अणुश्च॥12॥ प्राणस्वरूपनिर्धारणान्तरं तत्परिमाणं निरूप्यतइति संगतिः। प्राणोविभुः परिच्छिन्नोवेति श्रुतिविप्रतिपत्तेस्संशये विभुरिति पूर्वःपक्षः। ‘समएभिस्त्रिभिर्लोकैस्समोनेन सर्वेण, प्राणे सर्वं प्रतिष्ठितं, सर्वं हीदं प्राणेनावृत’मिति श्रवणात्। नन्विन्द्रियाणामानन्त्यश्रवणेऽपि उक्रमणादिलिंगेन परिच्छिन्नत्वं प्रसाधितं, तेनैव न्यायेन प्राणस्यापि परिच्छिन्नत्वं सिध्येत्। किमनेनाधिकरणेन। उच्यते- उपास्तिविधानांतर्गतमानन्त्यं, इदंतु नतथेति पूर्वपक्षीमन्यते। यद्वा ‘सर्वंहीदंप्राणेनावृत’मितीत्युपपत्तिसहितं सर्वसाम्यश्रवणमुत्क्रमणादिलिंगात् प्रबलं। अतस्तदौपयिकोत्क्रमणादिरूपं वाच्यमिति पूर्वपक्ष्यभिप्रायः। उपासनाविधिशेषत्वं सर्वसाम्यलिंगेपि तुल्यं ‘एवमेतत्साम्यं वेदे’त्युपासनाविधिसन्निधानात्। ‘प्राणे सर्वं प्रतिष्ठितं सर्वाहीदं प्राणेनावृत’मित्येतदपि सर्वस्य शरीरस्य प्राणे प्रतिष्ठितत्वं प्राणेनावृतत्वं च ब्रूते। न तु सर्वस्य जगतः" प्राणावृतत्वरूपं। प्राणस्य व्यापकत्वं हिशब्दप्रयोगेन प्रसिद्धार्थवादत्वावगमात् शरीरस्येव च प्राणप्रतिष्ठितत्वप्राणावृतत्वयोः" लोकतश्श्रुत्यंतरतश्च प्रसिद्धेरिति सिद्धान्तः॥ संग्रहकारिका॥ समएभिस्त्रिभिर्लोकैरित्याम्नानादयं विभुः। अणुरुत्क्रमणादिभ्यः सर्वसाम्यश्रुतिस्स्तुतिः॥ इति श्रेष्ठाणुत्वाधिकरणम्॥