14 फलाधिकरणम्

फलमत उपपत्तेः॥37॥ श्रुतत्वाच्च॥38॥ धर्मं जैमिनिरत एव॥39॥ पूर्वं तु बादरायणो हेतुव्यपदेशात्॥40॥ संसाराद्वैराग्योपायस्य जागराद्यवस्थासु जीवस्य दोषजातस्य निरूपणानन्तरं परब्रह्मप्रेप्सया तदुपासनेच्छोत्पादनाय परब्रह्मणो निर्दोषत्वं" कल्याणगुणाकरत्वं सर्वस्मादुत्कृष्टत्वं च प्रतिपादितम्। अतः परमुपासनं निरूपयिष्यन् उपासनानामस्मात्परमपुरुषादेव तत्प्राप्तिरूपं" फलमिति विवक्षया विशेषे प्रस्तुते सामान्याधानरूपेणाप्रस्तुतप्रशंसालङ्कारेण सकलकर्मफलप्रदत्वमनेनाधिकरणेन प्रतिपाद्यते। अथवा महाप्रभुर्महा- वदान्यश्च महाफलार्थिस्सेव्यः। नतु महाविभवयुक्तोऽपि कदर्यः नापि महावदान्यप्रकृतिरप्यकिंचनः। अतः परब्रह्मण उपासनाभिस्सेव्यत्वसिध्यर्थं तस्य स्वल्पसेवयापि महाफलप्रदत्वंरूपं महावदान्यत्वं प्रदर्श्यते इति सङ्गतिः। विधिश्रुतेः ‘अन्नोदो वसुदान’ इत्यादिश्रुतेश्च संशये पूर्वः पक्षः। कर्मोपासनाभिराराधनात् प्रसन्नस्य परमपुरुषस्य फलदातृत्वे कर्मानुष्ठानानन्तरमेव प्रसादो वक्तुं न शक्यते। परमस्वतंत्रस्य प्रसादेसति फलविलम्बायोगात्सङ्कीर्तनादिना फलजननाभावप्रसङ्गाच्च भाविसङ्कीर्तनेन फलाजननमननुसन्धान हठात्प्र- सीदतश्चासर्वज्ञत्वप्रसङ्गात् प्रयाजादिभिस्तदनष्ठानानन्तरमेव प्रसादेसति प्रधानानुष्ठानेऽप्यङ्गान्तरवैकल्येऽपि फलनिष्पत्तिप्रसङ्गात् सर्वेश्वरप्कसादस्य वंध्यत्वायोगात्। तस्मातकर्मभिरपूर्वेनिष्पन्ने तस्य सङ्कीर्तनादिनाशहेतु- रहितस्य फलजननौन्मुख्ये सति परमेश्वरः प्रसीदतीति वक्तव्यम्। ततश्चावश्याभ्युपगन्तव्यापूर्वेणैव निर्वाहे किमीश्वरप्रसादस्यापि कल्पनया। अतः कृष्यादिकर्मवत् कस्यापि प्रसादमनपेक्ष्यैव यागादिकं फलजनकमिति। एवं प्राप्ते सिद्धान्तः। क्षणविध्वंसिनः कर्मणः कालान्तरभाविफलजननार्थं" ‘तृप्त एवैनमिंद्रः प्रजया पशुभिस्तर्पयती’ त्यादिवाक्यशेषावगतदेवताप्रीतिद्वारकत्वौचित्यात्। न च प्रतिमन्वन्तरं भिन्नानामिंद्रादीनां" मन्वन्तरान्तरभाविकर्म। ‘अन्नादो वसुदान’ इत्यादिस्त्वीश्वरस्य देवतात्वेन यागाङ्गत्वात् तत्प्रशंसापरः। कृषिकर्मणि साहाय्यं" कृतवतामपिहि भवद्भिरेवेदं सर्वं कृषिफलं दत्तमिति प्रशंया द्दश्यते। फलदातृत्वायोगात् एताद्दशार्थवादाः कर्मान्वयिदेवताप्रशंसामात्रपरा इति वाच्म्। तेष्विंद्रादिशब्दानां तत्तदन्तर्यामिपरमात्मपरत्वात्। ‘इष्टापूर्तं बहुधाजातं जायमानं विश्वंबिभर्ति भुवनस्यनाभिः। तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदुचन्द्रमाः। यो यो यां यां तनुं भक्तः श्रद्धयाऽर्चितुमिच्छति। तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्॥ स तया श्रद्धया युक्तस्तस्याराधन- मीहते। लभते च ततः कामान्मयैव विहितान्हितान्॥ ‘अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च’ इत्यादिश्रुतिस्मृ- तिदर्शनात्। एवं रात्रिसत्रन्यायसाम्येन वाक्यशेषश्रुतेदेवताप्रसादे द्वारे क्लृप्ते तन्निर्वाहार्थमङ्गप्रधानापूर्वकल्पना- गौरवं फलमुखत्वान्नदोषः। तस्मात्साङ्गकर्मानुष्ठानेनापूर्वं" सम्पाद्य तस्य यावद्विपाकमसंकीर्तनादिभ्यस्संरक्षणेसति अविकले भृत्यस्य सेवनेसति नृपतिरिव प्रसन्नः परमेश्वरस्तत्फलं प्रयच्छति ‘सवा एष महानज आत्माऽन्नादो वसुदानः। एषह्येवानन्दयाती’ति तस्य भोगापवर्गरूपसकलफलप्रदत्वश्रवणात् कर्मणः फलसाधनत्ववचनानां" तत्प्रसादद्वारकत्वेऽप्युपपत्तेरिति॥ संग्रहकारिके॥ कृषिमर्दनादिरूत्या यागादितएव फलमितिचेत्। तत्र हि कल्प्यमपूर्वं श्रुतिसिद्धंत्वीश्वरस्य फलदत्वम्॥ तस्मादग्न्यादिदेवात्मा शुद्धोवाऽप्यभिपूजितः। कर्मोपासनजातस्य हरिरेव फलप्रदः॥ इति फलाधिकरणम्॥8॥ इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्यचार्यश्रीविश्वजि- द्याजिश्रीरङ्गराजाध्वरिवरसूनोरप्यदीक्षितस्य कृतौ चतुर्मतसारे नयमयूखमालिकाख्ये द्वितीयपरिच्छेदे तृतीयस्याध्यायस्य द्वितीयः पादः॥