10 मुग्धाधिकरणम्

मुग्धेऽर्धसम्पत्तिः परिशेषात्॥10॥ जीवावस्थानप्रसङ्गादिदमधिकरणं। मूर्च्छा जागरस्वप्नसुषुप्तिमरणरूपप्रसिद्धावस्थास्वन्तर्भूता उत तद्भिन्नेति भेदकसद्भावासद्भावाभ्यां" संशये यद्यप्येषा विशेषविज्ञानाभावान्नजागरः स्वप्नो वा। नापि सुषुप्तिः प्रसन्नवदनत्वश्वासभरितत्वयोरभावात्। तथाऽपि सर्वेषामिन्द्रियाणां" प्राणवायोश्च व्यापारादर्शनात् मरणमेवैषेति पूर्वः पक्षः। कराळवदनत्वाद्याकारवैरूप्यात् सूक्ष्मश्वाससञ्चारवत्वान्नमरणं, किं" तुवृक्षाग्रपतनादिनिमित्तसौक्ष्म्यापन्न- प्राणयक्तापि चिकित्साद्यभावे मरणयार्धसम्पत्तिरूपा ततोपि भिन्निति सिद्धान्तः। संग्रहकारिका॥ नांतर्भूता जागरादित्रये चे दज्ञानाद्यैस्तर्हिमूर्च्छामृतिस्स्यात्। नैतत्सारं किंचनश्वासद्दष्टेर्मर्तुं प्रक्रम्यैव मध्येस्थिततस्स्यात्॥ इति मुग्धाधिकरणम्॥4॥