तेजोऽतस्तथाह्याह॥10॥ आपः॥11॥ पृथिवी॥12॥ अधिकाररूपशब्दान्तरेभ्यः॥13॥ तदभिध्यानादेव तु तल्लिङ्गात्सः॥14॥ विपर्ययेण तु कमोऽतउपपद्यते च॥15॥ अन्तराविज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात्॥16॥ चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशोभाक्तस्तद्भावभावित्वात्॥17॥ ब्रह्मव्यतिरिक्तं सर्वं ब्रह्मकार्यमिति निर्णीतम्। इहेदं चिन्त्यते किं तेजः प्रभूतीनां पूर्वपूर्वस्माद्वाय्वादेरुत्पत्तिः, तेषां ब्रह्मकार्यत्वं तु परम्परया, उत पूर्वपूर्वशरीरकात्परमात्मनस्तेषामुत्पत्तिरिति। तत्र पूर्वःपक्षः। पूर्वपूर्वस्मादेवोत्पत्तिः। ‘वायोरग्निः, अग्नेरापः, अद्भ्यःपृथिवी’ति श्रुतिराह। ननु ‘तदैक्षत बहुस्यां प्रजायेयेति तत्तेजोऽसृजत तत्तेज ऐक्षत तदपोऽसृजत ता आप ऐक्षन्त ता अन्नमसृजन्ते’ति ईक्षापूर्वकं तेजः प्रभृतीनां स्रष्टृत्वं श्रूयते। नचेक्षणमचेतनानां सम्भवति। अत ईक्षणलिंगात् तेज आदिशब्दाः तत्तच्छरीरकपरमात्मपरा इति तेजश्शरीरात् परमात्मनोऽपां अच्छरीरकात् ततः पृथिव्याश्चोत्पत्तिर्वक्तुं युक्ता। न च ‘ता अन्नमसृजन्ते’ति अन्नशब्देन कथं पृथिव्यभिधीयत इति वाच्यम्। महाभूतसृष्ट्यधिकारात्। ‘यदग्नेरोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं" तदपां यत्कृष्णं तदन्नस्ये’ति त्रिवृत्कृतमहाभूतरूपोक्तिप्रकरणे अन्नस्य रूपोक्तेः, समानप्रकरणे ‘अद्भ्यः पृथिवी’ति पृथिवीवाचकशब्दान्तरश्रवणाच्च। अतस्तेजआदिशब्दास्तत्तच्छरीरकपरमात्मपरा वाच्याः। अन्तर्याम्यधिकरणे सर्वेषां परमात्मशरीरत्वस्य उक्तत्वादितिचेत् मैवं- तथासति तेज आदिशब्दानां तत्तच्छरीरके परमात्मनि लक्षणया श्रुतहानिप्रसङ्गात्। न चेक्षणलिगेन श्रुतिबाधनं युक्तम्। किन्तु श्रुत्यनुसारात् ईक्षणमेव गौणं वक्तुं युक्तम्। ‘एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च। खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’त्याथर्वणमंत्रोऽपि पुत्रपौत्रप्रपौत्रादिरीत्या साक्षात्परम्परासाधारण्येन ब्रह्मकार्यत्वपरतयोपपद्यते। एवं प्राप्ते सिद्धान्तः- तत्तच्छरीरकात्परमात्मनो जगदुत्पद्यते। ईक्षणलिंगात्। न च श्रुतिबाधः। चराचरप्रपञ्चवाचिनां सर्वेषां शब्दानां तत्तच्छरीरके परमात्मनि मुख्यत्वात्। लोके ‘ब्राह्मणोऽधीते, ब्राह्मणो विद्वा’ नित्यादिप्रयोगेषु, वेदे ‘ब्राह्मणमुपनयीत, ब्राह्मणो यजेते’त्यादिप्रयोगेषु च शरीरवाचिशब्दानां शरीरिपर्यन्तत्वस्य व्युत्पत्तिसिद्धत्वात्। सर्वस्य चराचरस्य परमात्मशरीरताया अन्तर्यामिब्राह्मणेन, ‘अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणी’ति तेजआद्यनुप्रवेशपूर्वकनामरूपव्याकरणश्रुत्याचावगमात्। न च सर्वशरीरत्वश्रवणमौपचारिकं, तेजआदिसृष्ट्यनन्तरं नामरूपवयाकरणार्थमेवानुप्रवेशश्रवणात् ‘तत्सृष्ट्वा तदेवानुप्राविशदि’ति श्रुत्यन्तराच्चेति वाच्यं। सर्वगतस्येश्वरस्य क्वचिदसतः पश्चात्प्रवेशासंभवेन प्रवेशश्रुतीनां नियंतृतया सार्वदिकसत्तप्रितापादनपरत्वात्। तस्मात्तेजः पृभृतिशब्दानां परमात्मनि मुख्यत्वात् ‘तत्तेज ऐक्षते’ त्यादिभिः परमात्मन एव सर्वस्मिन् प्रपंचे साक्षात्स्रष्टृत्वमवसीयते। ‘एतस्माज्जायत’इत्याद्याथर्वणमंत्रेणापि तथाऽवसीयते। अयं हि मंत्रोऽव्यक्तमहदहंकारादिकार्येषूत्तरोत्तरः पूर्वपूर्व स्मादुत्पद्यत इति पुत्र पौत्रन्यायानुसारिणः क्रमाद्वैपरीत्येन सर्वं परमात्मन एवोत्पद्यत इति सर्वस्य परमात्मानन्तर्यरूपो यः क्रमः तत्रैव स्वारसिकः। स च तत्तच्छरीरकात् ब्रह्मणस्साक्षाज्जगत्सृष्टेरेवोपपद्यते ‘एतस्माज्जायत’ इत्यत्र साक्षात्त्वस्य मुख्यत्वेनौत्सर्गिकत्वात्। नन्वयं मंत्रः प्राणस्य भूतानां च मध्ये चक्षुरादीनि मनश्चोत्पद्यन्त इत्येवंरूपक्रमतात्पर्यकः। खादिपृथिव्यन्तानां क्रमाम्नानलिंगात्। न तु सर्वस्य प्राणादेः परमात्मन उत्पत्तिपर इति चेत्-न। इन्द्रियमनःखादीनामपि ‘एतस्माज्जायत’ इति साक्षात् परमात्मसृष्टतयोपात्तप्राणाविशेषात्। न हि प्राण एव साक्षाज्जायते अन्ये पौत्रादिन्यायेन परंपरया ब्रह्मणो जायन्त इति विशेषश्रवणमस्ति। नत्वयं मंत्रः क्रमपरः। क्रमस्तु खादिषु श्रुत्यंतरसिद्धोनूद्यते। अन्यत्र श्रुत्यंतरविरुद्धो न गृह्यते। सुबालोपनिषदि स्पष्टं क्रंमाम्नानात्। तस्मात् सर्वं जगत् साक्षात् परमात्मन एवोत्पद्यत इति सिद्धं॥ संग्रहकारिकाः॥ तेजोजलपृथिवीनां मारुततेजोजलेभ्य उत्पत्तिः। श्रुत्यनुरोधात् ब्रह्म तु मूलं कूटस्थपुरुषइव॥ ‘तत्तेजऐक्षते’त्याद्याम्नायोक्तादभिध्यानात्। साक्षादेव निदानं तेषां तत्तच्छरीरकं ब्रह्म॥ एवं स ‘त्येतस्माज्जायत’ इत्यादिवचनमुपपन्नं। तद्ध्यविशेषादेषां ब्रह्मानंतर्यमेव बोधयति॥ तेजः प्रमुखाश्शब्दा लोकेऽन्यत्र प्रसिद्धिमंतोपि। व्याकरणश्रुत्यादेर्गम्यंते ब्रह्मपर्यंताः॥ इति तेजोधिकरणम्॥