07 x02सन्ध्याधिकरणम्

श्रीः" ॥तृतीयाध्यायस्य द्वितीयः पादः॥ एवं वैराग्यपादेन संसारस्य क्षयिष्णुत्वसातिशयत्वादिना इह परत्र तृतीयस्थाने च परिभ्रमणेन च दुःखरूपता निरूपिता। अवरोहणे च आकाशादिदेवताभावेन ततः पार्थक्येन वा आकाशादिशरीरकत्वमस्ति चेत् तेन सुखानुऽस्तीति स्यात्। तद्वारणाय मूर्च्छितप्रायाणान्तेषां संश्लेषमात्रामिति निरूपितम्। व्रीह्याद्योषधिभावेन जन्मास्ति चेत् तत्तदभिमानिदेवतारूपत्वप्राप्त्या सुखानुभवोऽस्तीति स्यात्। वनस्पत्यादीन् प्रकृत्य हि पुराणेषु पठ्यते ‘पत्रपुष्पफलैर्नित्यं छाययाचैव शाखिनः। परेषामुपयुज्यन्ते तद्धि तेषाम्महत्तपः॥ तेषां दया सदा कार्या भक्तिः" कार्या तथैव च। यस्त्वेषां भक्तिमान्नित्यं तस्यास्य किल देवताः॥ सर्वान्कामान्प्रयच्छन्ति प्रसीदन्ति च सर्वदा॥ वानस्पत्ये तथा लोके सर्वेऽप्येते हि शाखिनः। शरीरवत्यस्तिष्ठन्ति देवता नात्र संशयः॥ द्रुमगोपायितारञ्च परलोकमुपागतम्। हृद्येन गीतवाद्येन रमयन्त उपासत’ इत्यादि। अतस्तत्प्रयुक्तसुखांश वारणाय ओषधिवनस्पतिजन्मापि निवारितम्। एवं संसारस्य दुःखभूयितष्ठत्वे प्रतिपादिते परब्रह्मप्रेप्सोत्पादनाय तस्य महिमा निरूपणीयः। अन्यथा सुखलवयुक्ते संसारे वैराग्यं दृढीकृतं नस्यात्। अतस्तस्य स्वप्नाश्चर्यप्रदर्श- यितृत्वादिसकलकर्मफलप्रदत्वान्तो महिमाऽनेनोभयर्लिगपादेन निरूप्यते— संध्ये सृष्टिराह हि॥1॥ निर्मातारञ्चैके पुत्रादयश्च॥2॥ मायामात्रन्तु कार्त्स्न्येनानश्रिव्यक्तव्स्वरूपत्वात्॥3॥ पराभिध्यानात्तु तिरोहितं ततोह्यस्य बंधविपर्ययौ॥4॥ देहयोगाद्वा सोऽपि॥5॥ सूचकाश्रहि श्रुतेराचक्षतेच तद्विवः॥6॥ जागरावस्थावृत्तांतमधिकृत्य प्रथमपादः प्रवृत्तः। इहाधिकरणे स्वप्नावस्थावृत्तान्तो विचार्यते। ‘न तत्र रथानरथयोगा नपंथानो भवन्ति अथ रथान् रथयोगान् पथस्सृजते न तत्र वेशन्ताः पुष्करिण्यस्स्रवन्त्योभवन्ति अथ वेशन्तान् पुष्करिण्यस्स्रवन्त्यसृजते सहिकर्ते’ति। तत्र संशयः- किं जीवकर्तृकेयं सृष्टिः, उत ईश्वरकर्तृकेति। जीवकर्तृकेति तावत्प्राप्तं। सहिकर्तेति श्रवणात्। तत्र तत्पदस्य ‘पाप्मन आनन्दांश्च पश्यती’ति प्रकृतस्वप्नद्रष्ट्टजीवपरामर्शित्वात्। न च तस्य स्वप्नप्रपञ्चस्रष्ट्टत्वासम्भवः, तस्य प्रजापतिवाक्योदितसत्य- संकल्पत्वादिमत्वात् जागरदशायां तिरोहितस्यापि तस्य स्वप्ने मुक्ताविवाविर्भावोपपत्तेः। न चैतदयुक्तं पूर्वं पश्चाद्वाऽसतां" रथानां रथहयानां रथगमनोचितानां राजपथनांच स्वप्नकालेमात्रे भवनवत् सत्यसङ्कल्पत्वस्यापि तत्कालमात्रएवाविर्भावोपपत्तेः। न चैवं" सति प्रबुद्धस्य रथादीनद्राक्षमितिवत् रथादीनस्राक्षमित्यपि परामर्शस्स्यादिति वाच्यम्। तदंशे परामर्शादर्शनेन स्वप्नार्थस्रष्ट्टत्वानुभवस्य शैशवदशानुभवस्येव संस्काराना- धायकत्वकल्पनात्। न च जीवस्य स्वप्नार्थस्रष्ट्टत्वे सुभसूचकानेव सृष्ट्वा सपश्येत् न त्वशुभसूचकानिति वाच्यम्। तदानीं स्वप्नत्वाशुसूचकत्वाननुसंधानेन तत्स्रष्ट्युपपत्तः। न च तथापि भयहेतुस्वाप्नचोरव्याघ्राद्यनिष्ट- स्रष्ट्टत्वं" न स्यात्, स्वप्न एव तदनिष्टत्वानुसंधानप्रयुक्तभयकंपधावनादितर्शनेन तदननुसंधानकल्पनायोगादिति वाच्यम्। सृष्टिदशायामननुसंहितस्य अनिष्टत्वस्य सृष्ट्यनन्तरमनुसन्धानमितिकल्पनोपपत्तेः। स्वप्ने चिरातितपितृपितामदाहीन् पश्यतां तदानीं तदतीतत्वमननुसंदधानानां" स्वप्नेएव पुनः क्षणांतरे कथमेते चिरातीता- द्दश्यन्त इति तदनुसंधानदर्शनात्। ‘सहिकर्ते’ति स्वप्नसृष्टेर्जीवकर्तृत्वश्रुत्यनुसारेणैव तावत्कल्पनौचित्यात्। किं च कठवल्लीषु ‘य एषसुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाण’ इति जीवः कामानां स्रष्टाम्नायते। कामास्तत्र पुत्रादयः। पूर्वत्र ‘सर्वान् कामान छन्दतः प्रार्थयस्व। शतायुषः पुत्रपौत्रान् वृणीष्वे’ति पुत्रादीनां कामशब्देन परमृष्टत्वात्। अतः पुत्रादिसंबंधलिंगात् कठवल्लीषु जीवः स्वप्नसृष्टिकर्ता प्रतिपाद्यत इति निश्चयेन तदैकार्थ्यादिहापि स एवतत्कर्ता प्रतिपाद्यत इति युक्तम्। तस्मात् जीवकर्तृकैव स्वप्नसृष्टिरिति। एवं प्राप्ते सिद्धान्तः– सर्वेश्वर एव तत्कर्ता। अत्याश्चर्यरूपा हि स्वप्नसृष्टिः नित्याविर्भूतसत्यसङ्कल्पत्वादिगुणात्तत एवानुपपद्यते। जीवस्य सत्यसङ्कल्पादनादिकर्मपरंपरारूपाविद्यया देहाचित्प्रकृतियोगाभ्याञ्च तिरोहितत्वात्। तिरोधायकसत्वेच स्वप्नदशायामप्यभिव्यक्त्यसम्भवात् परमेश्वरस्य स्वप्नसृष्टिकर्तृत्व एव च रथादिसृष्ट्युक्त्य- नन्तरं स हि कर्तेति हेतूपन्यासस्सङ्गच्छते। स्वप्नद्दघ्यस्मिन् देशे रथं पश्यति तदानीं तत्र स्थितोऽन्यस्तं न पश्यति, स्वप्नद्दगपि प्रबोधानन्तरं तत्र गतस्तन्नपश्यति, न वा तस्यान्यत्र नयनचिह्नानि च स हि कर्तेति तत्र हेतुरुच्यते। सकलप्रपञ्चनाटकसूत्रधारः सर्वेश्वरः खलु कर्ता किं किमाश्चर्यं स्रष्टुं न शक्नुयादिति तदभिप्रायः। ‘य एष सुप्तेश्विति मन्त्रोऽपि सर्वेश्वरविषयः। तदनन्तरं ‘तदेव शुक्न्तद्ब्रह्म तदेवामृतमुच्यते। तस्मिन्लोकाः श्रितास्सर्वे तदु नात्येति कश्चने’त्याम्नानात्। अतः ‘कामं काम’मिति णमुलन्तं सङ्कल्पयसङ्कल्प्येत्येवमर्थे योज्यं। एवं परमेश्वरकर्तृकत्व एव च स्वप्ने तैलपानतैलावगाहनमांसभक्षणमध्वशनैक पुण्डरीकधारणादीनामशु- भसूचकानां तदानीन्तनानिष्टकारकाणां चोरव्याघ्रादीनां च सृष्टिरक्लेशेन उपपादिना भवति। सर्वेश्वरः तत्तत्कर्मानुसारेण जागर इव स्वप्नेऽपि पदार्थविशेषात् सृष्ट्वा तत्प्रयुक्तसुखदुःखान्यनुभावयतीत्युपपत्तिसत्वात्। अत्रेदं विचारणीयं- यत्र देशे स्वप्नद्दक् रथादीन् पश्यति तत्र स्वयं गत्वा पश्यति उत अपवरके शयान एवेति यांश्च पश्यति कथं देशकालवस्तुविपर्यासेन द्दश्यन्त इति च देशान्तरङ्गत्वेति श्रुतिरेवाह- ‘प्राणेन रक्षन्नवरं कुलायं बहिष्कुलायादवरश्चरित्वा। स ईहते अम-तो यत्र कामं" रिरण्मयः पुरुष एवहंस’ इति हि श्रूयते। हिरण्मयः प्रकाशरूपत्वादुज्वलः। एक एव हंति इह परत्र च गच्छतीति एकहंसः। ननु काश्यां रात्रावर्गळिते अपवरके शयितः स्वप्ने स्वशरीरणैव उत्तरांदिशं प्रस्थितः मुहूर्वमात्रेण काञ्ची प्राप्य तत्र वस्तुतो रथादिमत्सु देशेषु रथादीनपश्यन्तं" अन्यत्र तान्पश्यन्तं तस्यामेव बहुतिथं कालमतिवाहयन्तमात्मानमनुभवन्नेव यथापूर्वं अर्गळि- तापवरकशयितेन स्वशरीरेण शनानन्तरं मुहूर्तमात्रेण प्रतिबुध्यत इत्यनुभवसिद्धम्। कथमेतत्सर्वं सङ्घटनीयमिति चेत् उच्यते- परमेश्वरेण स्वप्ने सृष्टं यथाऽनुभवं पूर्वशरीरसद्दशं" विसद्दशं वा शरीरं पूर्वशरीरविलक्षणमिति न तभिर्गमेन कवाटोद्धाटनापेक्षा, नापि योजनशतप्राप्यदेशप्राप्तौ बहुकालापेक्षा, तदानीमीश्वरसृष्टेः" स्वप्नद्दगेकानु- भाव्यैरादित्यगताद्युपाधिविशेषैरवच्छिन्नानां दिक्कालानां तत्तत्स्वप्नदृगपेक्षया दिंगतरत्वादिवसत्वादिव्यवस्था, मार्गगतानां प्राप्यदेशगता नाञ्च जाग्रद्दशादृश्यवस्तूनामुपलंभाभावः, स्वाप्नचक्षुरादीनां स्वाप्नार्थमात्र ग्रहणयोग्यत्वात् गजादिमत्सु देशेषु रथाद्युपलंभः, स्वप्नजागरार्थानां जलालोकपवनन्यायेन मिथः प्रतिघातकत्वा- भावात् मुहूर्ताभ्यन्तरे गणरात्रादिवाहं" देवादिकालोपाधिभ्यो मनुष्यादिकालोपाधीनामिव जागरकालोपाधिभ्यः स्वप्नकालोपाधीनां सूक्ष्मत्वतारतम्यादिति सर्वमेतत् स्वप्नाश्चर्यप्रदर्शयितु स्सर्वेश्वरस्य महिम्ना उपपद्यते। संग्रहकारिकाः। कर्तारस्स्युः प्रा णिनस्स्वाप्नसृष्टेर्जीवात्मानस्तत्र कर्तासहीति। प्राजापत्यात्सत्यसंकल्पतैषां वाक्यत्सिद्धेत्यत्र नायुक्ततास्ति। व्यक्तदानीं नयत्वा यदनभिमतसन्दृष्टिकोदर्कदानां" स्वप्नेर्थानांच सृष्टिस्तदिह न घटते कर्तृता प्राणभाजाम्। तस्मादीशोत्र कर्ता श्रुतिषुच पठितस्सोयमाकालिकार्थात् एतानाश्चर्यभूतान् सृजति बहिरितस्वप्नदृड्मात्रदृश्यान्॥ इति संध्याधिकरणम्॥1॥