स एव तु कर्मानुस्मृतिशब्दविधिभ्यः॥9॥ सुप्तस्य प्रबोधश्चिंत्यत इति संगतिः। किसुप्तादन्यः प्रबोध उत्तिष्ठति उत स एवेति सुषुप्तौ सकलोपाधिनिर्मोक्षास्तित्वनास्वित्वाभ्यां" संशये पूर्वपक्षः। अन्य उत्तिष्ठति। सुषुप्तस्य ‘तंनकश्चनपाप्मा श्पृशती’ति सर्वपापास्पर्शोक्त्या सर्वोपाधिविनिर्मोक्षवगमात् बृहदारण्यके सुषुप्तिं प्रकृत्त्य ‘अनन्वागतं पुण्येनानन्वागतं पापेन तीर्णोहितदासर्वान् शोकान् हृदयस्य भवती’ति तस्य पापोत्तीर्णत्वतन्मूलकसर्वदुःखोतरणयोः" श्रवणात्। तत्रैव ‘सयथा कुमारोवा महारीजोवा महाब्राह्मणोवातिघ्नीमानंदस्य गत्वाशयीतैव मेवैष एतच्छेत इति’तद्वा अस्यैतदतिच्छंदा अपहतपाप्माभयं रूपं तद्यथा प्रियया संपरिष्वक्तो नबाह्यं किं चन वेदनांतरमि’ति सुषुप्तौ मुक्ताविव ब्रह्मसंपत्त्या निरतिशयानंदश्रवणाच्च। अतिघ्नी अतिशयेनदुःखहन्त्रीमानंदस्य दशां प्राप्येत्यर्थः। तस्मादुपायसहस्रेणापि मुक्तस्येव ब्रह्मप्राप्तस्य पुनरावृत्तिरुपपादयितुमशक्येत्यन्त एवोत्तिष्ठतीत्यभ्युपगन्तव्यम्। यद्येवंसति कर्मानुस्मृतिशब्दविधिविरोधस्स्यादित्यपरितोषस्तदा सुषुप्तस्य सत्संपत्तिरेव त्यक्तव्येति। एवं प्राप्ते ब्रूमः। सुषुप्तएवोत्तिष्ठति। नान्यः। कर्मानुस्मृतिशब्दविधिभ्यः। सुप्तेः पूर्वं पुण्यपापरूपं तत्त्वज्ञानात्प्रापक्तेनैव हि भोक्तव्यं। योऽहं सुप्तः सोऽहं" प्रतिबुद्धोऽस्मीति प्रत्यभिज्ञा च द्दश्यते। ‘त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पंतगो वा दंशो वा मशको वा यद्यद्भवन्ति तदा भवन्ती’ति सुषुप्तिप्राग्रूपस्यैवानुवृत्ति- राम्नायते। एते विरुध्द्येरन्। सुषुप्तस्य मुक्तत्वे मोक्षार्थाश्च विधयोऽनर्थकास्स्युः। कुंभकर्णवत् सुषुप्त्यनुवृत्तिरेव प्रार्थनीयास्यात्। का तर्हि सत्संपत्त्यानन्दानुभववचनयोर्गतिः। नेयमात्यंतिकी सत्सम्पत्तिः। देहेन्द्रियकर्माविद्याति- रोधानसत्त्वात्। नाप्यानन्दानुभवोऽस्ति। इन्द्रियाणामुपरतत्वेन विषयभोगाभावात् तिरोधायकसत्त्वेन ब्रह्मानन्दानु- भवाभवाच्च। अत एव सुषुप्तं प्रकृत्य श्रुतिः- ‘नाहखल्वयमेव सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामी’ति। किन्तु जागरे करणकळेबरव्यापारजटिले श्रान्तस्य विश्रमस्थानं हृदयाकाशरूपं परंब्रह्मप्राप्तस्य सर्वविधशरीरेन्द्रियव्यापारोपरत्या श्रांत्यपनयोभवतीत्येतावान्विशेषः। ‘स यथा शकुनिः सूत्रेण प्रबद्धो दिशंदिशं पतित्वाऽन्यत्रायतनमलब्ध्वा बन्धनमेवोपश्रयत एवमेवेदं मनोदिशंदिशं पतित्वाऽन्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते प्राणवन्धनं हि सोम्य मन’ इति सौषुप्तिकसत्सम्पत्तिवाक्यशेष- दर्शनात्। अत्र मनः प्राणशब्दौ जीवब्रह्म परौ। पाप्मा संस्पर्शोक्तिस्तु दिव्यक्षेत्रानुप्रवेशं तं गृहीतवतः पिशाचस्येव सुषुप्तौ हृदयाकाशरूपब्रह्मानुप्रवेशे पाप्माधिकरणस्यान्तः करणस्यान्तः बहिरेवावस्थानमित्येतदभिप्राया योज्या। तस्मात् सुषुप्त एवोत्तिष्ठति। एवं सत्येव ‘अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विंदन्त्यनृतेन हि प्रत्यूढा’ इति श्रुतिरपि सङ्गच्छते॥ संग्रहकारिका॥ मुक्तिपदेव सुषुप्तौ ब्रह्माप्तिस्तस्य न पुनरुत्थानम्। तस्मादन्योत्थितिरिति तुच्छमनुस्मरणकर्मविधिशब्दात्॥ इति कर्मानुस्मृतिशब्दविध्यधिकरणम्॥3॥