उभयव्यपदेशात्त्वहिकुंडलवत्॥26॥ प्रकाशाश्रयवद्वा तेजस्त्वात्॥27॥ पूर्ववद्वा॥28॥ प्रतिषेधाच्च॥29॥ मूर्तामूर्तब्राह्मणोक्तं प्रपञ्चस्य ब्रह्मस्वरूपत्वं कीद्दशमिति विचार्यत इति सङ्गतिः। किंतदहिकुण्डलयोरिव भेदाभेदाभ्यां, उतप्रभाप्रभावतोरिवैकजातियागेन, अथवाजीवस्येव शरीरतयेति संशये यथाहेरहित्वेनाभेदेपि कुण्डलभावऋजुभावरूपसंस्थानविशेषापत्या भेदः एवं ब्रह्मणः स्वरूपाभेदेपि कार्यप्रपञ्चरूपापत्याभेदः" ‘ब्रह्मैवेदं सर्वमिति नामरूपं व्याकरवाणी’ति भेदाभेदोभयव्यपदेशादित्येकः पक्षः। तथा सति ब्रह्मणो निर्विकारत्वश्रुतिविरोध स्यात्।अतोभिन्नायोरेव ब्रह्मादिप्रपञ्चयोरेकजातियोगेनाभेदव्यपदेशः सर्वमिदं तेज इति व्यवहारवत् सर्वं खल्विदं ब्रह्मेति व्यवहार इति पक्षांतरम्। गोत्वस्य खण्डुमुण्डादाविव ब्रह्मत्वस्य घटपटादावनुवृत्तेः सकलश्रुतिव्यवहार- विरुद्धत्वाज्जीववदचित्प्रपञ्चस्यापि शरीरतयैव ब्रह्मविशेषणता। अत एव शरीरधर्माणां शरीरिणि प्रसक्तौ ‘नास्य चरयैतज्जीर्यति न वधेनास्य हन्यत’ इति तत्प्रतिषेधः। तस्मादुपपन्नं ब्रह्मणः पूर्वाधिकरणोक्तं" निर्दोषत्वम्। अस्य पृथगधिकरणत्वे प्रकृतैतावत्त्वमित्यादेः पूर्वाधिकरणानुप्रनिष्टत्वे च हेतुः श्रोतव्य इत्युक्तं श्रुतप्रकाशिकायाम्॥ संग्रहकारिके॥ संस्थानविशेषतया विश्वस्य ब्रह्मरूपत्वम्। अहिकुण्डलतावत्स्याद्रुचिदीपवदैकजात्याद्वा॥ जीवस्येवांशत्वं विशिष्टवस्त्वेकदेशतारूपम्। रूपत्वं विश्वस्य श्रुतुनिकुरुम्बाविरोधेन॥ इति अहिकुण्डलाधिकरणम्॥6॥