15 सर्ववेदान्तप्रत्ययाधिकरणम्

॥श्रीः॥ ॥श्रीमते हयवदनपरब्रह्मणे नमः॥ ॥तृतीयस्याध्यायस्य तृतीयः पादः॥ एवं परब्रह्मणेस्सर्वज्ञत्वासर्वशक्तिमत्त्व निरितिशयदयाशालित्व सत्यसङ्कल्पत्वादिकेषु महावैभवमहाव- दान्यत्वपर्यंतेषूपास्यत्वोपयुक्तेषु कल्याणगुणेषु तत्तदधिकरणोदाहृताविषयवाक्यैश्शब्दतोर्थतश्च सिद्धेषु समुपजात- तदुपासनाभिलाषस्य कथमुपासनं कार्यं किमेकस्योपासनस्य कस्यांचिच्छाखायां यावन्तोगुणा आम्नाताः तावदुप- संहारेणैव कार्यं उत शाखांतरगत तदुपासनाप्रकारणाम्नात गुणांतरोपसंहारेणेत्याकाङ्क्षायां" तदुपसंहारेण कार्यमिति प्रदर्शयितुं शाखाभेदेपि चोदनाद्यविशेषेसति नोपासनं भिद्यत इति तदभेदनिरूपणमिह पादे क्रियते। तद्भिदनिरूपणं" तदपवादत्वेन क्वचित् क्वचित् क्रियते। अतः फलतोगुणोपसंहारः पादार्थः। इहाधिकरणे सामान्यतः प्रतिशाखं वैश्वनरीक्षरदहरादिविद्यानभिद्यन्त इति प्रसाध्यते— सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात्॥1॥ भेदान्नेतिचेदेकस्यामपि॥2॥ स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच्च सववच्च तन्नियमः॥3॥ दर्शयति च ॥4॥ उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च॥5॥ वैश्वरादिविद्याः प्रतिशाखं भिद्यन्ते नवेति प्रत्यभिज्ञाविच्छेदकसद्भावसद्भावभ्यां संशये अभ्यासप्रकरण- भेदाभ्यां भिद्यत एव। शाखांतरे तर्योर्भेदानवश्यंभावात्। न च तयोस्तत्तच्छाखाध्यायिरूपप्रतिपत्तृभेदेन साफल्योपपत्तेः शाखांतराधिकरणसिद्धान्तः सूत्रदर्शितचोदनाद्यविशेषप्रयुक्तप्रत्यभिज्ञानेन शाखाभेदेऽपि कर्मैक्यवद्विद्यैक्यं स्यादिवाच्म्। मुण्डकेऽक्षरविद्यायां ‘तेषामेवैतां ब्रह्मविद्यांवदेत शिरोव्रतंविधिवद्यैस्तुचीर्ण’ मिति तस्याश्शाखांतराम्नाताक्षरविद्यातो भेदलिंगं। विद्यैक्येहि तदङ्गस्य शिरोव्रतस्य शाखांतराध्यायिभिरप्यनुष्ठेयत्वा दाथर्वणिकानामेव शिरोव्रतमित्ययं नियमो नोपपद्यते। नन्वध्ययनांगमिदं शिरोव्रतं ‘नैतदचीर्णव्रतोधीत’ इति तत्रैव ‘तेषामेवैतां ब्रह्मविद्यांवदेते’त्यस्य प्रथमश्रुततया तदनुसारेण तस्यान्यथानयनोपपत्तेः श्रवणात्। अतस्तदनुसारेण तेषामेवेति वचनमाथर्वणिकानामेवेति ब्रह्मविद्याप्रतिपादकमुपनिषद्ग्रंथ मध्यापयेदित्यर्थः कल्प्यत इति वाच्यम्। चरमश्रुतानुसारेण प्रथमावाक्यगत ब्रह्मविद्याशब्दस्य लक्षणाकल्पनायोगात्। तेषामेवैतामित्येनेनापि अध्ययनांगत्वस्यैव बोधने पौनरुक्त्यापत्तेश्च। तस्मादाथर्वणिकनियतशिरोव्रताङ्गकत्वलिंगेनाक्षरविद्यानां चोदनाद्यविशेषप्रयुक्तप्रत्यभिज्ञाविच्छेदात् भेदावश्यंभावेन तथैव वेश्वानरविद्या अपि प्रतिशाखं भिद्येरन् अभ्यास- प्रकरणान्तराविशेषात्। ननु तर्ह्याथर्वाणिकमात्राधिकारिकशिरोव्रताङ्गकत्वानुरोधेन नानाशाखाम्नाताप्यक्षरवि- द्याऽऽथर्वणिकमात्राधिकारिकेत्यधिकारसङ्कोचोऽस्तु। द्दश्यतेह्यंगानुरोधेनाधिकारसंकोचः। यथा ‘ऋद्धिकामास्सत्रमासीर’न्नित्यविशेषश्रवणेऽपि सत्रे ‘येयजमानास्त ऋत्विज’ इति ब्राह्मणैककर्तृकेषु ऋत्विक्कर्मसु जयमानानां कर्तृत्वविध्यनुरोधेन ब्राह्मणानामेवाधिकार इति संकोच इति चेत् मैवम्। नचाभ्यासप्रकरणान्तरयोः शाखान्तोक्ताक्षरविद्यातो भेदेनाभ्यासप्रकरणभेदोपष्टब्धेनाधिकारासंकोचोपपत्तौ प्रधानवाक्यावगताधिकारसंकोच- नायोगात्। नचाभ्यासप्रकरणान्तरयोः प्रतिपत्तृभेदेन साफल्योक्तिरपि युक्ता। तथाऽपि कृतस्वशाखाध्ययनस्य पुनश्शाखान्तराध्यनस्य तत्तच्छाखाध्यायिभ्यः तत्तद्वाक्यश्रवणस्य च संभवेन तं प्रति तस्य वाक्यस्यानुवादकत्वं स्वशाखाध्यायिनं प्रति प्रमापकत्वमिति वैरूप्यानिवारणात्। तस्मादभ्यासप्रकरणभेदाभ्यां चादनाद्यविशेषप्राप्तप्रत्य- भिज्ञाविच्छेदकाक्षरविद्याम्नातविद्याभेदलिंगोपष्टब्वाभ्यां" प्रतिशाखं विद्याभिद्यत एवेति। एवं प्राप्ते सिद्धान्तः। प्रतिशाखं विद्यानभिद्यते। चोदनाद्यविशेषात्। तथा हि छान्दोग्यवाजसनेयकयोर्वैश्वानरविद्यायां" ‘वैश्वानरविद्येत्याख्याप्यविशिष्टा। ब्रह्मप्राप्तिरूपः फलसंयोगोऽप्यविशिष्टः। अत एव हि प्रत्यभिज्ञानात् शाखान- र्थक्यप्रसंगरूपन्यायमूलौहितौ। ‘समिधो यजती’त्यादौ विशेषणसंक्रान्तिरहितया विधिश्रुत्या कर्मविधिसिद्धौ विहितस्य कर्मणो विधानमनर्थकमित्यानर्थक्यन्यायमूलोऽभ्यासेन कर्मभेदः। एव मग्निहोत्रप्रकरणे विहितस्य नित्याग्निहोत्रस्य कुण्डपायिनामयनप्रकरणे पुनर्विधानमनर्थकमित्यानर्थक्यन्यायमूल एव प्रकरणान्तरेणापि कर्मभेदः। नचेहानर्थक्यमस्ति। तत्तच्छाखाध्यायिरूपप्रतिपत्तृभेदेनसाफल्यात्। न च प्रमापकत्वानुबादकत्वरूपवैरू- प्यापत्तिदोषः। वाक्यान्तरेण प्राप्तिमपेक्ष्यार्थज्ञानजनकत्वं ह्युनुवादकत्वं न ज्ञातज्ञापकत्वमात्रं, स्वशाखागतवाक्य- स्यापि पुनश्श्रवणे किंचिदपि वाक्यं शाखान्तरवाक्यतः प्राप्तिमपेक्ष्य स्वार्थं बोधयति। अतो नानुवादकृतवैरूप्या- पत्तिः। नाप्यक्षरविद्यायां" पूर्वपक्षोक्तं भेदलिंगमस्ति। शिरोव्रतस्य विद्यांगत्वाभावात्। स्वाध्यायसंस्कारार्थो हि शिरोव्रतनियमः। ‘नैतदचीर्णव्रतोऽधीत’ इत्यध्ययनसंयोगात् अध्ययनशरीरानुपकारकस्य शिरोव्रतस्य अध्ययन- संस्कार्योपनिषदंगत्वापर्यवसानात् आथर्वणिकानां समाचाराख्ये ग्रंथे ‘इदमपि वेदव्रतेन व्याख्यात’ मिति शिरोव्रते पुष्कलोपदेशं कृत्वा व्रतान्तरं प्रस्तुत्य तत्र शिरोव्रतधर्मातिदेशाच्च। तथा च यथा सप्तसूर्याख्यहोमप्रभृतिश्शतौ- दनाख्यहोमपर्यन्तः तेषामेवाथर्वणिकानां सवहोमगणतदीयैकाग्निसम्बन्धात् तत्रैव भवति, न त्रेताग्निषु, एवं शिरोव्रतमपि तदीयाध्ययनसम्बन्धात्तदध्ययनसंस्कार्यायां तस्यामेवोपदिष्टं भवति। एवं चाथर्वणिकनियतशिरोव्रतां- गकत्वानुरोधेन सैवोपनिषदक्षरविद्याप्रतिपादकोपनिषदन्तराद्भिद्येत। नत्वक्षरविद्या। तस्या एवोपनिषद आथर्वणि- कमात्राधिकारिकशिरोव्रतांगत्वानुरोधेन तन्मात्राध्येयत्वं सिध्यति। नत्वक्षरविद्यामात्रस्याथर्वणकैकाधिकारित्वं। तस्माच्छाखांतराध्यायिनां अक्षरविद्या शाखांतराध्ययनेन मुण्डकाध्यायित्वचनेन च लब्धा फलं प्रयच्छतीति न कश्चिद्दोषः। न च ब्रह्मविद्याशब्दस्य मुण्डकोपनिषदि लज्ञणादोषः। तदुपक्रमे ‘द्वेविद्येवेदिव्ये इति हस्म यद्ब्रह्म- विदावदंति पराचैवापराच। तत्रापरायद्दग्वेदो यजुर्वेदस्सामवेदोथर्ववेदश्शिक्षाकल्पोव्याकरणं निरुक्तंछन्दोज्योतिष- मितिहास पुराणन्यायमीमांसाधर्मशास्राणीत्यथ परायातदक्षरमधिगम्यत ’ इति विद्याशब्दस्य विद्यास्थानपरत्वस्या- वगततयोपसंहारेपि तस्य तादर्थ्योपपत्तः। न चैवं सति नैतदचीर्ण इत्यग्रिमवाक्यमपि तदध्ययनसंस्कार्योपनिषदं- गत्वप्रतिपादकामितिषौनरुक्त्यम्। अग्रिमवाक्य मचीर्णव्रतस्साध्ययननिषेधपरं, पूर्ववाक्यं अचीर्णव्रतं प्रत्यध्यापननि- षेधपरमिति शूद्रविषयाध्ययनाध्यापननिषेधवाक्ययोरिव विषयभेदसत्त्वात् तस्माद्विद्याभेदलिंगासिद्धेश्शाखाभेदेपि चादनाद्यविशेषात् विद्यैक्यमितिस्थितम्। तदिदं विद्यैक्यं छांदोग्ये दहरविद्यायां विहितमपहतंपाप्यमत्वादिगुणाष्टकं सिद्धं कृत्वा तैत्तिरीयके केवलं तस्मिन्यदन्तस्तदुपासिदव्यमित्युपासनामात्रविधानलिंगमपि द्योतयति। अपेक्षितं हि तैत्तिरीयके छांदोग्योक्तपाप्मजरामरणाद्यभावसंकीर्तनं सहस्रशीर्षे देवमित्यादिना भगवतो विग्रहविधानेन पाप्मजरामरणादिप्रसक्तिसत्वात्। एवं" सर्वेषु वेदांतेषु समाने सत्युपासने वेदांतराम्नात्तगुणानामुपसंहारः कार्यः स्ववेदोक्तगुणानामिव वेदांतरोक्तगुणानामपि तदुपकारकत्वाविशेषात्॥ संग्रहकगारिकाः। अभ्यासात्प्रकरणभेदतस्च विद्यभिद्यन्ते प्रतिनिगमांतमित्ययुक्तम्। रूपाख्याफलविधि चोदनाविशेषादभ्यासादिक मवबोध्यभेदतस्स्यात्। विद्यांगंयदिहि शिरोव्रतंमितं स्यात्तास्स्युस्त त्प्रतिनियत्तवतोविभिन्नाः। तद्वेदाध्ययनविधेः प्रसिद्धमङ्गं यद्वेदव्रतमिति तत्समामनंति॥ तस्माच्छाखाभेदेऽप्यस्त्यन्योन्यं गुणोपसंहारः। संज्ञाफलाद्यभेदे विद्यानामुपकृतेः सिध्यैः॥ इति सर्ववेदान्प्रत्यधिकरणम्॥1॥