परमतस्सेतून्मानसम्बन्धबेदव्यपदेशेभ्यः॥30॥ सामान्यात्तु॥31॥ बुध्यर्थः पादवत्॥32॥ स्थानविशेषात्प्रकाशादिवत्॥33॥ उपपत्तेश्च॥34॥ तथाऽन्यप्रतिषेधात्॥35॥ अनेन सर्वगतममायात्वशब्दादिभ्यः॥36॥ उभयलिंगाधिकरणे ‘नह्येतस्मादितिनेत्यन्यत्परमस्ती’ति ब्रह्मणोऽन्य दुत्कृष्टं वस्तु नास्तीत्युक्तम्। तदाक्षिप्य समर्थ्यत इतदि सङ्गतिः। अहिकुण्डलाधिकरणं तु प्रासाङ्गिकमिति मूलाधिकरणेनेयं सङ्गतिः। जन्मादिसूत्रमारभ्य प्रतिपादितात् ब्रह्मणः परंवस्त्वस्ति नवेति सेतुत्वादिव्यपदेशानां गत्यन्तरहासम्भवसम्भवाभ्यां संशये पूर्वः पक्षः। ब्रह्मणः परमपि किंचित्तत्वमस्ति। सेत्वादिव्यपदेशेभ्यः। सेतुव्यपदेशस्तावत् ‘अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेताये’ति। अनेन प्रसिद्धसेतोः कूलान्तरमिवब्रह्मणः प्राप्यान्तरमस्तीति गम्यते। नच ‘एषांलोकानामसम्भेदाये’ति श्रुतासङ्करकारित्वेन दहराकाशरूपस्य ब्रह्मणस्सेतुत्वव्यपदेशोपपत्तिरितिवाच्यम्। ‘एतं सेतुं" तीर्त्वान्धस्सन्ननन्धोभवती’ति तत्रैव प्रकरणे तरितव्यत्वश्रवणेन प्राप्यान्तरप्रापकत्वस्यापि तत्स्सेतुशब्दात् प्रतीतेः। तथा इयत्तापरिच्छेदरूपोन्मानव्यपदेशो द्दश्यते ‘तदेतद्ब्रह्मचकतुष्पात्षोडशकल’मिति। चत्वारः पादास्तत्रैव निरूपिताः ‘प्राचीदिक्कलाप्रतीचीदिक्कलादक्षिणादिक्कलोदीचीदिक्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणोऽनन्तवान्नाम अग्निः कलासूर्यः कला चन्द्रः कलाविद्यत्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो ज्योतिश्मान्नाम प्राणःकलाचक्षुः कला श्रोत्रंकला मनः कलैषवैसोम्य चतुष्कलः पादोब्रह्मण आयतनवान्नामेति। गवांपादेषु परतौ द्वौ खुरौ पश्चाद्वौपार्ष्णी इत्येकैकस्मिन् पादे चत्वारश्चत्वारश्शफास्संति ते कलाशब्देनोच्यंते। एवं परिमितं ब्रह्मेत्परिमितं यत्प्राप्यं" मोक्षशास्रेषु ‘पादोस्य सर्वाभूतानि त्रिपादस्यामृतं दिवि’त्यादिषु स्वेकदेशविश्रां तसकलप्रपञ्च प्रसिद्धं तत्ब्रह्मणोन्यत् तत्प्राप्यमवसीयते।साक्षादेवमुक्त्प्राप्यस्य ब्रह्मणश्च प्राप्यप्रापकभावसंबन्धस्यापि व्यपदेशो द्दश्यते। ‘अमृतस्य परं सेतुं दग्धेंधनमिवानल’मिति। तथाभेदव्यपदेशश्च द्दश्यते। ‘तेनेदपूर्णं पुरुषेण सर्व’मिति ब्रह्मप्रकृत्य ‘ततोयदुत्तरतरंतदरूपमनामयं य एतद्विदुरसमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ती’ति। एवमेभ्यो हेतुभ्यः परस्माद्ब्रह्मणः परं मुक्तपाप्यं तत्वमस्तीति। प्राप्तेऽभिधीयते। नास्तिपरब्रह्मणः परंतत्वांतरम्। न हि जन्मादिसूत्रमारभ्य सकलजगदगिन्ननिमित्तोपादानतया मुक्तोपास्यतया मुक्तप्राप्यतया च तत्र तत्र प्रतिपादितादनुपदमेव ‘नह्येतस्मादिति नेत्यन्त्पतमस्ती’ति सर्वोत्कृष्टतया प्रतिपादिताच्चब्रह्मणः परं तत्त्वातरमस्तीति शङ्का हृदयमधिरोहति। सेत्वादिव्यपदेशानां गतिमात्रं वक्तव्यं तदुच्यते। सेतुव्यपदेशो वाक्यशेषश्रुतासंकरकारित्वमात्रेण। सेतुं तीर्त्वेति तरतिः प्राप्त्यर्थः यथा वेदं तरतीति। चतुष्पाद्ब्रह्मेत्यादिव्यपदेश उपासनार्थः। स्वयमनुन्मितस्योपासनार्थमपि कथमुन्मितत्वव्यपदेश इति चेत्। प्रकाशवदिति ब्रूमः। द्दश्यते हि सौरप्रकाशादेर्विततस्यापि वातायनादिस्थानभेदोपाध्यवच्छेदात् परिच्छिन्नत्वं। प्राप्यप्रापकभावव्यपदेशश्चाभेदेऽप्युपपद्यते प्राप्यस्य परमपुरुषस्य स्वप्राप्तौ स्वस्यैवोपायत्वात्। ‘यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वा’ मित्यनन्योपायत्वश्रवणात्। अतो नातिवाहिकवत् ब्रह्मणः प्राप्यांतरप्राप- कत्वम्। भेदव्यपदेशस्त्वसिद्धः। ‘ततो यदुत्तरतर’मित्यत्र तत् इत्यस्य हेतुपञ्चमीत्वेनावधिपञ्चमीत्वाभावात्। यस्मात्परं नापरमस्ति किंचिदिति पूर्वमंत्रे ब्रह्मणोन्यत्परमुत्कृष्टं नास्तीत्युक्तत्वेन ‘वेदाहमेतं पुरुषं महान्त’मिति पूर्वमंत्रे तद्वदनस्यामृतत्वसाधनताया उक्तत्वेन च तदनन्तरं तस्मात्परस्योक्तेस्तद्वदनरहितानाममृतत्वाभावोक्तेश्चो- पक्रमविरुद्धात्। अतः पूर्वोक्तं परमपुरुषादन्यदुत्कृष्टं नास्तीत्येतत्तस्यैव सर्वोत्कर्षत्वे हेतुत्वेन तत इति पञ्चम्यन्तं" पदं परामृशतीत्येन युक्तम्। अपि च ‘तेनेदं पूर्णं पुरुषेण सर्वं। ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थित’ इत्यादिकात् परमपुरुषस्य सर्वव्यापकत्ववचन जातादपि तस्मात्परं तत्त्वं नास्तीत्यवसीयते। तदधिकतत्त्वान्तर- सद्भावे तस्य सर्वशरीरकतया सर्वव्यापकोक्त्ययोगात्। तस्माद्ब्रह्मणः परं तत्त्वान्तरं नास्ति ब्रह्मैव मुमुक्षूपास्यं मुक्तप्राप्यं" च परं तत्त्वमिति सिद्धम्॥ संग्रहकारिकाः। तरितव्यसेतुभावोमिति रन्यप्रापकत्वमन्यावरता। गमयन्ति कारणमपि प्रापकमिति वोढ्टवत्ततोऽन्यत्॥ प्राप्यं मैवं कारणमेव हि सर्वत्र प्राप्यमाम्नातम्। सेतुत्वाद्युक्तीनां तदनुगुणा वृत्तिरेष्टव्या॥ सेतुरिहासङ्करकृत्तरतिः प्राप्तिर्मितिः परोपधिना। स्वस्य स्वप्रापकता चेष्टव्या पंचमी च हेत्वर्था॥ इति पराधिकरणम्॥7॥