कृतात्ययेऽनुशयवान् दृष्टमृतिभ्यां यथेतमनेवं च ॥8॥ चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजनिः॥9॥ आनर्थक्यमिति चेन्न तदपेक्षत्वात्॥10॥ सुकृतदुष्कृत एवेतितु बादरिः॥11॥ अनात्मविदां परलोके भृत्यत्वादिप्रयुक्तदुःखवत् तल्लोकभोगस्य क्षयिप्णुत्वप्रयुक्तमपि दुःखमस्तीत्युच्यत इति तेषां देहसम्बन्धवत् तद्धेतुकर्मसंबंधोऽप्यवर्जनीय इति चोच्यत इति सङ्गतिः। इष्टादिकारिणां परलोके कर्मफलं भुक्तवतां कर्मफलावसाने पुनरावृत्तिराम्नाता- ‘यावत्संपातमुषित्वाषऽथैतमेवाध्वानं पुननिवर्तत’ इति। ते सानुशयानिवर्तते उत निरनुशया इति ‘यावत्सम्पातमुषित्वे’ति श्रवणात्, ‘रमणीयचरणा’ इत्यादिश्रवणाच्च, संशये पूर्वपक्षः— अनुशयोह्युपभक्तशिष्टं कर्म। तन्नसंभवति। ‘यावत्सम्पातमुषित्वे’ति कृत्स्नकर्मफलोपभोगवचनात्। ‘संपतन्त्यनेन स्वर्गं लोक’ मितिहि संपातः कर्मोच्यते। ‘प्राप्यांतं कर्मणस्तस्य यत्किंचेहल करोत्ययं। तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मण इति श्रुत्यन्तरे निरवशेषभुक्तकर्मणः पुनरावृत्तिराम्नायत इति ततोऽपि निरनुषयत्वमवसीयते। न च कर्मविशेषाभावे पुनरावृतस्य कर्मानधीनब्राह्मणक्षत्रियादिजन्मानुपपत्तिः। चरणविशे- षेभ्यस्तदुपपत्तेः। ‘तद्य इह रमणीयचरणाः अभ्याशोहयत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा अभ्यइहकपूयचरणाः अभ्याशोह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चंडालयोनिं" वे’ति श्रवणात्। न च तत्र चरणशब्दः पुण्यपापरूपकर्मपरः। चरणशब्दस्य लौकिकैराचारशीलवृत्तपर्यायेषु संध्योपासनादिष्वेव व्यवह्रियमाणत्वात्। वेदेऽपि ‘यान्यनवद्यानि कर्माणि तानि सेवितव्यानि, यान्यस्माकं सुचरितानि तानि त्वयोपास्यानी’ति यागादिकर्मणामाचाराणां च भेदेन निर्दिशाच्च। परलोकभोग्यं" ‘यागादिकर्मफलं, इह ब्राह्मणादिजन्माचारफल’मिति व्यवस्थित्यनंगीकारे संध्योपासनाद्याचाराणां वैयर्थ्यप्रसंगाच्चति। सानुशया एवावरोहंति ‘तद्यइहरमणीयचरणा’ इत्यादिश्रुत्या ‘वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततश्शेषेण विशिष्टदेशजातिकुलरूपायुश्रुतवृत्तवित्तसुखमेधसो जन्म प्रतिपद्यते विष्वंचोविपरीतानश्यंती’त्यादिस्मृत्याच तथावगमात्। ‘यावत्संपात’मिति ‘यत्किचे’ तिचफलदानप्रवृत्तकर्मविशेषविषयं। अनादिजन्मप्रवाहसंचितानामभुक्तफलानामकृतप्रायश्चित्तानां च कर्मकोटीनां किचित्कर्मफलानुभवमात्रेण क्षयासंभवात्। एवं च चरणश्रुतिरपि कर्मोपलक्षणार्था, कर्मणामेवाभिधायिका वा। ‘पुण्यं कर्माचरति पापमाचरती’ति व्यवहारात्। पृथङ्निर्देशस्य च प्रत्यक्षश्रुतिसिद्धं" कर्म आचारानुमितश्रुतिसिद्ध- आचार इति द्विविधकर्मविषयत्वेन तदुपपत्तेः। न च ब्राह्मणजन्मादीनामपि कर्मफलतायामाचारवैयर्थ्यम्। आचारस्य कर्माधिकारहेतुत्वेनाचारसहितानामेव कर्मणा फलवत्त्वात् ‘संध्याहीनोऽशुचिर्नित्यमनर्हस्सर्वकर्मसु। यदन्यत्कुरुते कर्म न तस्य फलभाग्भवे’दित्यादिस्मरणात्, तस्मात् सानुशयाएवावरोहन्ति। अतो बहुजन्म- परम्परानुभाव्यकर्मकोटीनामात्मज्ञामन्तरेण अनुभवमात्रेण कदाऽपि न क्षयः। अवरोहन्तश्च आरोहणप्रकारेण प्रकारान्तरेणचावरोहन्ति। आरोहणंहि धूमरात्र्यपरपक्षदक्षिणायनपितृलोकाकाशचंद्रक्रमेण, अवरोहणं तु चन्द्रस्थानादाकाशवायुधूमाभ्रमेधक्रमेणेति॥ संग्रहकारिका॥ यावत्सम्पातशब्दात्र्त्रिदिवमुपगतः कर्म भुक्तवा समस्तं" संध्योपास्त्यादिरूपाद्भजति चरणतो विप्रजन्मादि भूयः। मैवं कर्माधिकारः खलु चरणफलं कर्मणैवान्यदाप्यं" तस्मादिष्टान्यकर्मा व्रजति फलमुखं कर्म भुक्तवा धरित्रीं॥ इति कृतात्ययाधिकरणम्॥2॥