ज्ञोऽत एव॥19॥ उत्क्रांतिगत्यागतीनाम्॥20॥ स्वात्मना चोत्तरयोः॥21॥ नाणुरतच्छ्रुतेरिति चेन्नेतसधिकारात्॥22॥ स्वशब्दोन्मानाभ्याञ्च॥23॥ अविरोधश्वंदनवत्॥24॥ अवस्थितिवैशेष्यादितिचेन्नाभ्युपगमात्धृदिहि॥25॥ गुणाद्वाऽऽलोकवत्॥26॥ व्यतिरेको गन्धवत्तथाच दर्शयति॥27॥ पृथगुपदेशात्॥28॥ तद्गुणसारत्वात्तद्व्यपदेशः प्राज्ञवत्॥29॥ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात्॥30॥ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात्॥31॥ नित्योऽपलब्ध्यनुपलब्धिप्रसंगोन्यतरनियमोवान्यथा॥32॥ जीवोत्पत्तिविचारप्रसंगात् तस्य ज्ञातृत्वादिधर्मश्चित्यते ज्ञानरूपत्व ज्ञातृत्वादिविषयश्रुतिविरोधसमाधानेन जगत्कारणब्रह्मविषयश्रुतीनां" निर्विचिकित्सप्रामाण्यसिध्यर्थं। अपि च जीवस्य धर्मान्यथाभावरूपो विकारः, न स्वरूपान्यताभावरूपइत्येतदयुक्तं। स्वरूपातिरेकेण ज्ञानाख्यधर्माभावात्। ज्ञानमेव हि तस्य स्वभावः इत्युत्थानादाक्षेपिकी संगतिरप्यनुसंधेया। किं ज्ञानस्वरूपो जीवः उतजड एवागंतुकज्ञानः, अथवा नित्यमेव ज्ञानगुणाधारतया स्वतोज्ञातेति संशये पूर्वपक्षः-‘विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपिच। यो विज्ञाने तिष्ठन् विज्ञानादंतरः, ज्ञानस्वरूपमत्यंतनिर्मलं परमार्थत’ इत्यादिश्रुतिस्मृतिभ्यो ज्ञानस्वरूपएवेत्येकः पूर्वपक्षः। अपरस्तु जीवस्य ज्ञानस्वरूपत्वे तस्य सर्वगतस्य सर्वदा सर्वविषयोपलब्धिप्रसंगेन चक्षुरादिवैयर्थ्यप्रसंगेन च ज्ञानविकलसुषुप्तिमूर्छाद्यभावप्रसंगेन च तस्य ज्ञानरूपत्वं नयुक्तं। अतएव सिद्धांत्यभिमतं नित्यज्ञानाधारतया ज्ञातृत्वमप्ययुक्तं। किन्तु नैयायिकादिमतरीत्या चक्षुरादिकरणाधीनज्ञानवत्त्वमेवाभ्युपेयमिति। एवं प्राप्ते सिद्धांतः- ‘अथ योवेदेदं जिघ्राणीति स आत्मा, मनसैतान् कामान् पश्यन् रमते, नपश्यो मृत्युं पश्यति, जानात्येवायं पुरुषः, एषहि द्रष्टा श्रोता घ्राता रसयिते’त्यादिश्रुतिभ्यः ज्ञातैवायमात्मा। नचैवं सति सर्वदा द्रष्टा श्रोता घ्राता रमयिते’त्यादिश्रुतिभ्यः ज्ञातैवायमात्मा। नचैवं सति सर्वदा सर्वविषयोपलब्धिप्रसंगः। तस्याणुत्वात्। अणुत्वंच उत्क्रांतिगत्यागतिश्रवणात्। ‘तेन प्रद्योतेनैष आत्मा विष्क्रामति, यैवैकेचास्माल्लोकात्प्रयंति चन्द्रमसमेव ते सर्वे गच्छन्ति, तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मण’इति हि तस्योत्क्रान्तिगत्यागतयश्श्रूयन्ते। नचैतासां विभुत्वे शक्यमुपपादनं। ननु ‘योयं विज्ञानमयः प्राणेष्वि’ति प्राणसम्बन्धिनं जीवं प्रस्तुत्य ‘सवाएष महानजआत्मे’ति महत्वाम्नानान्नाणुरिति चेन्न। तत्र जीवादितरस्य ब्रह्मणोधिकारात्। उपक्रमे जीवप्रस्तावेपि मध्ये ‘यस्यानुवित्तः प्रतिबुद्धआत्मे’ति परप्रतिपादनात्, तदनुबन्धित्वाच्च महत्वाम्नानस्य। किञ्च ‘एषोणुरात्मा चेतसा वेदितव्याः यस्मिन् प्राणः पंचधा संविवेशे’ति जीवस्य साक्षादणुत्वं" श्रूयते। ‘वालाग्रशतभागस्य शतधा कल्पितस्य च। भागो जीवस्सविज्ञेय’ इति ‘आराग्रशतभागस्य’ इति च तस्याल्पपरमाणत्वं श्रूयते। एवं" सति शरीरैकवर्तिनो जीवस्य कथं सर्वांगीणसुखाद्यनुभव इति चेत्- चंदनवदिति ब्रूमः। यथा हरिचन्दनबिंदुर्देहैकदेश वर्त्यपि सकलदेहव्यापिनमाह्लादं" जनयति, तथैकदेशस्थितोपि जीवस्सर्वांगीणसुखमनुभवति। ‘योयं विज्ञानमयः प्राणेषु हृद्यंतर्ज्योतिः, हृदिह्ययमात्मे’त्यादिश्रुतिभिः" तस्यापि हृदयदेशे स्थित्यभ्युपगमात्। वस्तुतस्तु- जीवो हृदि स्थितोपि स्वगुणेन ज्ञानेन सकलदेहं व्याप्नोति, यथामणिर्द्युमणिर्वा एकदेशवर्तिभिः स्वालेकैरनेकदेशं। नच ज्ञानस्वरूपएवात्मा नज्ञानगुणकइति शंकनीयं। यथा गन्धस्य पृथिवीगुणत्वेनोपलभ्यमानस्य ततो व्यतिरेकः तथा जानामीति आत्मगुणत्वेनानुभूयमानस्य ज्ञानस्य जीवाद्व्यतिरेकात्। ‘जानात्येवायंपुरुष’ इति श्रुत्यापि तस्य ज्ञातृगुणत्वप्रदर्शनात्, ‘न हि विज्ञातुर्विपरिलोपोविद्यत’ इति श्रुतौ ज्ञातृज्ञानयोः पृथगुपदेशाच्च। कथं तर्हि ‘विज्ञानं यज्ञं तनुत’ इत्यादिषु तस्य ज्ञानरूपत्व व्यवहारः। ज्ञानगुणसारत्वात्। ज्ञानं हि तस्य सारभूतो गुणः। ततश्च यथा ब्रह्मणः प्राज्ञस्य ज्ञानमानन्दश्च सारभूतो गुण इति ‘सत्यं ज्ञानमनन्तं ब्रह्म, आनन्दो ब्रह्मेति व्यजाना’दिति ज्ञानान्दव्यपदेशः, एव मिहापि ज्ञानव्यपदेशः। ननु ‘सत्यं ज्ञान’मित्यत्र अन्तोदात्तस्वरबलात् ज्ञानवत्वमर्थः प्रतिभाति। केवलं भावार्थल्युडन्ततायामंतोदात्तस्वरानुपपत्तेः। तथा हि-ल्युडादेशस्य अनइत्यस्य ‘आद्युदात्तश्चे’ति प्रत्ययस्वरेण प्रथमाकारे उदात्तेलितीति लित्स्वरेण प्रकृत्याकारेचोदात्ते ‘अनुदात्तं पदमेकवर्ज’मिति शेषनिघातस्वरेण प्रत्ययस्थयोरकारयोरनुदात्तयोः ‘एकादेश उदात्तेनोदात्त’इत्येकादेशस्वरेण प्रकृत्याकारप्रत्ययाद्यकारयोः एकादेशेचोदात्ते सति प्रत्ययान्त्याकारस्यानुदात्तस्य विभक्त्यकारस्य च ‘अनुदात्तौ सुप्तिषा’विति सुप् स्वरेण अनुदात्तस्य ‘अमिपूर्व’ इत्येकादेशो भवन् ‘स्थानोऽन्तरतम’ इति परिभाषयानुदात्तस्स्यात्। तस्य चानुदात्तस्य ‘उदात्तादनुदात्तस्य च स्वरित’ इति स्वरितादेशो भवेत्। अत एव तत् ज्ञानमिति पदं केवलल्युडन्तत्वे स्वरितान्तं" स्यात्। यथा काठके ‘संज्ञानं विज्ञानं प्रज्ञान’मिति। तस्मादन्तोदात्तनिर्वाहार्थमिदं ज्ञानपदं ल्युडन्तरं मत्वर्थीयाच् प्रत्ययान्तं" वाच्यं। अर्शादेराकृतिगणत्वात्। तथासत्यंतोदात्तस्वरउपपद्यते। अर्शांद्यच्प्रत्यये ‘यस्येति चे’ति प्रकृतावंत्यस्य अकारस्य लोपे ‘चित’ इति चित्स्वरेण मत्वर्थींयप्रत्ययस्योदात्तत्वे च सति तस्य विभक्त्यकारस्य चैकादेशस्यापि ‘एकादेशउदात्तेनोदात्त’ इत्युदात्तस्यैव भावात्। एवमिह ज्ञानपदप्रक्रियाश्रयणे ज्ञानवत्वमेवात्मनस्सिध्येत्। न ज्ञानरूपत्वं। तस्मात्ज्ञानरूपत्वमनेन न प्रतीयतइति चेदुच्यते- औणादिकनप्रत्ययांतत्वाश्रयणे तदपि प्रतिभाति। ज्ञाधातोराहत्य न प्रत्ययविधानाभावेऽपि ‘उणादयो बहुल’मिति बहुलग्रहणेन यतो विहितास्ततोऽन्यत्रापि ते भवन्तीत्येतदर्थेन तत्सिद्धेः। औणादिकप्रत्ययांतत्वे भावार्थत्वमप्युपपद्यते। अर्त्यादिसूत्रविहितमन्प्रत्ययस्वरेणोदात्तत्वे सति तस्य विभक्त्यकारेण भवतएकादेशस्याप्युदात्तस्यैव भावात्। एवमुभयथेह ज्ञानपदप्रक्रियाश्रयणसंभवेपि प्रक्रियालाघवादौणादिकनप्रत्ययांततया भावार्थत्वमेव युक्तमित्यभिप्रेत्य भाष्यकारैर्ज्ञानस्वरूपत्वेप्रमाणतयेदमुदाहृतं। ज्ञानस्य यावदात्मभावित्वादपि तेन तस्य व्यपदेशः। खंडादीनां यावत्स्वरूपभाविगोत्वादिधर्मवाचिगवादिशब्देन व्यपदेशदर्शनात्। जीवस्य स्वप्रकाशत्वादपि ज्ञानव्यपदेशउपपद्यते। स्वप्रकाशत्वमपि स्वापेक्षमेव नतु परापेक्षमपि। स्वापेक्षमपि अहमितिप्रत्यक्त्वैकत्वविशिष्टतामात्रेण। स्वपरप्रकाशत्वं तु धर्मज्ञानस्यैव। सोयं" प्रभाप्रभावन्न्यायोधर्मधर्मिज्ञानयोः। यदाहुः- ‘स्वस्यैव भासकोदीपः स्वात्मनोऽन्यस्य च प्रभा। एवंभेदोस्ति साम्येपि ज्ञानयोर्धर्मधर्मिणो’रिति। ननु सुषुप्त्यादिषु ज्ञानाभावात् कथं ज्ञानस्य गोत्वादिवत् स्वरूपानुबन्धिधर्मत्वमिति चेत्। पुंस्त्वादिवदभिव्यक्त्येति ब्रूमः-यथा सप्तधातुमये शरीरे सदासन्नपि पुंस्त्वरूपसप्तमधातुः न बाल्ये यौवनइवाभिव्यज्यते, एवं सदासन्नेव ज्ञानगुणः सुषुप्तौ जागरइव नाभिव्यज्यते। तदानीमपि स्वयमेव प्रकाशमानतार्हत्वरूपस्य स्वयंप्रकाशत्वस्य न हानिः। अहमर्थस्य तु सुषुप्तावपि प्रकाशमानताऽस्त्येव। ‘सुखमहमस्वाप्स’मिति परामर्शात्। यदाहुः- ‘प्रत्यक्स्वयंप्रभसुखे नित्ये पुंसि व्यवस्थिते। अस्वाप्सं सुखमित्यादौ कालाद्यंशेऽनुमास्थितिः॥ अगायं मधुरं मदमयामित्येवमादिषु। माधुर्यादिवदत्रापि सुखं भाति तदातन’मिति। तस्माज्ज्ञानगुणस्संकोचविकासशाली, तद्धर्मी जीवस्त्वणुरित्यस्मत्पक्षे न कश्चिद्दोषः। किन्तु ‘ज्ञानस्वरूपोजीवः" सच सर्वगत’ इति पक्षएव नित्योपलब्ध्यनुपलब्धिप्रसंगोन्यतरनियमोवा स्यात्। तथाहि- सर्वगतज्ञानरूपं जीवस्वरूपं किमुपलब्धेरेवहेतुः, उत अनुपलब्धेरेव, अथावाउभयोरपि। आद्ये देहावच्छिन्नप्रदेश इव अन्यत्रापि तदुपलब्धिस्स्यात्। द्वितीये देहावच्छिन्नप्रदेशेपि तदुपलब्धिर्नस्यात्। तृतीये सदोपलब्ध्यनुपलब्धी परस्परविरुद्धे स्यातां। सर्वगतोजीवश्चक्षुरादिकरणायत्तगन्तुकज्ञानइति नैयायिकादिपक्षेप्ययंदोषस्समानः। अयमर्थः ‘अंशोनानाव्यपदेशा’दित्यधिकरणे स्फूटीभविष्यति। संग्रहकारिके॥ जीवं विज्ञानरूपं कतिचिदभिदधुश्श्रूयतेऽसौ तथेति ज्ञानैरागन्तुकैस्तं कतिचदथ पुनर्ज्ञातृताभाजमूचुः॥ नित्यज्ञातृत्वमन्ये तदिह समुदितो मध्यमस्तर्कपक्षः" जानीयाद्दूरदेशे स्थितमपि हि विभुर्जीवएषोऽन्यथा ते॥ जानात्येवायमित्याद्युपनिषदुदितो ज्ञातृरूपस्सनित्यं" सर्वज्ञस्तावतास्यादिति न यदणुरुत्क्रांतिगत्यादिमानैः। देहव्याप्तिस्तु दीपद्युतिसदृशगुणज्ञानतस्तस्य युक्ता ज्ञानत्वोक्तिस्ससारोगुणइति घटते स्वप्रकाशस्सचेति॥ इति ज्ञाधिकरणम्॥