कर्ता शास्त्रार्थवत्त्वात्॥33॥ उपादानाद्विहारोपदेशाच्च॥34॥ व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः॥35॥ उपलब्धिवदनियमः॥36॥ शक्तिविपर्ययात्॥37॥ समाध्यभावाच्च॥38॥ यथाच तक्षोभयथा॥39॥ ज्ञातृत्वनिरूपणानन्तरं कर्तृत्वं निरूप्येत ज्ञानाधीनत्वात् कृतेरिति कार्यकारणभावस्सङ्गतिः। ज्ञानस्वरूपस्सर्वगतो जीव इत्यत्र उपलब्धिनियमादिव्यवस्थित्यसिद्धिवत् प्रकृतेः कर्तृत्वे तस्यास्सर्वसाधारणत्वात् कर्तृनियमव्यवस्थित्यसिद्धिवत् प्रकृतेः कर्तृत्वे तस्यास्सर्वसाधारणत्वात् कर्तृनियमव्यवस्थित्यसिद्धिरुच्यत इति दृष्टान्तसङ्गतिश्च। किं प्रकृतिरेवकर्त्रीति तदीयकर्तृत्वाध्यासेन जीवस्य कर्तृत्वव्यहारः उत स्वभावतएव जीवः कर्तेति संशये पूर्वपक्षः- अकर्तैवात्मा। कठवल्लीषु ‘हन्ताचेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्ति न हन्यत’ इति श्रवणात्। हन्तुं=हन्तारम्। ‘जन्तु’ मित्यादाविव औणादिकस्तुन् प्रत्ययः। ‘य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्ति न हन्यत’ इति गीतावचनैकार्थ्यात्। हननकर्तृत्वप्रतिषेधश्च कर्तृत्वमात्रप्रतिषेधोपलक्षणम्। अत एव गीतासु भगवद्वचनं- ‘प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते॥ कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते। पुरुषस्सुखदुःखानां भोक्तृत्वे हेतुरुच्यत’ इति। अतो जीवः प्रकृतिगतं वा कर्तृवं" तत्तज्जीवासाधारणप्रकृतिपरिणामबुद्धिगतं वा कर्तृत्वमात्मन्यध्यस्यन् कर्तेति व्यपदिश्यते। शास्त्रमपि तथाभूतमेव कर्तृत्वमपेक्ष्य प्रवर्तते सहोपादानादिव्यवहारेणेति। एवं प्राप्ते सिद्धान्तः- बुद्धेः प्रकृतेर्वा कर्तृत्वे ‘यजेत स्वर्गकामः, मुमुक्षुर्ब्रह्मोपासीते’त्येवमादिशास्त्रं स्वर्गमोक्षादिफलकामं भोक्तारमेव नियुङ्क्ते। ‘शास्त्र फलं प्रयोक्तरी’ति न्यायात्। किं च शास्त्रेण कर्ता बोधजननद्वारा नियुज्यते। न च अचेतनयोः बुद्धिप्रकृत्योः" बोधनीयत्वमस्ति, अतो भोक्तृत्वात् बोधनीयत्वाच्च आत्मैव विधिनिषेधशास्त्रनियोज्य इति युक्तम्। न च कूटस्थ आत्माऽहङ्कर्तेति परकीयं" कर्तृत्वमात्मन्यध्यसितुमपि प्रभवति। तस्मादध्यासोऽप्यात्मप्रभास्थानीयधर्मज्ञानपरिणामतया तद्धर्मतां नेतव्य इति तथैव कृतिरपि तद्धर्मतां नीयताम्। किमर्थं बाधानुपलम्भेऽपि ‘अहं कर्ते’ति प्रतिभासस्य भ्रान्तिरूपत्वं, शास्त्रस्य भ्रांतिकृतकर्तृत्वालम्वनत्वञ्च, कल्प्यते। ‘हन्ता चेन्मन्यते हन्तु’मिति मंत्रस्तु ‘न जायते म्रियते वा विपश्चि’दिति मन्त्रे ‘न हन्यते हन्यमानेऽपि देह’ इति देहातिरिक्तस्य आत्मनो हननायोग्यत्वेन प्रकृतत्वात्तद्विषयतयोपपद्यते। कर्तृत्वप्रतिषेधकानि। ‘तत्रैवं सति कर्तारमात्मानं केवलं" तु यः। ‘पश्यत्यकृतबुद्धित्वान्न सपश्यति दुर्मति’रिति तदीयवचनांतरेणैकार्थ्यात्। किञ्च ‘सयथा महाराजो जानपदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेतैवमेवैष एतान् प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तत’ इत्युपादानविहारोपदेशदर्शनात्, ‘विज्ञानं" यज्ञं तनुते कर्माणि तनुतेऽपि चे’ति लौकिकवेदिकक्रियासु कर्तृत्वव्यपदेशाच्च, आत्मा कर्तैव। नच विज्ञान शब्दोऽन्तःकरणपरः। अन्तः" करणनिर्देशे श्रुतिषु तृतीयायाएव दर्शनात्। इहापि तथा निर्देशविपर्ययप्रसङ्गात्। ‘तदेषां प्राणानां विज्ञानेन विज्ञानमादाये’त्यादिवाक्यान्तरेषु अन्तः करणपरस्य विज्ञानशब्दस्य तृतीयानिर्देशो हि दृश्यते। किं च प्रकृतेः कर्तृत्वे तस्यास्सर्वपुरुषसाधारणत्वात् पूर्वाधिकरणोक्तोपलब्ध्यादिनियमासम्भवरीत्या कर्मनियमस्याप्यसम्भवात्। तथा च सर्वाणि कर्माणि सर्वेषां भोगाय स्युः। आत्मनां सांख्यमते विभुत्वेन सर्वत्र सर्वेषां सन्निधानाविशेषात्। न च अन्तः करणस्य कर्तृत्वपक्षे नायं दोषः, अन्तः करणानां प्रतिशरीरं भिन्नत्वादिति वाच्यम्। तेषां तदायतनशरीराणाञ्च सर्वात्मसन्निधावुत्पद्यमानानां" प्रत्यात्मव्यवस्थितेरुपपादयितुमशक्यत्वात्। बुद्धेः कर्तृत्वपक्षे च कर्तुरन्यस्य भोक्तृत्वानुपपत्तेः भोक्तृत्वमपि तस्या एव स्यादिति आत्मनो भोक्तृत्वशक्तिर्नस्यात्। तथा च ‘पुरुषोऽस्ति भोक्तृभावा’दिति तेषामेव अभ्युपगमविरोधः। बुद्धेः कर्तृत्वे च ‘प्रकृतेरन्योऽस्मी’त्येवंरूपमोक्षसाधनसमाधिकर्तृत्वमपि तस्या एव वाच्यम्। न च प्रकृतिः स्वरूपेण बुद्धिपरिणतिरूपेण वा प्रकृतेरन्यः" कूटस्थोऽस्मीति समाधातुं प्रभवति। किंच आत्मनः कर्तृत्वाभ्युपगमे सत्यामिच्छायां करोति, अन्यदा न करोति। यथा तक्षा वास्यादिकरणसम्पन्नोऽपि सत्यामेवेच्छायां करोति नान्यदेति नियम उपपद्यते। बुद्धेस्तु अचेतनायाः कर्तृत्वे तस्या भोगेच्छादिनियमकारणाभावात् सर्वदा कर्तृत्वं" स्यात्। तस्मादात्मैव स्वभावतः कर्तेति युक्तम्॥ स न कर्ता गुणानां हि कर्तृत्वं विभुना स्मृतम्। मैवं शास्त्रार्थवत्वाद्यैः कर्ता स गुणयोगतः॥ इति कर्त्रधिकरणम्॥