तदभावो नाडीषु तच्छ्रतेरात्मनिच॥7॥ अतः प्रबोधोऽस्मात्॥8॥ स्वप्नानंतरं सुषुप्तः परीक्ष्यते। इदमाम्नायते ‘अथ यत्रैतत्सुप्तस्समस्तस्संप्रसन्नस्स्वप्नं न विजानाति आसु तदा नाडीषु सुप्तो भवती’ति। तथा ‘अथ यदा सुषुप्तो भवति यदा न कस्य चन वेद हितानामनाड्यो द्वासप्त- तिस्सहस्राणि ह्यदयात्पुरीततमभिप्रतिष्ठन्ते ताभिः" प्रत्यवसृप्य पुरीततिशेत’ इति। तथा ‘यत्रैतत्पुरुषस्स्वपिति नाम सतासोम्य तदा सम्पन्नो भवति सति संपद्यन विदु’रिति। एवं नाड्यः पुरीतद्धृदयाकाशरूपं ब्रह्मचेति त्रिषु सुषुप्तिस्थानत्वेन श्रूयमाणेषु किमेषां विकल्पस्समुच्चयोवेति एकप्रयोजनवत्वप्रयोजनभेदाभ्यां संशये पूर्वपक्षः। प्रत्येकं सप्तमीभिः नैरपेक्ष्यावगमात् अणोर्जीवस्य युगपत् सुषुप्त्ययोगाच्च विकल्पः। यद्यपि ‘सति संपद्य न विदु’रित्यत्र सत्पदेन केवलं ब्रह्मोक्तं, तथाऽपि अपरिच्छिन्नब्रह्मसंबन्धस्य नित्यमेव सत्वात् विशिष्य सुषुप्तिदशायां तत्संपत्त्युक्त्ययोगेन किंचित्प्रदेशावच्छिन्नब्रह्मसंपत्तिविषयत्वकल्पनावश्यंभावेसति ‘यत्रैष एतत्सुप्तोऽभूत् य एष विज्ञानमयः पुरुषस्तदैषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेत’इति श्रुत्यन्तरद्दष्टं हार्दाकाशरूपमेव ब्रह्माधिकरणं पर्यवस्यति। तस्मात्र्त्रयाणां विकल्प इति। सिद्धान्तस्तु- प्रासादखद्वापर्यङ्कन्यायेन तेषां प्रयोजनभेदेन समुच्चयसंभवात् ‘सत आगम्य न विदुरि’ति सुषुप्तजीवानां ब्रह्मणस्सकाशादेव प्रबोधस्य नित्यवदाम्नानाच्च नाष्टदोषदुष्टो विकल्पो युक्तः। व्रीहियवयोस्त्व- वगत्याविकल्पः। यथाहुः–‘एवमेषोऽष्टदोषोऽपि यद्व्रिहितववाक्ययोः। विकल्प आश्रितस्तत्र गतिरन्या न विद्यत’ इति। प्राप्तप्रामाण्यपरित्यागः, अप्राप्तप्रामाण्यस्वीकारः, परित्यक्तप्रामाण्यस्वीकारः स्वीकृताप्रामाण्यपरत्यागश्चेति व्रीहिशास्रे यवशास्रे च प्रत्येकं चत्वारो दोषा इत्येव विकल्पेऽष्टौ दोषाः प्रसिद्धाः। एवमष्टदोषप्रसिद्धिः व्रीहियव- रूपप्रसिद्धोदाहरणे। इह नाडीपुरीतद्ब्रह्मणां त्रयाणां विकल्प इति पूर्वपक्ष तु एकैकत्र चत्वारो दोषा इति द्वादशादोषाः प्रसज्यन्ते। तथा हि- एकस्यां" सुषुप्तौ नाड्यां शयने पुरीतद्वाक्ये ब्रह्मवाक्ये च प्रत्येकं प्राथमिकौ द्वौ द्वौ दोषौ। सुषुप्त्यन्तरे पुरीततिशयने नाडीवाक्ये प्राथमिकौ द्वौ दोषौ। पुरीतद्वाक्ये तु उपरितनमपि दोषद्वयमिति चत्वारो दोषाः। पुनस्सुषुप्त्यन्तरे ब्रह्मणि शयने ब्रह्मवाक्येऽपि उपरितनं दोषद्वयं सुषुप्त्यन्तरे नाड्यां शयने नाडीवाक्येऽपि उपरितनं दोषद्वयमिति स्वापचतुष्टयेन द्वादशदोषाः प्रादुष्युः। व्रीहियवशास्रयोस्तु प्रयोगत्रयेण अष्टौ दोषा इति विशेषः। ननु अनेनाधिकरणेन कः परब्रह्मणो महिमविशेषस्सिध्यति सुषुप्तजीववि- श्रांतिस्थानत्वानपायात्॥ उच्यते- दहरविद्यायां सुषुप्तौ दहराकाशरूपं ब्रह्म प्राप्तस्य सकलपाप्मास्पर्शश्श्रूयते ‘सर्वे पाप्मानोऽतो निवर्तन्ते अपहतपाप्माह्येष ब्रह्मलोक’ इति। एवं ब्रह्मणस्सुषुप्तजीवगतसकलपापास्पर्शहेतुत्व- रूपो महामहिमा नियतस्सिध्यति ‘तन्नकश्चन पाप्मा स्पृशति तेजसा हि तदा संपन्नो भवती’ति नाडीवाक्यगत- तेजश्शब्दोऽपि नाडीद्वारा प्राप्यं ब्रह्माचक्षीतेति ततोऽपि तस्य महिमा नियतस्सिध्यति। अन्यथा नाडीवाक्ये शेषो नाडीसाधारण्यापत्त्या समहिमा परब्रह्मासाधारणो न सिध्येत्॥ संग्रहकारिके॥ नाड्यादीनि सुषुप्तावनपेक्षत्वाद्विकल्प्येरन्। जीवस्याणोस्रिषु युगपदवस्थितेरयोगाच्च॥ प्रासादखट्वापर्यङ्कन्यायात्तेषां समुच्चयः। तत्सम्भवे हि स्वीकार्यो न विकल्पोऽष्टदोषभाक्॥ इति तदभावाधिकरणम्॥2॥