03 अनिष्टादिकार्यधिकरणम्

अनिष्टादिकारिणामपि च श्रुतम्॥12॥ संयमनेत्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात्॥13॥ स्मरन्ति च॥14॥ अपि सप्त॥15॥ तत्रापि च तद्व्यापारदविरोधः॥16॥ विद्याकर्मणोरिति तु प्रकृतत्वात्॥17॥ न तृतीये तथोपलब्धेः॥18॥ स्मर्यतेऽपि च लोके॥19॥ दर्शनाच्च॥20॥ तृतीयशब्दावरोधस्संशोकजस्य॥21॥ ‘यावत्, यत्किञ्चे’त्युक्तवत् ‘चन्द्रमसमेवे’त्यत्र सर्वश्रुतिर्नसंकोचनीयेति प्रत्यवस्थानात्त्संगतिः। किमनिष्टादिकारिणो विहितमकुर्वाणाः" निषिद्धं कुर्वाणाश्च यमयातनामनुभूय पश्चाच्चंद्रमसं गत्वा निवर्तते, उत चन्द्रमसं नगच्छंतीति संशये पूर्वपक्षः— तेऽपि चन्द्रमसंगच्छन्ति। ‘ये वै केचास्मालोकात्प्रयंति चन्द्रमसमेव ते सर्वे गच्छन्ती’त्यविशेषेण श्रवणात्। अन्यथा प्रथमाहुत्यभावे योषिदग्न्याहुतेः पंचमत्वाभावेन तेषां पंचमाहुत्यपेक्षदेहारंभाभावप्रसंगात्। एवं तर्हि सुकृतदुष्कृतकारिणोरविशिष्टैव गतिस्स्यादितिचेत् न। अनिष्टादिकारिणां यमयातनानुभवेन विशेषात् ‘अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ‘सर्वे चैते वशं यांति यमस्य भगवन्किले’ त्यादिश्रुतिस्मृतिदर्शनात् पापकर्मणां यातनानुभवार्थं पाताळानामधोभागे रौरवादिसप्तमहानरकस्मरणाच्च। ननु रौरवादीन् गच्छतां पापकर्मणां कथं ‘वैवस्वतं संगमनं जनानां यमं राजानं हविषादुवस्यते’ति श्रुता यमसदनप्राप्तिः, कथं च लोकांतरेषु नरकानुभवस्य ‘पुनः पुनर्वशमापद्यते’ इति श्रुतं यमाधीनत्वमिति चेत् नायं विरोधः। पापकर्मणो यमसदनं गत्वा तन्नियोगादेव नरकान् प्राप्य यातनामनुभवंतीति कल्पनात्। तस्माद्यातनानुभवानंतरं चंद्रमसं गच्छंतीति तेषामपि चंद्रलोकप्राप्यता कियदपि सुखं संभवतीति। एवं प्राप्ते सिद्धान्तः- न पापिनश्चंद्रमसं गच्छंति। विद्याकर्मविधुरत्वात्। यथाहि तेषां विद्याविद्युरत्वात् ‘तद्य इत्थं विदुर्येचेमेऽरण्ये श्रद्धां" तप इत्युपासते तेऽर्चिषमभिसम्भवन्ती’ति विद्यावतः प्रकृत्याम्नाता देवयानगतिर्नसम्भवति, एवं ‘अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ती’त्यादिनेष्टादिकारिणः प्रकृत्याम्नातापितृयाणगतिरपि न संभवतीति न तेषां चन्द्रप्राप्तिरुपपद्यते। मार्गद्वयपरिभ्रष्टानां" तृतीयस्थानिनांतु न पंचमाहुत्यपेक्षाऽस्ति। पञ्चाग्निविद्यप्रकरण एव ‘वेत्थ यथा केनासो लोको न संपूर्यत’इति प्रश्र्नप्रतिवचने ‘अथैतयोः पन्थार्नकतरेण च तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्य म्रियस्वेत्येतत् तृतीयं स्थानं तेनासौलोको न संपूर्यते तस्माज्जुगुप्सेते’ति श्रवणात्। ये मार्गद्वयपरिभ्रष्टा स्तेऽत्रैव क्रिमिकीटादिरूपेण पुनः पुनर्जननमरणवन्तो भवन्ति। अतस्तृतीयस्थानिनां तेषामत्रैव परिवर्तनेन परलोकप्राप्त्यभावात् परलोको न संपूर्यत इत्यर्थः। ‘जायस्य म्रियस्वे’ति क्रियासमभिहारे लोट्। मध्यमपुरुषश्च। ‘समुच्चयेऽन्यतरस्या’ मिति जननमरणरूपानेकक्रियासमुच्चयस्यापि विवक्षणान्नद्विर्भावः। तत्र वार्तिकानुशिष्टद्विर्भावानुवृत्त्यनिष्टेः। न च पुण्यकर्मणामपि सर्वेषां पञ्चमाहुत्यपेक्षानियमः। द्रौपदीधृष्टद्युम्नादीनां तदभावात्। श्रुतावपि केषांचित् प्राणिनां पञ्चमाहुत्यनपेक्षा दृश्यते। तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवंत्याडजं जीवजमुद्भिज्जमिति। अत्र उद्भिज्जस्य स्थावरस्य गुल्मलतादेर्नपंचमाहुत्यपेक्षाऽस्ति। ननु त्रीण्येवेत्यवधारणं कथम्, स्वेदजस्यापि युकालिक्षादेस्सत्वादिति चेत् सत्यम्। ऊष्मप्रभवत्वायोनिजत्वा विशेषेण तेषामप्युद्भिज्जशब्देन संग्रहः कल्प्यः। अन्यथाऽवधारणप्रामाण्यानुपपत्तेः। तस्मात् पापकर्मणां न चन्द्रप्राप्तिरिति स्थितम्॥ संग्रहकारिका॥ येवै केचेति शब्दाद्वपुरधिगतये पञ्चमाहुत्यपेक्षा- सत्त्वादिष्टादिहीनोऽप्ययति हिमकरं यातनावाप्तिपूर्वम्। मैवं संपूर्त्यभावश्रवणनियमतस्संकुचेत्सर्वशब्दः" पाञ्चालीस्वेदजादिव्यभिचरणहता पञ्चमाहुत्यपेक्षा॥ इति अनिष्टादिकार्यधिकरणम्॥3॥