॥द्वितीयस्याध्यायस्य तृतीयः पादः॥ सांख्यादितंत्राणां न्यायाभासमूलत्वाद्विप्रतिषेधाच्चासामंजस्यमुक्तं। इदानीं स्वपक्षस्यापि वियदुत्पत्त्युनुत्पत्त्यादिविषयुश्रुतिविप्रतिषेधदोषोस्तीति प्रतिबन्दीं मनसि विपरिवर्तमानां निरसितुं तदभावख्यापनाय ब्रह्मकार्यस्य प्रपञ्चस्य कार्यताप्रकारः पादद्वयेन विशोध्यते। नन्वेवं" सति वियदादि कार्यत्वप्रसाधनस्य परोक्तदोषपरिहारार्थेन प्रथमपादेन संगत्त्या तदानंतर्यं स्यात्। कारणविषयपादद्वयानन्तरं कार्यविषयपादद्वयारम्भ इति चेत् तर्हि कार्यविषयस्यास्य पादद्वयस्याध्यायसंगतिरेव न स्यात्। प्रथमाध्यायनिरूपिते वेदांतानां जगत्करणब्रह्मसमन्वये परिपन्थिनो विरोधस्य समाधानं हि द्वितीयाध्यायार्थ इति चेत् उच्यते- कारणविषयश्रुतीनां ब्रह्मणि समन्वयो वियदाद्युत्पत्तिश्रुतीनां स्वार्थसमन्वयमपेक्षते। अन्यथा वियन्नित्यत्वे परनादीनां वियदादिजन्यत्वे च ब्रह्म कथं वियदादिकस्य कारणं भवेत्। कथंच ब्रह्म सर्वस्य कार्यस्य कारणं" स्यात्। अतो वियदाद्युतपत्ति श्रुतिसमन्वयचिंता, तदनुबन्धेन जीवनित्यत्वज्ञातृत्वाणुत्वादिचिंता। अथवा ‘विप्रतिषेधाच्चासमंजस’मित्यादिसूत्रैस् सांख्यादिदर्शनानां परस्परविरोधादप्रामाण्ये समर्थिते वेदांतेष्वपि वियदादेर्जीवस्यचोत्पत्त्यनुत्पत्तिश्रुतीनां जीवस्य ज्ञातृत्वज्ञानरूपत्वादिश्रुतीनां" च परस्परविरोधेनाप्रामाण्ये तेषां कारणविषयेप्यप्रामाण्यशंकया निर्विचिकित्सं प्रामाण्यं नसिध्येदिति प्रथमाध्यायनिरूपितकारणविषयश्रुतिसमन्वयाक्षेपकतया ज्ञातृत्वादिविचारस्यापि साक्षादेव संगतिरनुसंधेया। इह प्रथमं वियदुत्पत्तिस्समर्थ्यते- नवियदश्रुतेः॥1॥ अस्तितु॥2॥ गौण्यसंभवाच्छब्दाच्च॥3॥ स्याच्चैकस्य ब्रह्मशब्दवत्॥4॥ प्रतिज्ञाहानिरव्यतिरेकात्॥5॥ शब्देभ्यः॥6॥ यावद्विकारंतु विभागो लोकवत्॥7॥ एतेन मातरिश्वा व्याख्यातः॥8॥ असंभवस्तु सतोऽनुपपत्तेः॥9॥ वियदुत्पद्यते नवेति तदुत्पत्तिप्रतिपादनक्षमश्रुतिसंभवासंभवाभ्यांसंशये पूर्वपक्षः- वियन्नोत्पद्यते। तदुत्पत्तिप्रतिपादनक्षणश्रुत्यभावात्। छांदोग्येतावत् तद्विषया श्रुतिरेव नास्ति। तैत्तरीयकाथर्वणादिषु सत्यपि सा न तदुत्पत्तिप्रतिपादनक्षमा। निरवयवत्वेन सर्वगतत्वेन च तस्य नित्यत्वावगमात्। नच द्वितीयहेतोरसिद्धिः। क्वचिदपि तदभावस्य बुध्यारोहासंभवात्। अत्र वियन्नास्तीति निषेधस्य व्याहतत्वात्। यत्र निषिध्यते तस्यैव देशस्य वियद्रूपत्वात्। अतस्तैत्तिरीयकश्रुतौ वियतिश्रुता संभूतश्रुतिः ‘एतस्माज्जायते प्राणोमनस्सर्वेन्द्रियाणि च। खंवायुर्ज्योतिरापः" पृथिवी विश्वस्य धारिणी’त्याथर्वणे वियत्यनुषक्ता जायतेश्रुतिश्च गौण्येव वाच्या। न च श्रुतानुषक्तयोस्सम्भूतशब्दयोर्जायतेशब्दयोश्चार्थभेदे कश्चिद्दोषः। आथर्वणएव ‘तपसा चीयते ब्रह्म ततोऽन्नमभिजायते। तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायत’ इति श्रुतयोरपि ब्रह्मशब्दयोर्मुख्यामुख्यत्वदर्शनात् वियदुत्पत्तिवादिनाऽपि ‘आकाशवत्सर्वगतश्च नित्य’ इति श्रुतौ सकृच्छ्रुतयोर्नित्यसर्वगतशब्दयोः एकत्र मुख्यत्वस्य अन्यत्रामुख्यत्वस्य च अङ्गीकर्तव्यत्वाच्चेति। एवं प्राप्ते सिद्धान्तः- यत्र तेजसः प्राथम्यं श्रुतं, तत्रैव छान्दोग्ये मृत्पिण्डादिदृषान्तपूर्वकं एकविज्ञानेन सर्वविज्ञानं यत्प्रतिज्ञातं तस्याहानिः" आकाशस्यापि ब्रह्मकार्यत्वेन तदव्यतिरेकादेव भवति। तेनाकाशस्य ब्रह्मकार्यत्वं छान्दोग्यश्रुतेरप्यनुमतमवसीयते। ‘सदेव सोम्येदमग्रआसी’दिति सृष्टेः प्रागेकत्वावधारणं ‘ऐतदात्म्यमिदं सर्व’मिति सर्वस्य ब्रह्मात्मत्वप्रतिपादनमित्यादिशब्दैश्च तथाऽवसीयते। एवंचैभिश्शब्दैराकाशस्यापि साधारण्येन ब्रह्मविकारत्वेऽध्यवसिते तस्य विशिष्यापि ब्रह्मणो विभागरूपोत्पत्तिरुक्तैव भवति। यथा लोके ‘सर्व एते देवदत्तस्य पुत्रा’ इति सामान्येनाभिधाय केषांचिद्विशिष्य तत उत्पत्तिवचनेन सर्वेषामपि तत उत्पत्तिरुक्तैव भवति। एवं सति छान्दोग्ये तेजस्सृष्टिप्राथम्यश्रवणं" कथमितिचेत् न खलु ब्रह्मणा तेजः प्रथमं सृष्टमिति श्रुतम्। येन श्रुतिप्राप्तं तत्प्राथम्यं स्यात्। किन्तु तेजस्सृष्टिः प्रथमपठितेति स्थानप्रमाणतस्तत्प्राथम्यं प्राप्नोति। नच स्थान प्रमाणं ‘आकाशस्सम्भूत’ इति सम्भूतश्रुतेरीष्टे। आकाशस्य नित्यत्वसाधको निरवयवत्वहेतुरप्रयोजकः। श्रुत्युदाहृतैकमृत्पिंडारब्धघटशरावादिन्यायेन परिणामवादे निरवयवस्याप्यनित्यत्वोपपत्तेः। न च इह वियत् नास्तीति निषेधस्य व्याहत्या सर्वगतत्वसिद्धिः। तत्र इहप्रत्ययवेद्यस्य निबिडमूर्तद्रव्याभावरूपावकाशपरत्वोपपत्तेः। इह अवकाशे स्थातव्यमित्यादिव्यवहारेषु तस्यापि इहप्रत्ययवेद्यत्वात्। एवं सति ‘वायुश्चान्तरिक्षं चैतदमृत’मिति वियदमृतत्वश्रुतेः का गतिरितिचेत्, वाय्वमृतत्वश्रुतेर्या गतिः सैव। स्पष्टोत्पत्तिकस्य वायोरपि ह्यमृतत्वं श्रूयते। किं बहुना। ब्रह्मव्यतिरिक्तं यद्यावदस्ति अव्यक्तमहदहङ्कारतेजः प्रभृतिकं, तत्सर्वमपि वियद्वायुवदुत्पत्तिमदेव। सर्वविज्ञानप्रतिज्ञाद्यनुरोधात्॥ संग्रहकारिकाः॥ वियन्नित्यं निरंशत्वादमृतत्वस्य च श्रुतेः। सृष्टौ च तेजः प्राथम्याद्गौणी तज्जननश्रुतिः॥ असाधकं निरंशत्वममृतत्वममर्त्यवत्। श्रुतं न तेजःप्राथम्यं बाधः पाठेन कल्पने॥ तस्माज्जनिमदाकाशं मरुच्च महदादिभिः। एवं हि सर्वविज्ञानप्रतिज्ञाद्युपपद्यते॥ इति वियदधिकरणम्॥