32 इन्द्रियाधिकरणम्

त इन्द्रियाणि तद्व्यपदेशादन्यत्रश्रेष्टात्॥15॥ भेदश्रुतेर्वैलक्षण्याच्च॥16॥ इन्द्रियाणां प्राणस्य चोत्पत्त्यादिनिरूपणान्तरं किं सर्वे प्राणशब्दनिर्द्रिष्टा इन्द्रियाणि उत मुख्यप्राणव्यतिरिक्ता इति विचार्यते। ननु किमस्य विचारस्य प्रयोजनं। मुख्यप्राणानुगततद्व्यावृत्तलक्षणविचारस्य व्यवहार विशेष एव प्रयोजनमिति चेत् मैवं। न खलु वैशेषिकशास्त्र इव व्यवहारमात्रप्रयोजनो लक्षणविचारोस्त्यस्मिन् शास्त्रे उच्यते। श्रुतिविप्रतिपत्तिनिरासार्थ एवायमपि विचारः। तथाहि - बहुवचनांतः प्राणशब्दः इन्द्रियपर्याय इति निर्विवादं। तस्य मुख्यव्यावृत्तः प्रयोगो दृश्यते-‘प्राणमनूत्क्रामन्तं" सर्वे प्राणा अनूत्क्रामन्ती’ति। तेन श्रेष्ठादन्ये चक्षुरादय एवेंद्रियाणीति प्रतीयते। ‘अथह यएवायं मुख्यः प्राणस्तमुद्गीथमुपासांचक्रिर’इति श्रेष्ठे मुख्यप्राणशब्दप्रयोगात् सोपीन्द्रियांतर्भूत इति प्रतीयते। येन प्रवृत्तिनिमित्तेन चक्षुरादिषु प्राणशब्दप्रवृत्तिः" तेनैव श्रेष्ठे तत्प्रवृत्तौ हि श्रेष्ठःप्राणानां मध्ये मुख्यप्राणो भवति यथा ब्राह्मणानां मध्य एव कश्चिन्मुख्यब्रह्मणो भवति। एवं श्रुतिविप्रतिपत्तौ सत्यां पूर्वपक्षः-प्राणोपीन्द्रियमेव। प्राणशब्दवाच्येषु तस्य मुख्यत्वप्रतिपादनात्। न च ‘एतस्माज्जायत’ इति मंत्रे प्राणस्य पृथगुत्पत्तिवचनान्दिन्द्रियेभ्यो भेदश्शंकनीयः। तथा सति मनसोपि तेभ्यो भेदापत्तेः। प्राणस्यापीन्द्रियत्वे सत्येव प्रायस्सजातीयेष्वेव लोके दृष्टः परस्परोत्कर्षकलहः चक्षुरादीनां प्राणस्य च श्रूयमाणस्संगच्छते। न चांतरंगेणेन्द्रियत्वेन साजात्ये संभवति बहिरंगेण जीवोपकरणत्वेन साजात्यात् स उपपादनीयः। एवं" च ‘इन्द्रियाणि दशैकञ्चे’त्यादिवचनं मुख्यप्राणातिरिक्तेन्द्रियादिविषयं। यथा ‘सप्तप्राणा’इति वचनं शीर्षण्यप्राणमात्रविषयमिति नैकादशसंख्योक्तिविरोधः। तस्मात् ‘स योहैताननंतानुपास्त’ इति विहितमिन्द्रियोपासनं मुख्यप्राणसहितमेव कार्यमिति। सिद्धांतस्तु- श्रेष्ठे मुख्यप्राणशब्दः प्राणशब्दोदितानामिन्द्रियाणां मध्ये मुख्येन्द्रियरूप इत्येवमर्थो न भवति, किन्तु मुखेभवः प्राण इत्येतदर्थकः। बृहदारण्यके समानप्रकरणे ‘अथहेममासन्यंप्राणमूचु’रिति मुख्यशब्दस्थाने आसन्यशब्दप्रयोगात्, तस्यचास्येभव इत्येतदर्थकत्वात्। तत्रह्यास्यशब्दस्य ‘पद्दन्नोमास्’इत्यादिसूत्रेणासन्नादेशः। यदि तु मुख्यः प्राण इत्यस्य प्राणानां मध्येमुख्य इत्यर्थः, तथापि प्राणस्येन्द्रियत्वं" न लभ्यते। अयं प्राणः प्राणशब्दस्य मुख्योभिधेयः, अन्ये प्राणा इन्द्रियाणि तस्य लक्षणीया न मुख्या इत्येवमर्थकत्वोपपत्तेः, ‘त एतस्यैव सर्वे रूपमभवं स्तस्मादेत एतेनाख्यायंत’ इति मुख्यप्राणवाचकेनैव सता चक्षुरादीनां लक्षणीयत्वोक्तेः। सर्वमेतत् ‘अन्यथात्वंशब्दादितिचे’दिति गुणोपसंहारपादाधिकरणे स्पष्टीभविष्यति। तस्मान्मुख्यप्राणव्यतिरिक्ताश्चक्षुरादय एवेन्द्रियाणि। ‘एतस्माज्जायते प्राण’इति मंत्रे पृथङ्निर्देशादपि तथावसीयते। मनस इन्द्रियेभ्यः पृथङ्निर्देशेऽपि ‘मनष्षष्ठानीन्द्रियाणी’ति वचनांतरानुसारेण मनस इन्द्रियत्वमभ्युपेयते। न तथेह प्राणस्येन्द्रियत्वे वचनांतरमस्ति। किंच प्राणस्येन्द्रियाणांच वैलक्षण्यमप्यस्ति। सुषुप्तौ हि चक्षुरादिषु सर्वेषूपरतेष्वपि प्राणस्य वृत्तिरुपलभ्यते। ‘प्राणाग्नय एवैतस्मिन् पुरे जाग्रति भूर्भूरित्येव श्वसिती’ति श्रुत्याप्यनूद्यते। कार्यवैलक्षण्यं" चास्ति- ज्ञानानि कर्माणि च इन्द्रियाणां कार्याणि, प्राणस्य तु देहधारणं। तस्मान्मुख्यप्राणव्यतिरिक्ताश्चक्षुरादयएव इन्द्रियाणि। तेषांचैकादशानामनुगतं लक्षणं सात्विकाहंकारविकारत्वम्॥ संग्रहकारिका॥ प्राणोऽपीन्द्रियमेहः सर्वेषां प्रणशब्दावाच्यत्वात्। मैवं पृथगुपदेशा दन्येषां प्राणता तु लक्षणया॥ इति इन्द्रियाधिकरणम्॥