04 तत्स्वाभाव्यापत्त्यधिकरणम्

तत्स्वाभाव्यपत्तिरुपपत्तेः॥22॥ इतः परमापादपरिसमाप्तेरवरोहप्रकारविषया चिन्ता। ‘इष्टादिकारिणः चन्द्रलोकानुभाव्यभोगान् भुक्तवा सानुशयास्ततोऽवरोहन्ती’त्युक्तं। अवरोहप्रकारस्त्वित्थमाम्नायते- ‘तस्मिन् यावत्सम्पातमुषित्वा अथैतमेवाध्वानं पुनर्निवर्तन्ते यथैतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमोभवति धूमोभूत्वाऽभ्रं भवति अभ्रंभूत्वा मेघोभवति मेघोभूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते, यो योह्यन्नमत्ति यो रेतस्सिंचति तद्भूय एव भवती’ति। अत्र अवरोहतामाकाशादिभावश्श्रुतः। नत्वाकाशादिप्राप्तिमात्रम्। ‘आकाशाद्वायु’मित्यत्र द्वितीयया वायुप्राप्तिमात्रं श्रुतिमिति प्रतीतावपि ‘वायुर्भूत्वे’ति परमर्शेन वायुभावापत्त्यवगमात्। तथैवाकाशवाक्येऽपि अर्थग्रहणौचित्यात्। सा किमाकाशादिभावापत्तिः देवमनुष्यादिभावापत्तिवत् तच्छरीरकत्वापत्तिः, उत तत्तत्सादृ- श्यापत्तिरिति ‘वायुर्भूत्वेत्यादिसामानाधिकरण्यस्य मुख्यत्वापवादकाभावसद्भावाभ्यां संशये पूर्वपक्षः- श्रद्धावस्थस्य सोमराजभाववत् आकाशादिभाव एव विवक्षितः। न च अवरोहतां मार्गे सुखदुःखानुभावभावात् नाकाशादिभावो- पपत्तिरिति वाच्यं। तदभावासिद्धेः। न हि वृक्षाग्रात्पतंत इव स्वर्गादवरोहन्तः संमुर्छितकरणग्रामाः पतंति। स्वर्गेकर्मफलं भुक्त्वा अवरोहतां मार्गेपि कर्मफलभोगोपपत्तेः सः विज्ञानोभवति स विज्ञानमेवान्ववक्रामती’ति श्रुत्यन्तरं गतागतयोः ज्ञानवत्त्वप्रतिपादनेन मूर्छितत्वकल्पनानुपपत्तेश्चेति। एवं प्राप्ते सिद्धान्तः– अवरोहतां आकाशादिशरीरकत्वं आकाशादिदेवताभावेन वा स्यात् ततः पृथग्भावेन वा। नाद्यः। सर्गाद्यकालमारम्भ आप्रळयमाकशाद्यभिमानिदेवताः" क्लृप्तास्संतीति ततोऽन्येषां तथा भावानुपपत्तेः। न द्वितीयः। अभिमानिदेवताः प्रति भोगाश्रयाणामन्यान् प्रति भोगाश्रयत्वायोगात्। युगपदनेकभोक्तृसमावेशे तेषां परस्परविरुद्ध- भोगार्थितायां शरीरोन्यमथनप्रसङ्गात्। तस्मादाकाशातिसादृश्यापत्तिरेव आकाशादिभावापत्तिर्वाच्या। स्वर्गार्थ- कर्मक्षयानन्तरममृतमयदेहे विलीने सूक्ष्मदेहमात्रेण अवरोहतामाकाशादिभ्यः पृथगभिधानानर्हत्वं तत्सादृश्यम्। अतस्तेषां वासनामूलस्वाप्नज्ञासदृशानभिव्यक्तज्ञानवत्त्वेऽपि पितृविर्यं प्रविष्टानामिव भोगरहितानां संश्लेषमात्रमिति स्थितम्॥ संग्रहकारिका॥ प्रथमचारमाहुत्योर्देवत्वमानुषतादिवत् गगनपवनादित्वं तत्तच्छरीरकतोति चेत्। अनुचितमिदं मध्ये भोगो हि नास्त्यवरोहतां" तदपृथगभिव्याहारर्हस्थितिस्तदितीप्यताम्॥ इति तत्स्वाभाव्यपत्त्यधिकरणम्॥4॥