26 प्राणोत्पत्त्यधिकरणम्

द्वितीयस्याध्यायस्य चतुर्थपादः॥ तथा प्राणाः॥1॥ गौण्यसंभवात्तत्प्राक्छ्रुतेश्च॥2॥ तत्पूर्वकत्वाद्वाचः॥3॥ जीवोत्पत्तितदनुबधिज्ञातृत्वादिनिरूपणानंतरं जीवोपकरणानामिंद्रियामामुत्पत्तिप्रकारो विशोध्यत इति संगतिः। किमिंद्रियाणां वियदादिवत् स्वरूपान्यथाभावरूपोत्पत्तिः, उत जीववत् धर्मान्यथाभावमात्ररूपेति श्रुतिविप्रतिपत्तेस्संशये पूर्वपक्षः– यद्यपि वियदधिकरणे ‘ब्रह्मातिरिक्तं सर्वमुत्पत्तिम’ दिति निर्णीतं, तथापींद्रियाणां वियदादिवत् न स्वरूपान्यथाभावरूपोत्पत्तिः। ‘असद्वा इतमग्रआसीत् तदाहुः किं तदासीदिति ऋषयो वाव ते अग्रे सदासीत् के ते ऋषय इति प्राणावाव ऋषय इती’ ति, सर्गाद्यकालेऽपि स्थितिश्रवणात् प्राणशब्दस्य बहुवचनांतस्य इंद्रियेष्वेव, ‘प्राणमनूत्क्रामंतं सर्वे प्राणा अनूत्क्रामंती’ति प्रयोगदर्शनात् ‘तस्यासतऋषयस्सप्ततीर’ इति ऋषिशब्दस्यापि तेषु दृष्टप्रयोगत्वाच्च। यद्यपि प्राणशब्दो ब्रह्मण्यपि दृष्टप्रयोगः, ऋषिशब्दश्च ज्ञानवत्त्वादुपपन्नः, तथाऽपि बहुवचनांतयोरनयोस्तस्मिन्नन्वयो न घटते। न ‘अदितिः पाशा’ निति बहवचनवत् इह बहुवचनं अवयवबहुत्वविषयतया योजयितुं शक्यम्। ब्रह्मणो निरवयवत्वादिति। सिद्धान्तस्तु– ब्रह्मण एकस्यैव सर्गाद्यकालेऽवस्थितेः सावधारणासु बहुषु श्रुतिषु श्रवणात्, प्राणशब्दस्य तस्मिन्निरूढिसत्वात्, ऋषिशब्दस्य ज्ञानसाधनेन्द्रियापेक्षया ज्ञानवति तत्र स्वारस्याच्च, ब्रह्मैवात्र प्राणाः। बहुवचनं तु ‘गुणेत्वन्याय्यकल्पने’ ति न्यायात् पाशबहुत्ववन्नेतव्यम्। अवयवाभावेऽपि विशेषणबहुत्वस्य तदालम्बनस्य सद्भावात्। नच एकत्वावधारणेऽपि जीववदिंद्रियाणामपि सत्वमस्त्विति वाच्यम्। कृतहानाकृताभ्यागमपरिहाराय अदृष्टाश्रयतया जीवस्येव तेषां तदा सत्वस्यावक्तव्यत्वात्, उदाहृतश्रुतेः ब्रह्मण्येव स्वरस्यस्य दर्शितत्वाच्च। सर्गाद्यकाले जीवकृत्या दृष्टावस्थितिवत् वागादीन्द्रियकृत्यस्य कस्याप्यभावात्, भूतसृष्ठ्यनंतरमेव नामरूपव्याकरणश्रवणेन ततः प्राग्वागादींद्रियकृत्यानां नामोच्चारणादीनामभावावगमात्, ‘एतस्माज्जायत’ इति मंत्रे तेषां वियदादिसमानस्वरूपान्यथाभावरूपजननश्रवणाच्च॥ संग्रहकारिका॥ अग्रे सत्वात्प्राणाः नित्या इतिचेन्न सृज्यत्वात्। प्राणपदन्तद्ब्रह्मणि बहुवचनं पाशवन्नेयं॥ इति प्राणोत्पत्त्यधिकरणम्॥