस्तस्मिन शेते सर्वस्य वशी सर्वस्येशान’ इति वशित्वादिगुणाविशिष्ट आकाशे शयान उपास्यः श्रूयते। किमनयोर्विद्याभेदोऽस्ति नवेति रूपभेदाभेदाभ्यां संशये पूर्वपक्षः। विद्याभेद इति युक्तम्। रूपभेदस्य निगदव्याख्याततया स्फुटत्वात्। नच वाजसनेयकगताकाशशब्दो भूताकाशपरः, वशित्वादिकं गुणाष्टकान्तर्भूतसत्यसङकल्पत्वविशेषरूपमिति न विरोध इति वाच्यम्। वाजसनेयकश्रुतान्तर्हृदयवर्त्त्याकाशस्य समानप्रकरणश्रुत्यन्तरानुरोधेन दहराकाशरूपत्वावश्यम्भावात् दहराकाशो ‘वेदनिहितं गुहायां परमे व्योम’न्निति श्रुत्यन्तरश्रुतं" परमं व्योम, वाजसनेयकश्रुत आकाशे शयस्तु व्योमातीतं परंब्रह्मेत्युपपत्तेः। ‘तत्रापि दह्रं गगनं विशोकः तस्यान्ते सुषिरं सूक्ष्म’मिति तैत्तिरीयकश्रुतयोर्गगनसुषुरशब्दयोरपि परमव्योमपरत्वोपपत्तेरित्येवं प्राप्ते सिद्धान्तः। छान्दोग्ये वाजसनेयकेच सत्यकामादिविशिष्टमेव ब्रह्मउपास्यं। हृदयायतनत्वसेतुत्वविधरणत्वादिगुणानामुभयत्रापि साम्यात्। ‘अथ य आत्मा ससेतुर्विधृतिरेषां लोकानामसम्भेदाये’त्यादिरेकत्र एष सेतुर्विधरण एषां लोकानामसम्भेदाये’त्यादेरन्यत्रच श्रवणात् वशित्वादीनां छान्दोग्ये श्रुतसत्यसङ्कल्पत्वविशेषरूपत्वाच्च वशित्वादिरूपतया सत्यसङ्कल्पसत्त्वे तत्साहचर्येण सत्यकामादीनामपि प्राप्तेश्च फलसंयोगाविशेषाच्च ‘परंज्योतिरुपसंपद्ये’त्यादेरेकत्र ‘अभयं वै जनकप्राप्तोऽसि अभयं वै ब्रह्मभवती’त्यादेरन्यत्र च श्रवणात्। तस्माद्वाजसनेयकश्रुताकाशशब्दस्तैत्तिरीयकश्रुतौ गगनसुषुरशब्दाश्च भूतकाशपराः। दहराकाशस्तु प्रागुक्तरीत्या ब्रह्मैव। न च ब्रह्मभूतकाशव्यतिरेकेण परमव्योमनामकिञ्चितस्ति तद्वर्तिब्र्हमव्योमातीतमिति सिध्येत्। क्वचित् ब्रह्मैव परमव्योमेति व्यपदिश्यते। यथा- ‘सैषा भार्गवी वारुणीविद्या परमे व्योमन्प्रतिष्ठते’ति। क्वचितस्य स्थानतया प्रशस्तो हृदयान्तरवकाशरूपो भूताकाशो व्यपदिश्यते ‘यो वेद निहितं गुहायां परमे व्योम’ न्निति। नैतव्द्यतिरेकेण परमव्योमनामकिंचिदस्ति। ननु गार्गिब्राह्मणे सर्वलोकाधारप्रश्ने तदाधारमाकाशमुक्त्वा आकाशाधारप्रश्न परंब्रह्म तदाधारतयोक्तम्। ‘एतस्मिन्खल्वक्षरे गार्ग्याकाश आतेश्च प्रोतश्चे’ति। सचाकाशोदेवतारूपः। प्रथमप्रवृत्तस्य सर्वलोकाधारप्रश्नस्य वक्ष्यमाणाकाशविषयत्वमालोच्य ‘अनतिप्रश्नां वै देवतामतिपृच्छसी’ति तन्निषेधादर्शनात् अस्यैव देवातपरमव्यो- मेति चेत् न। आकाशाधारविषयो द्वितीयः प्रश्नः परब्रह्मविषयो भविष्यतीति तदभिप्रायेणानतिप्रश्नानित्यादिप्रवृत्तेः" तत्र देवतापदस्य प्रथमप्रश्नविषयत्व आकाशस्सम्प्रतिपन्नाचित्प्रकृतिरस्तु न तव्द्यनिरेकेण परमव्योमनामकिंचिदस्ति। यच्छांदोग्यादिष्वाकाशादिशब्दैरुक्तं" स्यात्। अतश्छान्दोग्यबृहदारण्यकयोर्न विद्याभेदः। अथापि स्यात्। उभयत्रापि सत्यकामादिवशित्वादिगुणविशिष्टोपासनयोर्मोक्षरूपफलसंयोगाविशेषो य उक्त स्सनोपपद्यते। वाजसनेयके ‘नेह नानास्ति किंचनमृत्यो स्समृत्युमाप्नोति य इह ननानेव पश्यती’ति ब्रह्मणि नानाभूतवस्तुनिषेधेन वसित्वादीनां पारमार्थिकत्वावगमात्। छानदोग्ये ‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पिरतरस्समुत्तिष्ठन्ती’त्यादिना सत्यकामादिगुणविशिष्टवेदनस्य सांसारिकफलश्रवणात्। अतो मुमुक्षोर्ब्रह्मावगमे वशित्वादिकं सत्वकामत्वादिकं च लुप्यत इति चेत् नैव लुप्यते। श्रुतेस्तत्रादरदर्शनात्। छान्दोग्येतावत् ‘तद्य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान् तेषां सर्वेषु लोकेषु कामचारो भवती’ति गुणविशिष्टोपासनस्य फलमुक्त्वा ‘अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान् तेषां सर्वेषु लोकेष्वकामचारो भवती’ति निंदागुणविशिष्टवेदनविषयमादरं" दर्शयति। वाजसनेयकेऽपि ‘सर्वस्य वशी सर्वस्येशान एष भूताधिपतिरेषभूतपाल’ इति पुनः पुनरैश्वर्योपदेशस्तद्विषयमादरं दर्शयति। ‘स यदि पितृलोककाम’इत्यादिकं न सांसारिककीर्तनं, किंतु मुक्तौ यद्भाविफलं तत्कीर्तनमेव। ब्रह्मप्राप्ते पुंसि ब्रह्मप्राप्त्यैव हेतुना तथाभूतफलवचनात्। ‘परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्ये स उत्तमः पुरुषः स तत्र प्रर्यति जक्षत् क्रीडन् रममाणः स्रीभिर्वा यानैर्वे’त्यादिकं हि श्रूयते। ‘नेह नानास्ति किंचन एकधैवानुद्रष्टव्यम्’ इति तु सर्वस्य ब्रह्मकार्यत्वेन तदात्मकत्वादेकधीदर्शनं विधायाब्रह्मात्मकत्वेन पूर्वसिद्धंनानात्वदर्शनं प्रतिषेधति नतु वशित्वादि निषेधति। स्वयंविधाय स्वयंप्रतिषेधायोगात्। ‘अग्राह्यो नगृह्यते अशीर्योनशीर्यते असङ्गो नहिसज्जते’ इत्याद्यनन्तरवाक्यैः प्रमाणांतराग्रह्यत्वेन ब्रह्मप्रतिपादनात्। छांदोग्येपि- ‘नास्यजरयैतज्जीर्यति नवधेनास्यहन्यन्ते एतत्सत्यं ब्रह्मपुरमस्मिन्कामास्समाहिता’इति लोकसिद्धविजातीयत्वेन सत्यकामादिविशिष्टत्वेन ब्रह्मणः प्रतिपादनाच्च। तस्माद्गुणानां" पारमार्थिकत्वात् मोक्षार्थविद्यासु नलोप इति सिद्धम्। संग्रहकारिकाः। क्विचिदाकाशोदहरस्समुपास्यः सत्यकामादियुतः। अन्यत्राकाशशयो वशित्वमुख्यैर्गुणैर्युक्तः॥ तस्माद्विद्याभिद्यते रूपभेदाच्छान्दोग्येचारण्यके वाजिनांच। मैवं ब्रह्मैवोभयत्रापि हार्दं तत्वाम्नातं वाजिभिर्हृत्सुषुस्थम्॥ आतस्तेषां सत्याकामादयोन्येप्यानेयत्वं यांति तत्साहचर्यात्। नन्वेनयोस्सगुण निर्गुणविद्यायोस्ते युज्येत नैवमुपसंहृतिवाद एषः॥ आद्यापराप्यपरमार्थगुणावलं……………… इति कामाद्यधिकरणम्॥16॥