नातिचिरेण विशेषात्॥23॥ अवरोहन्तः किमाकाशादिषु नातिचिरं तिष्ठति उतानियम इति संशये नियमहेत्वाभावादनियम इति पूर्वः पक्षः। ननु ‘अतो वै खलु दुर्निष्प्रपतरमि’ति व्रीहियवादिषु अतिचिरमवस्थानमुक्तम्। दुनिंष्प्रपतरमिति छान्दसस्तशब्दलोपः। दुर्निष्प्रपतरं कृच्छ्रनिष्क्रमतरमित्यर्थ। एवं व्रीह्यादिषु विशेषोक्तेराकाशादिषु मेघांतेषु नातिचिरमवस्थानमिति गम्यत इति चेत्, मैवं। व्रीह्यादिषु चिरावस्थाननियमप्रतिपादनसामर्थ्यादाकाशादिभ्यः" चिरावस्थाननियम एव हि व्यावर्तते नत्वनियतचिरावस्थानमपि। ‘यथा वैखानसं पूर्वेऽहन्साम भवति षोडश्युत्तर’ इति विशिष्यांगिरसां" द्विरात्रस्योत्तरेऽहनि षोडशिग्रहनियमविधानसामर्थ्यात् ‘उत्तरऽहन्द्विरात्रस्य गृह्यत’ इति सद्विरात्राणामुत्तरेऽहनि नियमविधायकेन सामान्यवचनेन प्राप्तः षोडशिग्रहनियम एव द्विरात्रांतरेभ्यो व्यावर्तते। न तु प्रकृत्यतिरात्रानियतप्राप्तः षोडशिग्रहोऽपि। तस्मादाकाशादिषु चिरमचिरं वावस्थानमित्यनियम इति। एवं प्राप्ते सिद्धान्तः– दुर्निष्प्रपतरमित्यातिशायिनिकस्य तरप्रत्ययस्यास्ति तावत् प्रतियोग्याकांक्षा। तत्र च वाक्ये प्रतियोगी नोपात्तः। स्ववाक्ये प्रतियोग्यनुपादाने च बुद्धिस्थः प्रतियोगी भवति। बौद्धप्रतियोग्यपेक्षायामप्यातिशायिका इति वामनोक्तः। एवञ्चाकाशादयः प्रागनुक्रान्ताबुद्धिसन्निधानात् तत्प्रतियोगिनोभवति। तथा च व्रीह्यादिभ्यो दुर्निष्प्रपतरत्वोक्तिसामर्थ्यादाकाशादिभ्योऽपि दुर्निष्प्रपतत्वमात्रमस्तीति तेष्वपि चिरावस्थानमवगम्यते। अतो नातिचिरं तिष्ठंतीति विशेषितम्॥ संग्रहकारिकाः॥ स्थितिरनियतकाला व्यामोमुख्येषु तेषां" न हि चिरमचिरं वेत्यामनामो विशेषम्। अचिरमिति विशेषो गम्यते व्रीहितादे रतिचिरमनुवृत्ते रग्रतो वर्णनेन॥ इति नातिचिराधिकरणम्॥5॥