01 तदन्तरप्रतिपत्त्यधिकरणम्

तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्र्ननिरूपणाभ्याम्॥1॥ त्रयात्मकत्वात्तु श्रूयस्त्वात्॥2॥ प्राणगतेश्च॥3॥ अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात्॥4॥ प्रथमेऽश्रवणादिति चेन्न ताएव ह्युपपत्तेः॥5॥ अश्रुतत्वादितिचेन्नेष्टादिकारिणां प्रतीतेः॥6॥ श्राक्तं वाऽनात्मवित्वात्तथाहि दर्शयति॥7॥ सर्वेषां वेदान्तानां सर्वविधारिधनिराकरणेन ब्रह्मणि समन्वयोऽध्यायद्वयेन प्रतिपादितः। तृतीयाध्याये तत्प्राप्तिसाधनमुपासनं" सोपायं चित्यते। तत्रोपासनाप्राप्यवस्तुव्यतिरिक्ताद्वैराग्यं तावदुपासनारम्भेऽभ्यर्हित उपायः। तत्सिध्यर्थमिह परत्र च सञ्चरतो जीवस्य दोषाः प्रदर्श्यन्ते। तत्र देहाद्देहान्तरं गच्छन् जीवो देहान्तरारम्भहेतु- भिर्भूतसूक्ष्मैः वेष्टितो गच्छति, उत तदवेष्टित इति पञ्चाग्निविद्यागतप्रश्र्नप्रतिवचनयोर्भूतसूक्ष्मवेष्टनगमकत्व- सम्भवासम्भावाभ्यां संशयः। तत्र पूर्वपक्षः– अवेष्टितो गच्छति। यत्र जीवो गच्छति, तत्र देहान्तरारम्भोऽस्ति चेदैहिकदेहारम्भकैकदेशानां भूतसूक्ष्माणां देहान्तरारम्भापर्याप्राप्तत्वेन तदारम्भाय अवश्यं भूतान्तरमेळेनापेक्षा- वश्यभावेनतैरेव पापात्रिकगदेहोत्पत्तिसम्भवात्, भोग्यजातवत्, परलोके एव देहान्तरारम्भपर्याप्तभूतानामपि लोभोपपत्तेः अणोर्जीवस्य स्वतागमनसम्भवेन तदर्थमपि भूतवेष्टनानपेक्षणात्। न च पंचाग्निविद्यगतप्रश्र्नप्रतिवच- नाभ्यां तद्वेष्टनसिद्धिः। तयोस्तदस्पर्शित्वात्। तथा हि- श्वेतकेतुमारुणेयं पांचालराजः प्रवाहणः ‘वेत्थयथा पंचम्यामाहुतावापः पुरुषवचसो भवंती’ ति पृष्ट्वा तस्मिन्निमं प्रश्र्नं प्रतिवक्तुमजानति तस्य पितरिचाजानति तत्पित्रा समगत्य पृष्टः प्रवाहणः स्वयमेव प्रश्र्नविषयान् निरूपयन् कास्ताः पंचाहुतयः यासामुत्तमायामाहुतावापः पुरुषशब्दाभिलपनीयतां भजंत इत्याकांक्षायां ‘असौ वाव लोको गौतमाग्नि’ रित्यादिना द्युपर्जन्यपृथिवी पुरुषयोषितः पंचाग्नित्वेन रूपयित्वा तेषु श्रद्धासोमवृष्ट्यन्नरेतोद्रव्यकाः पंचाहुतीरुपदिश्य तदनंतरं ‘इति तु पंचम्यामाहुतावापः" पुरुषवचसो भवंती’ ति स्वपृष्टार्थनिरूपणं कृतवान्। नात्र प्रश्र्ने प्रतिवचने वा भूतानां श्रवणमस्ति। दूरे तत्संपरतिष्वक्तस्य जीवस्य। भूतेषु अपां श्रवणमस्ति। न तु तासां द्युपोकपर्यंतं गमनस्य, ततो योषित्यपर्यन्तं प्रत्यागमनस्य वा श्रवणमस्ति। तस्मात् भूतसूक्ष्मवोष्टितस्य इह परत्र च संचार इत्यत्र नास्ति प्रमाणमिति। एवंप्राप्ते सिद्धान्तः— भूतसूक्ष्मैर्वेष्टित एव इह परत्र च संचरतीति प्रश्र्नप्रतिवचनाभ्यमवसीयते। प्रश्र्नप्रतिवचनयोरपां पुरुषशब्दाभिलपनीयत्व श्रवणं हि तासां पुरुषाधिष्ठानदेहारम्भकत्वेनैवोपपादनीयम्। देहारम्भश्च न केवलाभिरद्भिर्भवति। देहेस्नेहगन्धादिकार्यदर्शनेन तेजोबन्नस्य सर्गाद्यकाल एव त्रिवृत्कृतत्वेन च देहस्य त्र्यात्मकत्वात्। एवं त्र्यात्मकत्वेऽपि देहस्य लोहितादिभूयस्तया कार्यानुसारेण तदारम्भकभूतेष्वपां भूयस्त्वादप्छब्देनाभिधानम्। अपि च अस्ति जीवस्य गताविंद्रियाणामपि गमनम्। न च तेषां शरीरमनाश्रित्य गमनमवस्थानमात्रं वा संभवति। जीवद्दशायामदंर्शनात्। न च तेषां स्वस्वकार्येषु प्रवृत्यर्थमेव देहाश्रयणं गमनमवस्थानं च स्वोपादानाश्रयाणामेव संभवतीति वाच्यम्। मार्गे चंद्रसंवादादिश्रवणेन तत्र स्वस्वकार्येषु प्रवृत्तेरपि सत्वात्। ननु ‘यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातंप्राणश्चक्षुरादित्य’मित्यादिना मरणकाले प्राणानामग्न्यादिगतिश्रवणान्न तेषां जीवेन साकं गतिरिति चेन्न। तस्य भाक्तत्वात्। ‘ओषधीर्लोमानि वनस्पतीन् केशा’ इत्योषधिवनस्पतीनगच्छद्भिर्लोमादिभिस्सहपाठात्। अतोऽग्न्यादिश्रुतिरधिष्ठातृदेवतापक्रमणपरा। ननु अद्भिर्भूतान्तरसंसृष्टाभिः परिष्वक्तो जीवो गच्छतीति प्रश्र्नप्रतिवचनाभ्यामवगम्यत इत्येतन्नोपपद्यते। द्युलोकाग्निविषये प्रथमेहोमे ‘तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वती’ति श्रद्धाया एव देवशब्दोक्तम्रियमाणेंद्रिय- कर्तृकहोमविषयत्व श्रवणादिति चेन्न। यतस्तत्रापश्श्रद्धाशब्देनोच्यन्ते, तदभिधान एव प्रश्र्नप्रतिवचनयोरुपपत्तेः। श्रद्धाशब्दस्य ‘श्रद्धावा आपः’ इत्यादिश्रुत्यन्तरेष्वप्सु ड़ृष्टप्रयोगत्वेन तल्लक्षकत्वोपपत्तेः। तथाऽपि, भूतपरिष्वक्तो जीवो गच्छतीतिययुक्तम्। ‘श्रद्धां" जुह्वती’त्यादि वाक्येषु जीवस्याश्रुतत्वादिति चेन्न। इष्टादिकारिणां प्रतीतेः। ‘तस्मिन्नेतस्मिन्नग्नौ देवाश्श्रद्धां जुह्वती’त्येतदनन्तरस्या आहुतेस्सोमो राजां संभवतीत्यनेनेष्टापूर्तदत्तकारिणां द्युलोकभोगार्थलब्धदिव्यदेहेष्टादिकारिपरत्वस्य तत्रत्यवाक्यान्तरपर्यालोचनयाऽवगमात्। तत्र हि ‘अथ य अमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवति धुमाद्रात्रि’मित्यादिना ‘पितृलोकादाकाशमाकाशाच्चन्द्रमस’ मित्यन्तेनेष्टादिमार्गेण चन्द्रप्राप्त्युक्त्यनन्तरं ‘एष सोमो राजा तद्देवानामन्नं तं देवा भक्षयंती’ति तेषां सोमराजभावः श्रूयते। तेषु सोमराजशब्दस्त्वमृतमयदेहवत्वसादृश्यात् समनन्तरवाक्यप्रदर्शयिष्यमाणदेवभोग्यत्व- सादृश्याद्वा। ननु तत्र सोमराजशब्दः इष्टादिकारिजीवपरः" ‘तं देवा भक्षयन्ती’ति देवभक्ष्यत्वश्रवणादिति चेन्न। तस्य वचनस्यानात्मविदः केवलेष्टादिकारिणः स्वर्गं प्राप्यापि देवानां निदेशकारिणस्तदुपसर्जनभूता भवन्ति। देवाश्च तत्र तत्र तान्नियुञ्जानाः पीडयन्तीत्येतदभिप्रायतया भाक्तत्वात्। तस्मात् भूतसूक्ष्मैस्संपरिष्वक्त एव जीवो रंहति। तत्संपरिष्वङ्गस्य देहांतरारंभार्थत्वादिंद्रियगमनार्थत्वाच्च। एतद्देहत्यागमात्रेण न कृतार्थता। तेषामिह दृश्यमानदुःखानुभवस्य परत्राजानदेवभूतानां भृत्यत्त्वसातिशयत्वप्रयुक्तदुःखानुभवस्यचापरिहार्यत्वादिति सिद्धम्। संग्रहकारिके॥ सप्राणेन्द्रियभूतसूक्ष्मनिवहैस्सार्वत्रिकैर्भोग्यवत् जीवस्य प्रयतस्स्वतो गतिमतो नापेक्षितं वेष्टनम्। नापि श्रुत्यदितं श्रुता पुरुषता निर्देश्यैर्वेष्टनम् मग्न्याद्यप्ययवर्णनेन च हतं प्राणेद्रियैर्वेष्टनम्॥ प़ञ्चम्यामाहुतौ यत्पुरुषवचनतां वक्त्यपां त्र्यात्मकानां" तेन स्वर्गादिकेष्वप्यधिगमयति ताहोम्यजीवानुष्क्ताः। वागादीनां च भाक्तं श्रुतिरनलमुखेष्वप्ययं लोमनीत्या तस्मादेतैस्समस्तैर्विगणय दृढमामुक्तिजीवस्य बंधम्॥ इति तदन्तरप्रतिपत्त्यधिकरणम्॥1॥