संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात्॥17॥ मांसादिभौमं यथाशब्दमितरयोश्च॥18॥ वैशेष्यात्तु तद्वादस्तद्वादः॥19॥ खादिषु पूर्वपूर्वशरीरकस्य ब्रह्मण उत्तरोत्तरसृष्टिकर्तृत्वप्रतिपादनेन सर्वत्रापि सृष्टौ ब्रह्मणस्साक्षातकर्तृत्वं ‘भेदश्रुते’रिति सूत्रेण दर्शितं। तन्नोपपद्यते-नामरूपव्याकरणे केवलं हिरण्यगर्भस्य कर्तृतायाः श्रुतिस्मृति प्रसिद्धत्वादित्याक्षेपेणोत्थानात् संगतिः। खादिसृष्टाविव नामरूपव्याकरणेऽपि तस्य साक्षात्कर्तृत्वमुपपद्यत इति दृष्टान्तसङ्गतिर्वा। ‘अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणी’ति श्रुतिः, ‘नामरूपञ्च भूतानां कृत्यानांच प्रपंचनम्। वेदशब्देभ्यएवादौ देवादीनां" चकार स’ इच्यादि स्मृतिश्च हिरण्यगर्भस्य नामरूपव्याकर्तृत्वं प्रतिपादयति, उत तच्छरीरकस्य परमात्मन इति संशये पूर्वपक्षः-हिरण्यगर्भस्यैव प्रतिपादयति। ‘जीवेन व्याकरवाणी’ति श्रवणात्। नन्वेवं सति ‘यथा चारेण परसैन्यं कलयानीति नरपतिरमन्यते’ति लौकिकवाक्ये चारकर्तृकं परसैन्यसङ्कलनं राज्ञि गौणं व्यपदिश्यते। एवमिहापि जीवकर्तृकं नामरूपव्याकरणं ब्रह्मणि गौणं व्यपदिष्टमिति स्यात्, नैष दोषः। राजचारयोरिव जीवेश्वरयोरंशांशिनोस्स्वरूपभेदाभावेनात्रापि ‘जीवेनात्मने’ति जीवस्येश्वरकर्तृत्वस्वात्मत्वपरामर्शेन च जीवकर्तृकस्य सङ्कलनस्य मुख्यतयैवेश्वरकर्तृत्वस्वात्मत्वपरामर्शेन च जीवकर्तृकस्य सङ्कलनस्य मुख्यतयैवेश्वरकर्तृकत्वोपपत्तेः। नच सहयोगलक्षणेयं" तृतीयास्तु, तथाच ईश्वरस्यापि तत्र कर्तृत्वं घटत इति वाच्यम्। उपपदविभक्तितः कारकविभक्तेः पदान्तरयोगनिरपेक्षत्वेन बलीयस्त्वात्। न च करणार्थतया कारकविभक्तित्वनिर्वाहः। ईश्वरकर्तृके व्याकरणे जीवस्य साधकतमत्वाभावात्। किं च करणार्थत्वेऽपि व्याकरणं जीवकर्तृकमेव पर्यवस्यति। नेश्वरकर्तृकम्। चेतन कर्तारं प्रति चेनांतरस्य करणतयोपकारकत्वं हि तत्प्रयोज्यकर्तृतयैव भवति। अस्मिन्पक्षे राज्ञश्चारकर्तृके सङ्कलन इव ईश्वरस्य जीवकर्तृके व्याकरणे कर्तृत्वममुख्यं विवक्षितमिति नेतव्यम्। एवं करणार्थत्वकल्पने सति तृतीयानुपपत्तिशङ्काऽपि निरस्ता भवति। कर्त्रर्थत्वे हि तच्छङ्का स्यात्। व्याकरणकर्तुः तिङाऽभिहितत्वात्। न च जीवस्य कर्तृत्वं प्रवेशमात्रे पर्यवस्यति। व्याकरणंत्वीश्वरस्यैवेतिकल्पनेन कर्तरि तृतीयानिर्वाहः। ‘समानकर्तृकयोः पूर्वकाल’इति क्त्वाप्रत्ययस्य कर्त्रैक्यार्थत्वस्मरणेन भिन्नकर्तृकयोस्तदसम्भवात्। तस्यापि कर्त्रर्थत्वस्मरणेन तदभिहितेऽपि कर्तरि तृतीयानुपपत्तेश्च। अतस्संकलनस्य चार इव व्याकरणस्य जीव एव मुख्यकर्ता। तथा सत्येव ‘नामरूपं च भूताना’मिति स्मृतिरपि संगच्छते। न हि हिरण्यगर्भजीवांतर्यामी परमेश्वरो देवादिनामरूपसृष्टये पूर्वसर्गवृत्ततन्नामरूपस्मृत्यर्थंवेदशब्दानपक्षत इति। एवंप्राप्तेसिद्धांतः" संज्ञामूर्तिकॢप्तिः- देवादीनां नामरूपव्याकरणं त्रिवृत्कुर्वतः परमेश्वरस्यैव सृष्टिः। ‘सेयं देवतैक्षतहंताहमिमास्तिस्रो देवताः" अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि तासां त्रिवृतं त्रिवृतमेकैकां करवाणी’ति त्रिवृत्करणनामरूपव्याकरणयोस्समानकर्तृकत्वश्रवणात्। त्रिवृत्करणं हि परमेश्वरस्यैव कर्म। न तु ‘तस्मिन्नंडेऽभवद्ब्रह्मा सर्वलोकपितामह’ इति अंडांतस्संभूतत्वेन स्मृतस्य हिरण्यगर्भस्य। त्रिवृत्कृतैस्तेजोवन्नैरंडस्योत्पादनीयत्वात्। तस्मात् त्रिवृत्करणकर्तेश्वरः नामरूपव्याकरणस्यापि कर्ता। हिरण्यगर्भस्यापि तत्कर्तृत्वस्मृतिः" घटादेरिव तस्य द्विकर्तृकत्वादुपपद्यते। कथमिदानीं ‘जीवेनात्मने’ति सामानाधिकरण्यं। जीवशब्दस्य जीवशरीरकपरमात्मपरत्वादित्यवेहि। कथमाख्याताभिहिते कर्तरि तत्कर्तृकाख्यातोपात्तक्रियापेक्षया क्त्वाप्रत्ययप्रकृत्युपात्तक्रियायाः पूर्वकालत्वं तयोः क्रिययोः" कर्तुरैक्यं चेत्येतावन्मात्रमेव हि क्त्वार्थः। लाघवात्। नत्वन्यलभ्या कर्तृशक्तिरपि। तथाऽपि प्रधानक्रियान्वयस्याभ्यर्हितत्वात् व्याकरणान्वय एव जीवशरीरकस्य परमात्मनो वक्तव्यस्स्यादिति चेत्- सत्यं। प्रधानक्रियान्वयासंभवे उपसर्जनक्रियान्वयोपि युक्त एव। यथा ‘इष्टकाः कृत्वा भुङ्क्त’ इत्यत्र तत्र इष्टकानां भोजनक्रियाकर्मत्वेन अन्वयानर्हत्वादसंभवः। इह तृतीयांतनिर्दिष्टस्य कर्तुः" कर्त्रर्थकाख्यातान्वयानर्हत्वादित्येव विशेषः। यदि क्त्वाप्रत्ययस्य कर्त्रैक्यपूर्वकालत्वमात्रमर्थमंगीकृत्य कर्तृशक्त्यभिधायकत्वं" प्रत्याख्यायेत तदेह जीवेनेतिवत् ‘इष्टकाः कृत्वाऽहंभोक्ष्य’ इत्यत्रापि मयेति अनभिहिताधिकारविहितया तृतीययैव भाव्यं स्यात्। अतस्तस्य कर्तृशक्त्यभिधायकत्वमंगीकृत्यैव तत्र प्रथमा समर्थनीया। ततश्च अत्रापि क्त्वाप्रत्ययेन कर्तुरभिधानात् जीवेनेति तृतीया न स्यात् प्रथमयैव भाव्यं स्यादिति कर्तृशक्त्यनभिधानमाश्रित्य तृतीयासमर्थनायामनुपपत्तिः, तदा छांदसत्वेनेयं व्याकरणकर्तरि जीवशरीरके परमात्मनि तृतीयोपपादनीया। न तु जीवस्येश्वराभिन्नत्वं व्याकरणस्य जीवकर्तृकत्वंचांगीकृत्य तृतीयेयमुपपादनीया। जीवेश्वरयोर्भेदस्य समर्थितत्वात्। अतस्त्रिवृत्करणसमानकर्तृकं व्याकरणं त्रिवृत्करणकर्तुरीश्वरस्यैव कृतिरिति सिद्धं। यद्यपि हिरण्यगर्भसृष्ट्यनंतरनामरूपव्याकरणानन्तरं" त्रिवॄत्करणं श्रुतौ पठितं, तथापि पाठक्रमादर्थक्रमस्य बलीयस्त्वात् त्रिवृत्करणं प्रागेवेत्यस्यार्थस्य प्रपंचनं भाष्ये द्रष्टव्यं॥ संग्रहकारिके॥ सरसिजसंभव एव व्याकरणनामरूपयोः कर्ता। जीवेनेति श्रवणात् तत्सृज्यप्रकरणे च तत्स्मरणात्॥ मैवं यस्त्रिवृतं चकार कथितः कर्ता स हि व्याकृतौ तद्धाता न तथा त्रिवृत्कृतधराद्युत्पादिताण्डोद्भवः। तेन व्याकरणत्रिवृत्करणयोः कर्ता स एवेश्वरो जीवेनेति तु तच्छरीरकतया तत्रैव शक्तं पदम्॥ इति संज्ञामूर्त्यधिकरणम्॥ इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजि- द्याजिश्रीरङ्गराजाध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ चतुर्मतसारे नयमयूखमालिकाख्ये द्वितीयपरिच्छेदे द्वितीयस्याध्यायस्य च तु र्थः पा दः॥ ॥द्वितीयोऽध्यायस्समाप्तः॥ श्रीमते हयवदनपरब्रह्मणे नमः॥