28 प्राणाणुत्वाधिकरणम्

अणवश्च॥6॥ तानीन्द्रियाणि किं विभूनि परिच्छिन्नानिवेति संशये ‘त एते सर्व एव समाः सर्वेऽनन्ता’ इति आनन्त्यश्रवणात् अस्येन्द्रियस्य इदं" परिमाणमिति परिमाणविशेषानुक्तिसहितात् विभुरेवेति प्राप्ते सिद्धान्तः- उत्करान्तिगत्या गतिश्रवणात्, आनन्त्यश्रवणस्य ‘स योहैताननन्तानुपास्ते अनन्तं सलोकं जयति’ इति वाक्यशेषेण उपासनार्थत्वावगमाच्च परिच्छिन्नान्येव। दूरगतवस्तुग्रहणं तु शीघ्रगतिमत्वादिनोपपद्यते॥ संग्रहकारिका॥ ते विभवोऽनंतत्वश्रवणात् मैवं गतागतोत्क्रमणैः। सूक्ष्मास्ते तेषां पुनरुपासनाफलमनन्तताश्रवणम्॥ श्रेष्ठश्च॥7॥ इन्द्रियाणामुत्पत्तिविचारानन्तरं छन्दोगानां प्रामसंवादे इन्द्रियैस्सह विवादेन लब्धश्रैष्ट्यस्य मुख्यप्राणस्य इन्द्रियैस्सह विवादोक्त्यैव तत्समानच्छायतावगमात् इन्द्रियोत्पत्तिविचारानन्तरं मुख्यप्राणोत्पत्तिर्विचार्यत इति संगतिः। यद्यपि ‘एतस्माज्जायते प्राण’ इति मंत्रत एव इन्द्रियाणामिव प्रामस्यापि वियदादिवदुत्पत्तिस्सिध्यति, तथापि प्राणस्य भूतवायोः इन्द्रियवृत्तिभ्यश्चान्यत्वं" श्रुतिविरोधसमाधानेन निर्निनीषुः तस्य प्राकू प्रकृतोत्पत्तिविचारेण प्रासंगिकत्वसंपादनाय किंचिदधिकशंकानिराकरणाय च प्राणस्योत्पत्तिरिह चिंत्यते। अधिकशंकात्वित्थं- सर्गाद्यकाले जीवकार्यमदृष्टावस्थानमिव वागादीन्द्रियकार्यं नामधेयोच्चारणादिकं नास्ति। अतः प्राणर्षि शब्दौ ब्रह्मणि दृष्टप्रयोगौ ब्रह्मपरावित्युक्तं। प्राणस्यतु ‘नासदासीन्नोसदासीत्तदानीं तम आसीत्तमसा गूढमग्रे प्रकेत’ मित्युपक्रान्ते नासदासीये सूक्ते ‘आनीदवातं स्वधयातदेक’मिति अननाख्यासाधारणव्यापारसद्भावश्श्रुतः। न च आनीच्छब्दः क्वचिदपि ब्रह्मणि दृष्टप्रयोमः। न च ‘अबात’मिति विशेषणात् अननाख्यप्राणव्यापारो नभवत्यानीच्छब्दः। किन्तु ब्रह्मसत्तापर इति वाच्यम्। संवर्गविद्यादिषु वायुप्राणयोः" पृथगुपदेशेन वाय्वभावेऽपि प्राणसद्भावोपपत्तेरिति॥ तन्निवृत्तिस्त्वित्थं- वायोस्तत्वांतराभावेन वायुविशेषात्मको भवत्येव प्राणः। तस्मात् ‘अवात’मिति वायुसामान्यनिषेधात् आनीच्छब्दस्य प्राणव्यापारत्वायोगेन ब्रह्मपरत्वमेव वक्तुं युक्तं। तथाच स्वेन ब्रह्मण धीयते उपभुज्यत इति व्युत्पत्त्या स्वधाशब्देन लक्ष्मीरुच्यत इति लक्ष्मीविशिष्टस्य भगवतः" परब्रह्मणस्सर्गाद्यसमये स्थितिरुक्ता भवतीति ‘श्रेष्ठश्चे’ति सूत्रं ‘पौष्णं पेषणं विकृतौ प्रतीयेते’ति पूर्वतंत्रसूत्रवत् उत्तरचिन्तार्थत्वात् उत्तराधिकरणशेषएव। नाधिकरणान्तरमिति केचिदाहुः॥ €इति प्राणाणुत्वाधिकरणम्॥