न वायुक्रिये पृथगुपदेशात्॥8॥ चक्षुरादिवत्तु तत्सहशिष्ठ्यादिभ्यः॥9॥ अकरणत्वाच्च न दोषस्तथा हि दर्शयति॥10॥ पंचवृत्तिर्मनोवद्व्यपदिश्यते॥11॥ किमयं मुख्यप्राणः वायुमात्रं. उत उच्छ्वासनिश्वासरूपा तत्क्रिया, अथवा अवस्थाविशेषापन्नो वायुरिति संशये ‘यः प्राणस्स वायु’रिति श्रवणात् वायुमात्रं उच्छ्वासनिश्वासरूपा तत्क्रियावा। तत्र प्राणशब्दप्रयोगादिति पूर्वःपक्षः। सिद्धान्तस्तु- ‘एतस्माज्जायत’ इति मंत्रे पृथगुपदेशान्नवायुमात्रम्। वायुमात्रे प्राणशब्दाप्रयोगाच्च। अत एव तदीया निश्वासादिक्रियाऽपि न भवति। अग्न्यादिक्रियाया इव वायुक्रियाया अपि ‘एतस्माज्जायत’ इति द्रव्योत्पत्तिमंत्रे पृथगुत्पत्त्युपदेशानर्हत्वात् तस्याभावार्थप्रत्ययान्तप्राणशब्दार्हत्वेऽपि प्राणितीति कर्त्रर्थप्रत्ययान्तस्य प्राणिति अनेन जीवतीति करणार्थप्रत्ययान्तस्य वा तस्यां प्रयोगाभावादिति। ननु यदि वायुरेव किंचिदवस्थान्तरं प्राप्तंः प्राणः, तर्हि किमग्निरिव प्राणोपि वायुत्वं परित्यजेत्, नेत्युच्यते। नायमग्निवद्भूतान्तरं। किन्तु वायुत्वापरित्यागेनैव जीवस्य चक्षुरादिवदुपकरणविशेषः। तैर्विशिष्टत्वात्। प्राणसंवादे हि ‘अथ ह प्राणा अहंश्रेयसे व्यूदिरे अहं" श्रेयानस्मी’ति चक्षुरादिभिस्सहकलहाभिधानेन तत्समानच्छायत्वावसायात्, तदनन्तरं ‘त्वंनश्रेष्ठोऽसीति चक्षुरादिवचनेन प्राणस्य मुख्यत्वनिर्धारणाच्च। समानजातीयानामेव हि सहशिष्टस्तुल्योपकारकत्व संशयेन परस्परोत्कर्षकलहः। कस्यचिदुपकारादिशयदर्शनेन मुख्यत्वनिर्धारणं" च भवति। जीवोपकरणत्वेनप्रसिद्धैस्समानजातीयत्वञ्च प्राणस्यापि तदुपकरणत्वे सत्येव भवति। ननु चक्षुरादिभिरिव प्राणेन जीवस्योपकारविशेषो न दृश्यतइतिचेन्नायं दोषः। श्रुतिरेवाहि शरीरेन्द्रियधारणरूपां क्रियां तदुपकारत्वेन दर्शयति। यथा प्राणसंवादे चक्षुरादीन् प्रति प्राणस्य वचनं ‘मामोहमापद्यथाहमेवैतत्पंचधात्मानं प्रविभज्य एतद्बाणमवष्टभ्य विधारयामी’ति। ननु पंचधा भेदे व्यानादयः किं प्राणात्तत्वांतराणि नेत्युच्यते। ‘कामस्संकल्पोविचिकित्सा श्रद्धाऽश्रद्धाधृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मनएवे’ति वचनात्कामसंकल्पादयो मनस इव प्राणवायोरकस्यैव प्राणापानादयोवृत्तिभेदाः। एतेनेन्द्रियाणां साधारणी वृत्तिः प्राणइति सांख्यपक्षे निरस्तः। तेहि कल्पयन्ति ‘पंजरस्थानं सर्वेषां शुकानां पंजरचालनमिव वा सर्वासां खलकपोतिकानामुपरिपतितवागुरोत्क्षेपणमिववा शरीरस्थानां सर्वेषामिन्द्रियाणां" साधारणवयापारः प्राण’इति। नैतद्युक्तं। इन्द्रियकार्यविषयोपलब्धिव्यतिरेकेणोच्छ्वासनिश्वासक्रियायाः, स्वात्मानं पंचधा विभज्य देहधारणक्रियायाश्च मुख्यप्राणस्वतंत्रकार्यस्यदर्शनात्॥ संग्रहकारिके॥ मुख्यप्राणोप्यक्षवर्गोक्तरीत्या ब्रह्मोत्पन्नोवायुमात्रं तथोक्तेः। देहांतर्वा तत्क्रिया श्वासरूपा मैवं द्रव्यैस्साकमुत्पत्तिवादात्॥ वायोरेवत्ववस्थांतरमयमिति संगच्छते वायुतोक्तिः" पूर्वावस्थानुवृत्तेर्भवति दहनवन्नास्य भूतांतरत्वं। नित्यं संसारभाजामुपकरणमिदं शिष्यते चक्षुराधैः" ख्यातात्यंतोपकारस्तनुकरणमयं धारयन्पञ्चवृत्तिः॥ इति वायुक्रियाधिकरणम्॥