परात्तु तच्छ्रुतेः ॥33॥ कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॥34॥
कर्तृत्वे चिन्तिते तद्विशेषश्चिन्त्यत इति सङ्गतिः । जीवस्य कर्तृत्वं स्वायत्तं, उत परमात्मायत्तमिति विधिनिषेधशास्त्रान्तर्यामिशास्त्राभ्यां संशये पूर्वपक्षः - स्वायत्तमेव जीवस्य कर्तृत्वम् । अन्यथा विधिनिषेधशास्त्रयोरत्यन्तवैयर्थ्यं स्यात् । न च ‘अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा, एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते एष उ एवासाधुकर्म कारयति तं यमधो निनीषत’ इत्याद्यन्तर्यामिशास्त्रात् परमात्मायत्तं कर्तृत्वमिति शङ्कनीयम् । तथासति पुरुषप्रवृत्तिनिवृत्त्यैदंपर्येण प्रवृत्तानां विधिनिषेधशास्त्राणां अत्यन्तवैयर्थ्यापत्तेः, अन्तर्यामिशास्त्रस्याप्यसामञ्जस्यप्रसङ्गाच्च । न हि कश्चित् स्वयमेव किंचिदनिष्टं कर्म कारयित्वा तत्फलं निग्रहमपि करोतीति युक्तमिति । एवं प्राप्ते सिद्धान्तः । परमात्मायत्तमस्य कर्तृत्वम् । अन्तर्यामिशास्त्रबृन्दाबाधसम्भवे तद्बाधनायोगात् । सम्भवति च तदबाधेन विधिनिषेधशास्त्रावैयर्थ्योपपादनम् । “आद्यपृवृत्तौ भगवानुदासीनः द्वितीयादिप्रवृत्तिष्वनुमन्ता स्वभक्तानां स्वद्वेषिणाञ्च स्वेष्टानिष्टकर्मसु कारयितेति भगवतोऽवस्थात्रयसत्त्वात् । तथा हि - आदौ जीवस्य करणकलेबरादि दत्वा किमयं करिष्यतीति पश्यन्नुदासीनो भगवानास्ते । स यत्करोति पुण्यं पापं वा तत्फलरूपं द्वितीयादिप्रवृत्तिमनुमन्यते । प्रवृत्तप्रवर्तनमनुमतिः । यत्तु मुमुक्षूणां प्रपदनोपासनादिकं साधुकर्म, यच्च तामसानां भगवद्द्वेषिणां भगवन्निन्दादिरूपमसाधुकर्म, तदुभयं स्वयं कारयति तद्विषयं ‘एष ह्येबे’त्यादिशास्त्रद्वयम् । न सर्वविषयम् । ‘तेषां सततयुक्तानां भजतां प्रीतिपूर्वकं । ददामि बुद्धियोगन्तं येन मामुपयान्ति त’ इति, ‘तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु’ इति च भगवद्वचनात् ततोन्यत्रविधिनिषेधशास्त्रावकाशः, तन्नात्यन्तवैयर्थ्यमिति” केचिदाचार्याः तद्वैयर्थ्यं समादधुः । अन्ये त्वाहुः - नैवमन्तर्यामिशास्त्रस्य विषयसङ्कोचः कल्पनीयः । भगवतो जीवकर्मविशेषेषु औदासीन्यानुमन्तृत्वकल्पने प्रमाणाभावात् उदाहृतगीतावचनयोः कर्मान्तरकारयितृत्वाभावपर्यन्तकल्पने कल्पकाभावात् । न च विधिनिषेधशास्त्रावैयर्थ्यार्थं तथा कल्पनम् । सर्वेषु विहितनिषिद्धकर्मसु ईश्वरस्य कालादृष्टेन्द्रियादिवत् कारणत्वेऽपि जीवस्य कर्तृत्वाक्षतेः तदिच्छादीनामिवेश्वरस्यापि कारणत्वोपपत्तेः । न च तथासंति जीवस्य विहितनिषिद्धकर्मसु ‘स्वतन्त्रः कर्ते’ति लक्षितं कर्तृत्वं न स्यात्, बलादीश्वरस्य कारयितृत्वेन नदीरयाकृष्यमाणपुरुषस्येव स्वातंत्र्यहानिरिति वाच्यम् । प्रयोजकेन राज्ञा नियुक्तानां प्रयोज्यकर्तॄणाममात्यादीनामपि स्वकर्मसु स्वेच्छया प्रवर्तमानानां स्वातंत्र्यदर्शनात् । तस्मादन्तर्यामिशास्त्रासङ्कोचेन विधिप्रतिषेधावैयर्थ्योपपादनासम्भवात् न तत्सङ्कोचः कल्प्य इति । मतद्वयस्याप्युपपादनप्रपञ्चस्तत्तद्ग्रन्थेषु द्रष्टव्यः ॥
सङ्ग्रहकारिकाः ॥ कर्तृता परवती शरीरिणामीश्वरेण यदि नाम वर्ण्यते । व्यर्थता विधिनिषेधशास्त्रयोश्शक्यते शमयितुं न केनचित् ॥ अस्ति तावदरविंदलोचनश्शासिता यमयितेति च श्रुतिः । सा यथा विधिनिषेधलङ्घनं नादधीत नयतस्तथोच्यते ॥ दत्वादौ करणकलेबरादि पश्यत्युद्योगं प्रथममुदासितैव देवः । पश्चात्तत्फलमनुमन्यते द्वितीयं केषांचिद्भवति कृतौ प्रयोजकोऽपि ॥ अन्तर्यामिश्रुतेरित्थमन्यवैयर्थ्यशङ्कया । सङ्कोचमूचिरे केचित् मुमुक्षुद्वेषिकर्मसु ॥ इच्छाद्यधीनतावत्स्यात् ईश्वराधीनताऽपि नः । तावता शास्त्रवैयर्थ्यं नेत्यसङ्कोचनं परे ॥
इति परायत्ताधिकरणम् ॥