नस्थानतोपि परस्योश्रयलिङ्गं सर्वत्रहि॥11॥ भेदादिति चेन्न प्रत्येकमतद्वचनात्॥12॥ अपिचैवमेके॥13॥ अरूपवदेव हि तत्प्रधानत्वात्॥14॥ प्रकाशवच्चावैयर्थ्यात्॥15॥ आह च तन्मात्रं॥16॥ दर्शयतिचाथो अपि स्मर्यते॥17॥ अतएवचोपमा सूर्यकादिवत्॥18॥ अंबुवदग्रहणात्तु न तथात्वं ॥19॥ वृद्धिह्रासभाक्त्वमन्तर्भावादुश्रयसामञ्जस्यादेवं दर्शनाच्च॥20॥ प्रकृतैतावत्वं हि प्रतिषेधति ततो ब्रवीति च भूयः॥21॥ तदव्यक्तमाह हि॥22॥ अपि संराधने प्रत्याक्षानुमानाभ्यां॥23॥ प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात्॥24॥ अतोनन्तेन तथा हि लिंगं॥25॥ पूर्वपादे जीवस्य वैराग्यहेतु गतागतभ्रमणरूप जागरवृत्तात प्रतिपादनेनास्मिन्पादे परब्रह्मणो विचित्रस्वप्नार्थ स्रष्ट्टत्व सुषुप्तविश्रांतिस्थानत्वरूपमहिमप्रतिपादनेन च मूर्च्छार्याः मरणार्धसंपत्तिरूपत्व प्रतिपादनद्वारा मूर्च्छामरणावस्थास्वरूप विशदीकरणेन च जीवस्यजागराद्यवस्थासुयेदोषाव्यंचितास्ते तदंतर्यामिणोपि भवन्तीति उतनभवतीति जीवदोषहेतूनां कर्मणामीश्वरेपि सद्भावसद्भावभ्यां तस्मिन्कर्माभावेपि तेषां शरीरवस्थिति प्रयुक्तत्वतदभावाभ्यां" च संशयः। एवं तस्य समस्तकल्याणगुणात्करत्वं संभवति नवेति नेतिनेतीत्यादि श्रुतिविरोधाभाव तत्सद्भाभ्यां च संशयः। एवमुभयलिङ्गत्वासंशये पूर्वपक्षः। हेयेदेवमनुष्यादि शरीरे स्थितिर्दुःखजननीति जीवे संप्रतिपन्नं कथमंतर्यामिण्यपि सादुःखजननी न भवेत्। अंतर्यामी निरस्तसम्स्त- हेयस्समस्तकल्याणगुणाकरश्चेति श्रुत्यादिभिः प्रमिति इति चेत् किं जीवस्तथा प्रजापतिवाक्येन न प्रमितः। अथ जीवस्य निर्दोषकल्याणगुणाकरत्वं" कर्माविद्यादितिरोहितमिति चेत् तुल्यमन्तर्यामिण्यपि सर्वशरीरकताय सर्वशब्द-वाच्यस्य तस्य ‘ब्राह्मणो बृहस्पतिसवेन यजेतराजा राजसूयेन यजेत न ब्राह्मणस्सुरां पिबेन्न परदारान्गच्छे’दित्यादि विधिनिषेधवाक्यगतब्रह्मक्षत्रियादिशब्दवाच्यस्य विधिनिषेधाधिकारानिवारणात्। मा मूद्वा ब्रह्मणः कर्म तथाऽपि देहे स्थित्वा तत्प्रयुक्तदोषाः स्युः। ननु संभोगप्राप्तिरितिचेदित्यादिष्वक्रमवश्यस्य ब्रह्मणः" स्थानसम्बन्धप्रयुक्तदोषासंस्पर्श उक्तः। सत्यं तदुक्तिरेवाक्षिप्यते। कर्माण्यपि देहसम्बन्धमापादयन्ति, दोषजननानि भवन्तीति तदेतद्देहयोगाद्वासोऽपीतिपूर्वाधिकरणसूत्रेण दर्शितम्। अतो देहसम्बन्धाविशेषे कर्माभावोक्त्या किं समाहितं स्यात्। मलमूत्रमांसपूयशोणितादिकर्दमितेदेहे रौरवइवावस्थानस्यादिहेयत्वात्। नचान्तर्यामिणश्शरीरेऽ- वस्थानस्य स्वेच्छाधीनत्वेन कश्चन विशेषः। स्वयमेव स्वकरं छिदतोऽपि तत्प्रयुक्तदोषापरिहारादिति। एवं" निर्दोषत्वं तावन्नसम्भवति। नेति नेतीत्यादिनिर्विशेषश्रुतिविरोधात् कल्याणगुणवत्त्वमपि तस्य न सम्भवति। तस्मान्नोभयलिङ्गं ब्रह्मेति। एवं प्राप्ते सिद्धान्तः। स्वतो निर्दोषस्य ब्रह्मणस्तत्र तत्र स्थानतोऽपि दोषा न प्रसज्यन्ते श्रुतिषु स्मृतिषु च तस्य निरस्तनिखिलदोषत्वकल्याणगुणाकरत्वलक्षणेभयलिङ्गत्वप्रतिपादनात्। श्रूयतेहृपहतपाप्मा विरजो विमृत्यु रित्यादि। स्मर्यते च- ‘समस्तहेयरहितं विष्णवाख्यं परमं पदं। समस्तकल्याणगुणाकरोऽसावित्यादि। नच देहावस्थितितौल्ये जीववद्दोषाः कथं न प्रसज्यन्त इति वाच्यम्। ेतच्छङ्कापरिहारार्थमेवान्तर्यामिब्राह्मणे पृथिव्यादिपर्यायेषु प्रतिपर्यायं ‘एषत आत्मान्तर्याम्यमृत’ इति अमृत्वोक्तेः। ततश्च तत्र तत्र स्थित्वा नियमनं कुर्वतोऽप्यंतर्यामिणो न तत्सम्बन्धप्रयुक्ता दोषा भवन्ति। न हि कारागृहे चोरस्येव तत्क्लेशनार्थं तत्र स्थितस्याधिकारिपुरुषस्य बन्धनाडनादिदोषा भवन्ति। नच तथाऽपि मलमूत्रादिपूरि- तदेहान्तरवस्थानं स्वयमेव साक्षात् कुर्वतोंतर्यामिणस्तत्प्रयुक्ता दोषा न भवन्तीति कथं प्रत्येतव्यमिति चेत्। उत्यते। वस्तूनां" दोषावहत्वं न तत्तद्वस्तुस्वभावप्रयुक्तम्। देशकालपुरुषादिभेदेनैकस्यैव वस्तुनस्सुखदुःखोभयरू- पत्वदर्शनात्। किंतु तत्तत्कर्मविशेषाधीनं। तथोक्तं भगवता पराशरेण— ‘नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम। वस्त्वेकमेव दुःखाय सुखायेर्ष्यागमायच॥ कोपायच यतस्तस्माद्वस्तुवस्त्वात्मकं कुत’ इति। यदुक्तमीश्वरस्यापि कर्मवश्यता न निवार्येति। तन्न। सर्वज्ञस्य तस्यास्मदादीनामिवेदं कर्म मया कर्तव्यमिति विधिभिर्ज्ञाप्यत्वासम्भवेन सर्वप्रेरकस्य तस्य तत्प्रेर्यत्वासम्भवेन च तत्र कर्मवश्यतोक्तर्निरालम्बनत्वात्। एवमीश्वरस्य कर्माभावदेवैकदैह- स्थितयोरपि जीवेश्वरयोर्भोगतदभावव्यवस्थां दर्शयति ‘द्वासुपर्णा सयुजा सखाये’त्यादिमंत्रे। तस्माद्देहावस्थित्या रूपवदपि ब्रह्म रूपरहिततुल्यमेव। ‘आकाशो वै नामे’त्यादिश्रत्या सर्वानुप्रविष्टस्यापि तस्य नामरूपकार्यास्पर्शेन केवलं निर्वोढ्टत्वप्रतिपादनात्। नन्वस्त्वेवं" निर्दोषत्वं ब्रह्मणः कल्याणगुणवत्त्वं कुतः ‘सत्यं ज्ञान’मिति हि मंत्रस्तस्य ज्ञानैकरुपत्वमाह। मैवं। अयं हिमत्रस्तस्य ज्ञानरूपत्वमात्रं वदति नतु गुणान्तरं वारयति। अतस्सत्यं ज्ञानमित्यतस्तस्य ज्ञानरूपत्ववत् कल्याणगुणवत्वमपि श्रुत्यन्तरादभ्युपेयं। अत एव वेदान्तगणस्तस्य निरस्तनि- खिलदोषत्वं समस्तकल्याणगुणाकरत्वं चेत्युभयमपि दर्शयति। ‘निष्कळं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्। तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवत’मित्यादिकः। स्मर्यते च तथा ‘सर्वज्ञस्सर्वदृत्सर्वशक्तिज्ञान- बलर्द्धिमान्। अन्न्यूनश्चापि वृद्धिश्च स्वाधीनोऽनादिमान् वशी॥ तन्त्रीद्वेषभयक्रोधकामादिभिरसंयुत’ इत्यादि। एवं देहे स्थितावपि तत्प्रयुक्तदोषभाक्त्वाभावादेवशास्रे जलपदर्पणादि प्रयुक्तदोषास्पृष्टजलसूर्यद्युपमा निबध्यते। ‘आकाशमेव हि यथा घटादिषु पृथग्भवेत्। तथाऽऽत्मैकोह्यनेकस्थो जलाधारेष्विवांशुमान्। एक एव हि भूतात्मा भुते भूते व्यवस्थितः। एकधा बहुधाचैव द्दश्यते जलचंद्रव’दिति। ननु वस्तुतस्सूर्यो जले नप्रविष्टो भ्रांत्या तत्रस्थ इव देहप्रयुक्तदोषा नान्तर्यामिणि भवन्तीति। एवं" दोषस्पर्शमात्रं हि द्दष्टान्तेन निवर्त्यते। दोषास्पर्शमात्रविवक्षाच ‘आकाशमेकं हि यथेत्यादि श्लोके घटीदिषु वस्तुतोऽवस्थितस्याकाशस्य जलाधारेषु वस्तुतोऽनवस्थितस्य सूर्यस्यचेति द्विविधस्य भवति। तस्य सूर्याकाशोभयानुगतत्वात्। विवक्षितांशसाम्यमात्रेण च दृष्टान्तीकरणं। लोकेऽपि सिंहो माणवक इत्यादिव्यवहारो दृश्यते। सर्वात्मना साम्यं तु क्वचिदपि न सम्भवति। तस्मान्निरस्तनिशिलदोषं समस्तकल्याणगुणास्पदं" चेत्युभयलिङ्ग ब्रह्म। स्यादेतत् बृहदारण्यके ‘द्वेवावब्रह्मणोरूपे मूर्तंचैवामूर्तंचे’त्यादिना स्थूलसूक्ष्मात्मकं सर्व प्रपञ्चं" ब्रह्मणोरूपत्वेन परामृश्य तस्य हैतस्य पुरुषस्यरूपं यथामहारजनं वासोयथेंद्रकोपोयथार्ग्न्चिर्यथा पुऩ्डरीक’मिति तस्याकारविशेषं" चाभिधाय अथात आदेशोनेति नह्येतस्मादिति नेत्यन्यत्परमस्तीति प्रकृतं सर्वं ब्रह्मणः प्रकारमिति शब्देन परमृश्य तत्सर्वंप्रतिषिध्य सर्वविशेषाधिष्ठानं सन्मात्रमेव ब्रह्मस्वरूपमिति दर्शयति श्रुतिः। अतः कथमुभयलिंगत्वं ब्रह्मण इति चेत्, उच्यते। प्रकृतैतावत्त्वं" प्रतिषेधतीदं वाक्यं। ये ब्रह्मणो विशेषाः प्रकृताः तद्विशिष्टतया तस्य प्रतीयमानेयत्ता नेति नेतीति प्रतिषिध्यते। उक्तप्रकारमात्रविशिष्टं" ब्रह्म न भवतीति यतो निषेधानन्तरं भूयोऽपि तस्य गुणजातं ब्रवीति- नह्येतस्मादिति नेत्यन्यत् परमस्त्यथनामेधेयं सत्यस्य सत्यं" प्राणा वै सत्यं तेषामेष सत्यमिति। अयमर्थः। नेत्यनेन एतावन्मात्रविशिष्टं न भवतीतियर्थकेन यद्ब्रह्मप्रकृतं तस्मादेतस्मादन्यत् परमुत्कृष्टं वस्तु नास्ति तदेव सर्वोत्कृष्ट यतस्तस्य ब्रह्मणो नामधेयं सत्यस्य सत्यमिति। तत्र षष्ठ्यन्तसत्यशब्देन वियदादिवत् स्वरूपान्यथा भावरूपविकाररहितो जीववर्ग उच्यते। ततोऽप्येषः प्रकृतः परमात्मा सत्यः कर्मानुगुणज्ञानसङ्कोचविकासरूप- धर्मान्यथाभावस्याप्यभावादिति तन्निर्वचनमिति। तस्मादेवंविधवाक्यशेषोदितिगुणयोगात् ब्रह्मणस्सविशेषत्वं न प्रतिषिध्यते, किंतु पूर्वप्रकृतेयत्तामात्रं। श्रुत्य पूर्ववाक्ये स्वयमुपदिष्टस्य मूर्तामूर्तप्रप़ञ्चवैशिष्ट्यस्य स्वयमेव निषेधायोगात्। नहि ब्रह्मणस्तद्वैशिष्ट्यं प्रमाणानतरसिद्धं" येनेह तदनूद्य निषिध्यते। ब्रह्मैव हि तावदव्यक्तं ‘न सन्द्दशे तिष्ठति रूपमस्ये’त्यादिश्रुतेः। तत्र तद्वैशिष्ट्यं कथमन्यतस्सिध्येत्। अपि च संराधने सम्यक्प्रीणने महनीयविषयप्रीतिरूपभक्तिदशापन्ने निधिध्यासन एव तस्य दर्शनं नान्यत्रेति ‘यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वां। भक्त्यात्वनन्यया शक्य अहमेवंविधोऽर्जुन। ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तपे’ त्यादिश्रुतिस्मृतिभ्यामवगम्यते। अतोऽपि तत्र प्रागप्रसिद्धं मूर्तामूर्तवैशिष्ट्यं नानुवदितुं क्षमं। इतश्च ज्ञानानन्दवत् ब्रह्मणो जगद्वैश्वर्यमपि वस्तुतो रूपं तत्संराधनाभ्यां तत्साक्षात्कृतब्रह्मणा साक्षात्कारे ज्ञानानन्दादिस्वरूपवत् मूर्तामूर्तविशिष्टताया अपि ब्रह्मगुणत्वावैशेष्यमवभासते ‘तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च’ त्यादिश्रुतेः। अतस्तत्त्वसाक्षात्कारे भासमानस्य पारमार्थिकत्वनियमान्नप्रपञ्चवेशिष्ट्यं" निषेधक्षमिति प्रकृतेयत्तामात्रस्य निषेधः। अत उक्तैर्हेतुभिर्ब्रह्मणोऽनन्तकल्याणागुणविशिष्टत्वसिद्धेरुभयलिङ्गमेव ब्रह्म॥ संग्रहकारिकाः॥ शरीरदौ हेयेस्थितिरवसिता दुःखरिणी कथं न ब्रह्मां तर्यमयितृभवेद्दुःखकलुषम्। श्रुतिस्मृत्यद्धोषान्मितमुभयलिङ्गं तदिति चेत् मितं प्राजापत्या द्वचस इह जीवोपिहि तथा॥ अथकर्मतिरोहितं तदीयं यदिनिर्दोषगुणाकरत्वलिङ्गम्। अदसीयमपीत्थमेव साम्यादुभयोः कर्मनिकायवश्यतायाः॥ शास्रं हि ब्रह्मापि क्रोडीकुरुते स्फुटं नियोज्यतया। ब्रह्मक्षत्रादिपदैरुदितं तत्तच्छरीरकत्वेन॥ माभूत्कर्मस्वेच्छयावास्य देहैस्संबन्धोस्तुस्यादनर्थायसोपि। किंनच्छिन्द्याद्राजकोपं विनापि स्वेच्छामात्रात्तक्ष्णिखङ्गप्रहारः॥ न च तस्य गुणास्संतिनेतिनेती तिशब्दतः। विज्ञानमात्रतोक्तेश्च साक्षाच्चागुणाताश्रुतेः॥ मैवं कर्मनिबंधनमिदं न वस्तुवभावकृतम्। देहेंद्रियविषयाणामचितां यद्दुःखहेतुत्वम्॥ अत एव हि कल्पंते भोजकभेदाच्च कालभेदाच्च। ते दु-खाय सुखाय च महतः पुरुषस्य संकल्पात्॥ नास्यकर्मविधिर्नियोज्यता ब्रह्मणोस्त्यपरतंत्रवृत्तिनः। ज्ञाप्यता नु खलु सर्ववेदितुः प्रेर्यतापि च न सर्वशासितुः॥ तस्मादयं कर्मतिरोधिहीनः निर्दोषकल्याणगुणाकरत्वात्। हेयेषु तिष्ठन्नपि तेषुतेषु स्पृश्यो न दोषैस्सवितेव तोये॥ विज्ञानाकारतोक्त्या शुभगुणनिकरानव्यवच्छेद मर्ह- न्त्याम्नातत्वाविशेषात्तदितरविषयस्स्याद्गुणानां निषेधः। एतावत्वं निषेधन्प्रकृकतपरिमितं नेतिनेतीति शब्दो भूयोऽन्यच्चव्यनक्ति क्षिपति न विहितं ब्रह्मणो रूपयुग्मम्॥ इति उभयलिङ्गाधिकरणम्॥5॥