10 प्रयोजनवत्त्वाधिकरणम्

न प्रयोजनवत्त्वात्॥32॥ लोकवत्तु लीलाकैवल्यम्॥33॥ वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथाहि दर्शयति॥34॥ नकर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यतेच॥35॥ सर्वधर्मोपपत्तेश्च॥36॥ युक्त्युपोद्बलितश्रुत्या कृत्स्न प्रसक्त्यादिदोषनिराकरणेन ब्रह्मण उपादानत्वसमर्थनेऽपि स्रष्टृत्वसमर्थनं न संभवति। प्रेक्षावत्प्रवृत्तेः" प्रयोजनवत्त्वनियमादित्युत्थानात्संगतिः। पूर्वपक्षस्तु- ब्रह्मणो जगत्सृष्टिस्स्वार्था परार्था वा। नाद्यः। अवाप्तसमस्तकामस्यापेक्षितप्रयोजनाभावाच्च। न च प्रेक्षावतामपि निष्प्रयोजना कंतुकक्रीडादिप्रतीतिर्दृष्टेति शंक्यम्। ततोऽपि क्रीडापराणां तात्कालिकानन्दसत्त्वात्। न च ब्रह्मणो जगत्सृष्टावपि तादृशं प्रयोजनं कल्प्यम्। अवाप्तसमस्तकामत्वश्रुतिविरोधात्। नन्ववाप्तसमस्तकामानामपि राज्ञां कन्तुकक्रीडादिपृवृत्तिर्दृश्यत इति चेत्-न। अवाप्तभोगान्तरप्रयुक्तसकलकामानामप्यनवाप्तकन्तुकक्रीडानन्दार्थमेव तत्र प्रवृत्तेः। न चैवं ब्रह्मणि वक्तुं शक्यम्। किंच स्वप्रयोजनार्थं जीवान् संसारदुःखे निमज्जयतश्च ब्रह्मणो वैषम्यनैर्घृण्ये स्यातां। तल्लीलाचासमञ्जाख्यसगरतनयलीलाकल्पा स्यात्। एतेन परार्थासृष्टिरिति द्वितीयपक्षोऽपि निरस्तः। सृष्टेः पारार्थ्ये हि सर्वान् सुखिन एव सृजेत्। पक्षपातरूपेण वैषम्येण कांश्चित्सुखिनः" कांश्चिदुःखिनश्च न सृजेत्। दुःखिनस्सृजतश्च नैर्घृण्यं प्रसज्यते। न च कर्मक्षपणेन रक्षितुमेव पापिनो दुःखं प्रापयति ब्रह्म, यथा व्रणिनो रक्षितुमेव व्रणदाहच्छेददुःखं वैद्यः प्रापयतीति वाच्यम्। व्रणदाहादिकमकृत्वा व्रणशांति कर्तुमशक्तस्य वैद्यस्य दाहादिदुःखप्रापकत्वेऽपि सर्वशक्तिकस्य ब्रह्मणोदुःखमप्रापय्यापि रक्षितुं शक्तस्य तत्प्रापकत्वायोगात्। न च तत्तत्कर्माण्यपेक्ष्य विषमसृष्टिकर्तुः पक्षपातित्वनैर्घृण्यदोषौ न प्रसज्येतेइति वाच्यम्। ‘सदेव सोम्येदमग्र आसी’दिति ब्रह्ममात्रावशेषत्वेन श्रुतायामाद्यसृष्टौ कर्माभावेन तदानींतनिविषमसृष्ट्या वैषम्यनैर्घ-ण्यप्रसङ्गा निवारणात्। तस्माद्ब्रह्मणो जगत्सृष्टृत्वं न युक्तमिति॥ सिद्धान्तस्तु- सत्यं। प्रयोजनार्थैव प्रेक्षावत्प्रवृत्तिः। इहाप्यस्त्येव सृष्ट्या ब्रह्मणो लीलारूपं प्रयोजनं राज्ञ इव बालस्येव चाक्षद्यूतादिना, ‘क्रीडा हरेरिदं सर्वं क्षरमित्युपधार्यतां। क्रीडतो बालक्स्येव चेष्टास्तस्य निशामये’त्यादि भगवत्पराशरवचनात्। न चैवं सति ब्रह्मणोऽवाप्तसमस्तकामत्वविरोधः। यद्यदेप्सति तत्तदाऽवाप्तुं सामर्थ्यं ह्यवाप्तसमस्तकामत्वं सार्वभौमादिसाधारणं, न तु सर्वदा सर्वकामावाप्तिमत्वम्। शीतोष्णादिकालभेदेन सुरनरतिर्यगा च विषमसृष्ठ्या वैषम्यनैर्घृण्यदोषापत्तिः, ‘पुण्यो वै पुण्येन कर्मणा भवति पापः पापेने’ति श्रुतेः। कर्मविशेषमूलं" जगद्वैषम्यमीश्वरस्तदुत्पत्तौ निमितमात्रं साधारणकारणम्। यथा सस्योत्पत्तौ पर्जन्यस्साधारणकारणम्। तद्भूयोऽल्पत्वव्रीहियवत्वादिवैषम्यं" क्षेत्रबीजादिविशेषकृतमित्यभ्युपगमात्। यथोक्तं भगवता पराशरेण- ‘निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि। प्रधानकारणीभूता यतो वै सृज्यशक्तय’इति। सृज्यशक्तयस्सृज्यकर्माणि। एवं च ब्रह्मणः प्रजानां व्यवहारदर्शने तदीययुक्तायुक्तवचनानुसारेणानुग्रहविशेषं" कुर्वतो राज्ञ इव न निरवद्यत्वहानिः। प्रत्युत विषमकर्मणामेकरूपसृष्टावेव युक्तायुक्तवादिनामेकरूपानुग्रहे व्यवहारद्रष्टुरिव तद्धानिस्स्यात्। न च सृष्टेः प्रागेकत्वावधारणात् तदा जीवानामप्यभावेन तत्कर्मणामभावश्शङ्कनीय इति वाच्यम्। जीवानां तत्कर्मप्रवाहाणाञ्चानादित्वेनैकत्वावधारणस्य पृथग्व्यपदेशार्हविभक्तनामरूपात्मकस्थूलरूपाभावाभिप्रायत्वात्। अतो जीवतत्कर्मणामनादित्वेन सत्वेऽप्यविभाग उपपद्यते। अनादित्वं जीवानां तत्सृष्टिप्रवाहाणाञ्च ‘न जायते म्रियते वा विपश्चित्, सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पय’ दित्यादिश्रुतिषूपलभ्यते। विचित्रसृष्टिप्रवाहानादित्वेनैव तत्कारणविचित्रकर्मप्रवाहानादित्वमप्यवसीयते। तस्माज्जगदुपादानत्वतत्स्रष्टृत्वोपयुक्तानां सर्वेषां धर्माणां ब्रह्मण्युपपत्तेः प्रधानपरमाष्वादिष्वेव उक्तवक्ष्यमाणन्यायैस्तदुनुपपत्तेः" ब्रह्म जगतो मूलकारणामित्येतद्युक्तमेवेति सिद्धम्॥ संग्रहकारिकाः॥ नावाप्तव्यं किमपि फलमस्त्याप्तकामस्य सृष्ठ्या लीलाऽप्येवं जगति वलते नासमञ्जेतराणाम्॥ तत्पारार्थ्ये कथमपि स्रजेन्नैव कस्यापि दुःखं" कर्मापेक्षा परिहृतिरपि व्यापिका नाद्यसृष्टिः॥ राज्ञइव द्यूतकृतिः लीलेयं ब्रह्मणो जगत्सृष्टेः। कर्मापेक्षानियमान्नविषमता नापि नैर्घृण्यम्॥ तच्चास्ति प्रलयेष्वपि संसारभुजामनादित्वात्। श्रुतिषु सदेवेत्यवधृतिरविभागार्हास्तदाऽतइति॥ कारणतानिर्वाहो यैस्स्यात्सर्वेऽपि ते धर्माः। उपपद्यन्ते ब्रह्मणि तद्वैकल्यं प्रधानादौ॥ इति प्रयोजनवत्त्याधिकरणम्॥ इति श्रीमद्भरद्वाजकुपलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजि द्याजिश्रीरङ्गराजाध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ चतुर्मतसारे नयमयूखमालिकाख्ये द्वितीयपरिच्छेदे द्वितीयस्याध्यायस्य प्रथमः पादः॥ ॥श्रीमते हयवदनपरब्रह्मणे नमः॥