ज्योतिराद्यधिष्ठानन्तु तदामननात्प्राणवता शब्दात्॥ तस्य च नित्यत्वम्॥14॥ प्राणानामुत्पत्तिमत्तापरिमाणादिविचारानन्तरं अग्न्यादिदेवताधिष्ठितत्वप्रकारविशेषश्चित्यत इति संगतिः। किमग्न्यादिदेवतानां प्राणाधिष्ठातृत्वं" ‘अभिमानिव्यपदेशस्तु विशेषानुगतिभ्या’मिति प्राक्प्रसंगादुक्तं। तत् स्वस्वायत्तं उत ईश्वरायत्तमिति संदेहे पूर्वपक्षः-यद्यपि ‘परात्त तच्छ्रुते’रित्यधिकरणे जीवानां कर्तृत्वमीश्वरायत्तमित्युक्तं, तथापि अग्न्यादित्यादीनामीश्वरदत्तैश्वर्याणां ईश्वरवत् वरदायित्वफलप्रदत्वादिसत्वेन स्वातंत्र्यसत्वात्तत्तदायत्तमेवाधिष्ठातृत्वमस्तु परायत्तताश्रुतेः मनुष्यादिविषयत्वेन संकोचोपपत्तेरिति। सिद्धान्तस्तु- ज्योतिरादीनामग्न्यादित्यादीनां यच्चक्षुराद्यधिष्ठातृत्वं तत्परमेश्वरस्यैव संकल्पात्। कुतः? तस्य सर्वान्तर्यामित्वश्रुतेः। अतो यथा जीवस्य ‘एवमेवैष एतान् प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिचर्तत’ इति स्वातंत्र्यश्रवणेऽपि तस्य इन्द्रियाधिष्ठातृत्वं" परायत्तं, एवमभिमानिदेवतानामपीति युक्तं। ननु परमेश्वरदत्तैश्वर्येम देवतानां मनुष्यादिभ्यो विशेषोस्तीति चेन्न। सर्वेषां संसारिणामीश्वरनियम्यत्वस्य नित्यत्त्वात् ‘स ईशोऽस्य जगतोनित्यएवे’त्यविशेषश्रवणात्। अतः प्राग्देवतापदप्राप्तेः परमेश्वरनियम्यानां तासां तदनन्तरमपि अमात्यानां" राजनियम्यत्ववत् ईश्वरनियम्यत्वमवर्जनीयमे॥ संग्रहकारिके॥ अग्न्यादिदेवतानामाराध्यानां फलप्रदानांच। प्राणाधिष्ठातृत्वं स्वायत्तं भवतु को दोषः॥ मैवं तदीश्वरादीनां तासां प्राणवता सह। नित्यानुबन्धिनीह्येषां सर्वेषां तन्नियम्यता॥ इति ज्योतिराद्यधिष्ठानाधिकरणम्॥