अंशोनानाव्यपदेशादन्यथाचापि दाशकितयादिवत्वमधीयतएके॥35॥ मंत्रवर्णात्॥36॥ अपिच स्मर्यते॥37॥ प्रकाशादिवत्तु नैवं परः॥38॥ स्मरन्ति च॥39॥ अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत्॥40॥ असन्ततेश्वाव्यतिकरः॥41॥ आभासएव च॥42॥ अदृष्टानियमात्॥43॥ अभिसंध्यादिष्वपि चैवम्॥44॥ प्रदेशभेदादिति चेन्नान्तर्भावात्॥45॥ जीवेश्वरयोः प्रवर्त्यप्रवर्तकभावे राजभृत्ययोरिव अत्यन्तभेदस्स्यादिति जीवस्य परमात्मांशत्वकथनमप्यौपचारिकं स्यादिति शंकया संगतिः। किं जीवः परस्मादत्यंतभिन्नः, उताज्ञानावस्थापन्नं परमेव ब्रह्म, यद्वा ब्रह्मैवोपाध्यवच्छिन्नं, अथवा विशिष्टस्य ब्रह्मणोविशेषणरूपोंशइति श्रुतिविप्रतिपत्तेस्संशये पूर्वपक्षः- अत्यंतभिन्नोजीवः। ‘ज्ञाज्ञौद्वा’वित्यादिभेदनिर्देशात्। अज्ञंब्रह्मैववा जीवः। ‘तत्वमसि, अयमात्माब्रह्मे’त्यदिश्रवणात्। ब्रह्मैव सत्वोपाध्यवच्छिन्नं वा जीवः। तत्वमस्यादिश्रवणादेव। न तु ब्रह्मणोंशोजीवइति युक्तं। अंशत्वं हि तन्त्वादिवन्नावयवत्वरूपं। निरवयवस्य ब्रह्मणोऽवयवारब्धत्वाभावात्। अतएव टङ्कच्छिन्नपाषाणशकलवदपि नांशत्वम्। ब्रह्मणः खण्डनानर्हत्वाच्चेति॥ सिद्धान्तस्तु- ब्रह्मणोंऽश एव जीवः। नानाव्यपदेशात्। अभेदव्यपदेशाच्च। स्रष्टॄत्वसृज्यत्वनियन्तृत्वनियाम्यत्व सर्वज्ञत्वकिंचिद्ज्ञत्वस्वाधीनत्वपराधीनत्वपतित्वशेषत्वादिभिर्भेदव्यपदेशो हि भूयान् दृश्यते। तथैव अभेदव्यपदेशोऽपि तत्वमस्यादिर्दृश्यते। अपि च आथर्वणिकाः ब्रह्मसूक्ते ब्रह्मणोदाशकितवादिरूपत्वमप्यधीयते। ‘ब्रह्मदाशा ब्रह्मदासा ब्रह्मे मे कितवा उत। स्त्रीपुंसौ ब्रह्मणो जातौ स्त्रियो ब्रह्माऽथवा पुमा’निति। तस्माद्विशिष्टब्रह्मणो विशेषणरूपोंशो जीवइत्येव अभ्युपगन्तव्यम्। एवं सत्येव भेदाभेदश्रुतीनां बंधमोक्षव्यवस्थादीनाञ्च उपपत्तिः। सत्यमिथ्योपाध्यवच्छिन्नब्रह्मजीववादयोस्तु बन्धमोक्षव्यवस्थाद्यनुपपत्तिः, सर्वश्रुतिसामञ्जस्यानुपपत्तिश्च अन्यत्र प्रपञ्चिता। अतो विशिष्टैकदेशरूपोंशो जीवइत्येव युक्तम्। ‘पादोऽस्य विश्वाभूतानि, त्रिपादस्यामृतं दिवी’ति मंत्रवर्णात्, ‘ममैवांशो जीवलोके जीवभूतस्सनातन’ इति गीतावचनाच्च एवमेवावगम्यते। एवञ्च यथा प्रकाशो मण्यादीनां प्रकाशवतां विशेषणांशः, यथा वा देहिनां देवमनुष्यादिदेहः, तथैव अपृथक्सिद्धप्रकारतया शरीरतया च ईश्वरस्य जीवो विशेषण रूपोंशः। न तु सएव सइति। विशेषणभेदात् भेदश्रुतयः विशेष्टरूपैक्यादभेदश्रुतयश्चोपपद्यन्ते। यथाभूतो जीवश्शेषत्वादिलक्षणः" नैवंभूतः परश्शेषत्वादिलक्षण इति प्रभाप्रभावन्न्यायेन शरीरशरीरिभावेन च जीवेश्वरयोर्व्यवस्थितशेषशेषिभावादयश्च उपपद्यन्ते। स्मरन्ति च पराशरादयः जीवेश्वरयोः प्रभाप्रभावन्न्यायं शरीरशरीरिभावञ्च, ‘एकदेशस्थितस्याग्नेर्ज्योत्स्नाविस्तारिणी यथा। परस्य ब्रह्मणश्शक्तिस्तथेदमखिलञ्जगत्॥ यत्किञ्चित्सृज्यते येन सत्वजातेन वै द्विज। तस्य सृज्यस्य संभूतौ तत्सर्वंवै हरेस्तानु’ रिति। ननु सर्वेषामीश्वरांशत्वाविशेषे कथं द्विजानां वेदाध्ययनाद्यनुज्ञा, शूद्राणां तत्परिहार इति चेत्, देहविशेषसम्बन्धादिति ब्रूमः। यथाऽग्न्युदकादीनां श्रोत्रियागारस्थितिदशायां" कर्मार्हत्वं, तेषामेव श्मशानदेशं प्राप्तानां कर्मानर्हत्वं, एवमात्मनां विविधदेहस्थितिदशायामनुज्ञापरिहारद्वयमुपपद्यते। सर्वेषामात्मनां" ब्रह्मांशत्वेनैकरूप्येऽपि तेषामन्योन्यभेदात् अणुत्वेन प्रतिशरीरं भिन्नत्वाच्च भोगव्यतिकरोऽपि न भविष्यति। किन्तु ब्रह्मात्मैक्यवाद एव जीवपरयोर्जीवानाञ्च सप्रसज्यते। न च अविद्याकृतोपाधिभेदात् तदप्रसङ्गः। अखण्डैकरसप्रकाशमात्रस्वरूपस्य ब्रह्मणः स्वरूपतिरोधायकोपाधिभेदोपपादकहेतूनामाभासत्वात्। न खलु दारुखण्डे निपतन् कुठारो दारुखण्डमिव ब्रह्मणि समन्वयन्नुपाधिर्ब्रह्म भिनत्ति। उपाधयो भिन्ना इति चेत्। किं ततः? भोगानाश्रयाणां" तेषां भेदेन भोगाश्रयैक्यादापतत्साङ्कर्यं कथं परिह्रियेत। सत्यमिथ्योपाध्युपहित ब्रह्मजीववादयोरुपाधिहेतुभूतानाद्यदृष्टवशात् व्यवस्था भविष्यतीति चेत्, न। उपाधिभिरिवादृष्टैरपि अखण्डे ब्रह्मणि छेदनाद्यसंभवात्। एतेन अदृष्टहेतुसङ्कल्पानुष्ठानशरीरादिप्रतिनियमात् व्यवस्थेत्याशङ्काऽपि निरस्ता। सङ्कल्पादीनामपि सर्वात्मसननिधावत्पद्यमानानां प्रत्यात्मनियमहेत्वभावात्। ननु आत्मप्रदेशनव्यवस्थया भोगव्यवस्थाऽस्त्विति चेत् न।ब्रह्मणः प्रदेशाश्शरीरान्तर्भूताएव भोगाश्रयावाच्याः। तदन्तर्भूतप्रदेसास्तु न व्यवस्थिताः। प्रायः" सर्वेषामपि प्रदेशानां सञ्चरत्सु सर्वेषु शरीरेष्वन्तर्भावात्। तस्मात्सर्वगतात्मपक्ष इव सत्यमित्ोपाध्युपहितात्मैक्य पक्षेऽपि न भोगव्यवस्थोपपद्यत इति आत्मनामणुत्ववत् भेदोऽप्यभ्युपगन्तव्य इति सिद्धम्॥ संग्रहकारिका॥ जीवस्यात्यन्तभेदे गतिरुपचरणं स्यादभेदश्रुतीनां" गाढाभेदे तु भेदश्रुतिततिसहितस्सङ्करो दुर्निवारः। तस्मादंशःपरस्येत्युचितमिह सखल्वेकवस्त्वेकदेशो विंख्यातोऽयं विशिष्टे भगवतिच भवत्येकदेशः प्रकारः॥ इति अंशाधिकरणम्॥7॥ इति श्रीमद्भरद्वाजकुलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजि- द्याजिश्रीरङ्गराजाध्वरिवरसूनोरप्पय्यदीक्षितस्य कृतौ चतुर्मतसारे नयमयूखमालिकाख्ये द्वितीयपरिच्छेदे द्वितीयस्याध्यायस्य तृतीयः पादः॥