अन्याधिष्ठिते पूर्ववदभिलापात्॥24॥ अशुद्धमितिचेन्न शब्दात्॥25॥ रेतस्सिग्योगोऽथ॥26॥ योनेश्शरीरं॥27॥ आकाशादिमेघांतेष्विव तदन्नतरपठितेषु व्रीह्यादिष्वपि संश्लेषमात्रमिति समर्थनात् संगतिः। व्रीह्यादिभावः किमवरोहतां व्रीह्यादिशरीरतापत्तिः" उत तत्संश्लेषमात्र मिति जायन्त इति श्रवणात् व्रीह्यादिभावनिमित्तकर्मानु- पन्यासाच्च संशये जननश्रवणात् व्रीह्यादिभाव इति पूर्वपक्षः। ‘न तु मेघोभूत्वाप्रवर्षती’ति वृष्टिकर्तृत्वश्रवणेपि यथान मेघभावः" तथाजायन्त इति श्रवणेपि न व्रीह्यादिभाव इति किं नस्यादिति चेत् उच्यते- प्रवर्षतीत्येतदाचा- रार्थक्विबंतं योजयितुं शक्यं। अस्ति च वृष्टिसंश्लेष्टजीवे वर्षशब्दप्रयोगः। ‘तस्या आहुतेर्वर्षं संभवती’ति। जायन्त इति तु व्रीह्याद्यात्मनाजनन मेवाभिधत्त इत्यस्ति वैषम्यं। न च स्वर्गादवरोहतां ‘शरीरजैः कर्मदोषैर्याति- स्थावरतां नर इति स्मृतपापफलस्थावरजन्मानुपपत्तिः। न च स्थावरजन्मनिमित्तकर्माश्रवणात् जायन्त इत्येतदन्यथा नेयं। यत्र जन्माभिमतं तत्र तद्धेतुकर्मसंकीर्तननियमस्य रमणीयचरणादिवाक्ययोरवधारणादिति वाच्यं। उक्तनियमस्याप्रयोजकत्वात्। श्रुतजन्मोपपत्त्यर्थ मश्रुततद्धेतुकर्मकल्पनौचित्यात्। स्वर्गे फलदानप्रवृत्तस्य यागादिकर्मणोहिंसारूपपापमिश्रितस्यपापांशरूपशेषानुवृत्त्यास्थावरजन्मोपपत्तेश्च। ‘यावत्संपात’मित्यस्य ‘संपतन्त्यनेनस्वर्गं लोक’ मितिव्युत्पत्त्या यागादिपुण्यांशपरत्वात्। न च वैधहिंसा पापमेव न भवति। ‘आहवनीये जुहोती’ति सामान्यशास्रस्य ‘पदे जुहोती’ति विहितपदहोमातिरिक्तहोमविषयत्ववत् ‘न हिंस्यात्सर्वाभूतानीति सामान्यनिषेधस्य ‘अग्नीषोमीयं पशुमालभेते’ति विशेषविहित वैधहिंसाव्यतिरिक्तहिंसाविषयत्वस्योत्सर्गापवादन्या- यप्राप्तत्वादिति वाच्यं। विषयभेदेनात्र विरोधाभावात्। पशुहिंसाविधिर्हि हिंसायां क्रतूपकारकत्वं बोधयति। ‘न हिंस्यादिति निषेधस्तु प्रत्यवायजनकत्वं। नचैकस्येष्टानिष्टोभयजनकत्वं न संभवति। येनाविरोधाय हिंसानिषेध- शास्रं वैधहिंस्याव्यतिरिक्तविषयमिति व्यवस्था कल्प्यते। दृश्यते हि क्षीरपानस्य पुष्ट्यादिरूपेष्टहेतुत्वं मेहादिरूपानिष्टहेतुत्वं च। अथोच्येत–रागप्राप्त हिंसाविषया निषेधो न वेधहिंसामास्कदति। तत्र विधितः प्रवृत्तेरिति। नैतद्युक्तं। वैधहिंसायामपि रागत एव प्रवृत्तः। न हि विधिसहस्रमपीष्टसाधनताबोधजननद्वारा रागमनुत्पाद्य पुरुषं प्रवर्तयितुमीष्टे। जैमिनिना च तृतीयाध्याये- सौमिकीमहावेदिः केवलप्रधानार्था ‘इयतिशक्ष्यामह’ इति तद्वाक्यशेषे एतावति भूभागे कर्तुं शक्ष्यामहइत्यर्थके तुमुन्प्रत्ययार्थाचिकीर्षासंयोगात्। नत्वंगवधानाथी। अंगानां फलसाधनत्वाभावेनाचिकिर्षितत्वादिति पूर्वपक्षं कृत्वा ‘तद्युक्तेषु फलश्रुतिस्तस्मात्सर्व- चिकीर्षास्या’दिति सूत्रेण सकलांगयुक्ते फलश्रुतेस्सर्वत्रप्रधानेऽङ्गकलापे च चिकीर्षास्तीत्यगानामपि चिकीर्षितत्वाविशेषात् अंगप्रधानार्था महोवोदिरिति सिद्धान्तयताऽङ्गेष्वपि रागत एव प्रवृत्तिः स्थापिता। तस्मात् पापरूपहिंसामिश्रितयागादिकर्मविशेषतस्स्थावरजन्मसंभवतीति एवमेव सांख्यानां मत मिति चेन्मैवं। वैधसंज्ञपनस्य पशुस्वर्गप्राप्ति हेतुतया हिंसात्वाभावस्य शब्दत एव प्रतिपन्नत्वात्। श्रूयते हि- ‘पशुं प्रकृत्य हिरण्यशरीरऊर्ध्वं स्वर्ग लोकमती’ति, मंत्रवर्णश्च ‘न वा उएतान्म्रियसे नरिष्यमि देवानिदेषि पथिभिस्शुगेभिः। यत्र यं तिसुकृतोनापि दुष्कृतः तत्रत्वादेवस्सवितादधात्वि’ति। नारष्यसि- न हिंस्यइत्यर्थः। चिकित्सकं च तादात्विकव्रणदाहच्छेदाद्यल्पदुःखकारिणमपि रक्षकमेव वदन्ति। एवं ‘स्वधिते मैनं हिंसी’रिति यूपच्छेतनस्य तद्धिसात्वाभावश्रवणं ‘घ्नन्ति वा एतं पशुं यत्संज्ञपयन्ती’त्येतदपि वैधपशुसंज्ञपनं हिंसात्वारोपेण दोषतामापादयत् तस्य वस्तुतो हिंसात्वाभावमवगमयति। अन्यथा प्राणवियोजनार्थव्यापारवाचिसंज्ञपनशब्दपर्यायत्वे ‘यत्संज्ञपयन्ती’त्यनेनैव दोषोद्धाटनस्य सिद्धात्वात् घ्नतिवेत्यनेन दोषरूपं न वक्तव्यं स्यात्। यद्यपि ‘अहिंसन्सर्व- भूतान्यन्यत्र तस्य हिंसारूपत्वं प्रतीयते। गौपमस्मृतौ ‘नदोषोहिंसायामाहव’ इति आहवाभिमुखहननस्य हंतव्यवीरस्वर्गप्रापकस्यापि हिंसारूपत्व मुच्यते। मरणोद्देश्यकमरणानुकूलव्यापारोहिंसेति प्रसिद्धलक्षणानुसारेणापि तस्य हिंसात्वमायाति। न च तत्र उदर्कमहाफलापर्यवसायित्वमपि लक्षणे विशेषणं। गौरवात्। व्रणदाहच्छेदयोः दाहच्छेदरूपत्वेपि व्रणिरक्षकत्ववत् वैधपशुमारणस्य हिंसात्वेपि अग्रिममहाफलप्रापणेन तद्रक्षकत्वोपपत्तेः। तथापि ‘न वा उवेत’दिति मन्त्रार्थवाददृष्ट्या यज्ञार्थस्य परप्राणवियोजनस्याहिंसात्मपि प्रतीयत इत्येतावदवलंब्य प्रौढ्यर्थं परिहारो भाष्ये दर्शितः। वस्तुतस्तु नहिंस्यादिति वाक्ये पुरुषार्थैव हिंसा धातुना अनूद्यते। न क्रत्वर्थापि।कर्तृत्वरूपपुरुषशेषत्वप्रतीतेः। ततश्च धातुनाऽनूदितायाः पुरुषार्थहिंसाया एव निषेध इति क्रत्वर्थसंज्ञपनस्य हिंसात्वेऽपि न निषेधस्पर्शः। पुरुषस्येव क्रतोस्तस्मिन्वाक्ये अनुपादानात् अहिंसावाक्यस्य अनारभ्याधीतत्वेन क्रतोः प्राकरणिकविपरिवृत्त्यभावाच्चेति भाष्यकाराशयस्थो मुख्यपरिहारोऽनुसंधेयः। तस्माद्यागस्य पापमिश्रयत्वाभावात् श्वसूकरादिजन्मनीव पापान्तरसङ्गीर्तनाभावच्च न पापफलतया इष्टादिकारिणां व्रीह्यादिशरीरकं जन्मेत्येतदुपपद्यते। किं तु तेषामाकाशादिश्विव व्रीह्यादिष्वपि संश्लेषमात्रम्। कथं तर्हि जायन्त इत्युक्तिः? ‘योयोग्यन्नमत्ति योरेतस्सिञ्चति तद्भूयएव भवती’ति पितृभावोक्तिवदिति ब्रूमः। न हि पूर्वसिद्धपितृभावेन जननं कथमपि संभवति। अतस्तत्र अद्यमानान्नद्वारा पित्रनुप्रवेशेन तत्संश्लेषमात्रं पितृभावरूपतया व्यपदिश्यत इति वक्तव्यम्। इयमेव व्रीह्यादिभावोक्तिरपीति युक्तं। अतो योनिप्राप्त्यनन्तरमेव ब्राह्यणादिशरीरप्राप्तिः। ततः प्रागाकाशादिपित्रन्तेषु संश्लेषमात्रमिति सिद्धम्॥ संग्रहकारिका॥ वृष्टेः पश्चादनुशयवतां व्रीहिमाषादिभावः" तत्तद्रूपैर्भवतु जननं कर्मणोकीर्तनेऽपि। हिंसायोगात्क्रतुपरिषदां पापमिश्रत्वभाजां" पापांशैस्स्यात् स्वरनुभवतोऽनन्तरं स्थावरत्वम्॥1॥ नात्रोत्सर्गापवदननयचश्शास्रयुग्मानुसारा- दिष्टानिष्टोभयविधफलं युज्यते सा हि हिंसा। क्षीरं पीतं हरति कुरुते मेहमित्यादिरूपा दायुर्वेदप्रथितवचनात्तस्य किन्नो तथात्वम्॥2॥ वैधीरागाधीनहिंसानिषेधस्वीकारेऽपि स्यान्निषिद्धेव हिंसा। तत्तत्साध्येष्वन्तरेणैव रागं कोवा कर्म क्लेशसाध्यं विदध्यात्॥3॥ मैवं हिंसैव नैषा भवुति मखपशोस्स्वर्गतिप्रापकत्वात् क्षुद्रं दुःखं प्रभूतं फलमपि च यतो रक्षणं तन्नहिंसा। द्दष्टं ह्येतद्व्रणादेरुपशमनविधौ मंत्रवर्णाच्च लब्धं" तस्माव्द्योमानिलादिष्विव सुकृतकृतान्तेषु संश्लेषमात्रम्॥4॥ इति अन्याधिष्ठिताधिकरणम्॥6॥ इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजिद्याजिश्रीरङ्ग- राजाध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ चतुर्मतसारे नयमयूखमालिकाख्ये - द्वितीयपरिच्छेदे तृतीयस्याध्यायस्य प्रथमः पादः॥