नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः॥18॥ वियदादिवज्जीवोप्युत्पद्यते न वेति चिंत्यते। उत्पद्यत इति पूर्व पक्षः। ‘यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, प्रजापतिः" प्रजा असृजते’त्यादिश्रवणात् एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानात् प्राक्सृष्टेरेकत्वावधारणाच्च। न च ‘तत्वमसी’ति जीवस्य ब्रह्माभेदश्रवणादुत्पत्त्यनुपपत्तिः। ‘सर्वं खल्विदं ब्रह्मे’ त्यादिश्रवणेन वियदादीनामप्यनुत्पत्तिप्रसंगात्। नच ‘न जायते म्रियते वा विपश्चि’दित्यनेन जीवोत्पत्तिनिषेधश्शंकनीयः। वाय्वाकाशामृतत्ववचनेन तयोरप्युतपत्तिनिषेधापत्तेः तस्य देहोत्पत्तिविनाशानुबंध्युत्पत्तिविनाशाबावपरत्वाच्च। ‘जीवापेतं वाव किलेदं" म्रियते नजीवो म्रियत’इति देहमरणानुबन्धिमरणनिषेधक श्रुत्यन्तरानुसारेणास्यापि तथैवाभिप्रायावगमाच्च। न च कृतहानाकृताभ्यागमप्रसंगो दोषः। सर्वत्र द्रव्यं नित्यं तस्य पूर्वावस्थाप्रहाणं विनाशः अवस्थांतरापत्तिरुत्पत्तिरिति सिद्धांत्यभिमते परिणामवादे द्रव्यात्मना नित्ये जीवे तदप्रसंगात्। नैयायिकमते घटादीनामिव जीवस्याभूत्वा भवनरूपोत्पत्त्यभ्युपगमो हि प्रसज्येत। तस्माज्जीवो वियदादिवदुत्पद्यत इति। एवं प्राप्ते सिद्धांतः- जीवो वियदादिवन्नोत्पद्यते। ‘न जायते म्रियते वाविपश्चित्, ज्ञाज्ञौ द्वावजावीशनीशा’वित्यादिषु तदनुत्पत्तिश्रवणात् ‘अजो नित्यश्शाश्वतोयं" पुराणो न हन्यते हन्यमाने शरीरे, नित्योनित्यानाञ्चेतनश्चेतनानाम्’ इत्यादिश्रुतिभ्यः तस्य नित्यत्वेनोत्पत्त्यभावावगमाच्च। न च ‘न जायते म्रियत’ इति हि श्रुतिः देहोत्पत्तिमरणानुबंध्युत्पत्तिमरणाभावमात्रपरेति वाच्यं। तत्रैव ‘न हन्यते हन्यमाने शरीरे’इति देहहननानुबन्धिहनना भावोक्त्यैवार्थसिद्धस्य तस्य पृथगवक्तव्यत्वात्। प्रागवियतोवियद्रूपेणेव प्रागजीवस्य जीवरूपेण परिणामाभ्युपगमे जीवकर्तृकत्वनियतयोः पुण्यपापयोरजीवाश्रितत्वासंभवेन कृतहानाकृताभ्यागमप्रसंगापरिहाराच्च। सर्वविज्ञानप्रतिज्ञानमेकत्वावधारणञ्च सृष्टेः प्राग्जीवस्य सूक्ष्मतापत्त्या सृष्टौ स्थूलकार्यतापत्त्याचोपपद्यते। कथं तर्हि विदादिभ्यो विशेषः। इत्थं- वियदादीनामस्ति स्वरूपान्यथाभाव इति तेन रूपेण कार्यत्वं। जीवस्य त्वविक्रियस्य न स्वरूपान्यथाभावोस्ति। किन्तु ज्ञानाख्यगुणसंकोचविकासलक्षण धर्मान्यथाभावमात्रं। तावन्मात्रेण तस्य कार्यत्वमिति। इदमुत्तराधिकरणे स्पष्टीभविष्यति॥ संग्रहकारिका॥ श्रुतेर्जीवोऽपि जनिमान् मैवं तदजनुश्रुतेः। धर्मज्ञानान्यथाभावविषया तज्जनिश्रुतिः॥ इति आत्माधिकरणम्॥3॥