09 कृत्स्नप्रसक्त्यधिकरणम्

कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपोवा॥26॥ श्रुतेस्तु शब्दमूलत्वात्॥27॥ आत्मनि चैवं विचित्राश्च हि॥28॥ स्वपक्षदोषाच्च॥29॥ सर्वोपेता च तद्दर्शनात्॥30॥ विकरणत्वान्नेति चेत्तदुक्तम्॥31॥ यदि क्षीरद्दष्टांतेन ब्रह्मणोजगद्भावापत्तिः, तर्हि कार्त्स्न्येन क्षीरस्य दधिभाववत् ब्रह्मणोऽपि कार्त्स्न्येन जगद्भाव आपद्येतेति आक्षेपिकी सङ्गतिः। पूर्वपक्षस्तु- क्षीरं दध्याकारेणेव ब्रह्म कार्त्स्न्येन जगदाकारेण परिणमते, उत अग्निसंयुक्तैकभागोजतुपिंडोमुद्रिकाद्युपयुक्तैकदेशेनेव तत्तत्कार्योपयुक्तैकदेशेन परिणमते। नाद्यः। कृत्स्नस्य जगद्भावापत्त्या ब्रह्मावशेषाभावप्रसङ्गात्। न च सूक्ष्मचिदचित्प्रपञ्चविशिष्टं ब्रह्म कारणं, स्थूलचिदचित्प्रपञ्चविशिष्टं ब्रह्म कार्यामिति पक्षे नब्रह्मानवशेषदोषप्रसङ्गः, कार्यरूपतया ब्रह्मावस्थानादिति वाच्यम्। इदानीं कारणरूपेणापि ब्रह्मणस्सत्त्वस्य वक्तव्यत्वात्। अन्यथा कारणस्य ब्रह्मणस्सार्वदिकसत्ताबोधकानां तत्साक्षात्कारोपायविद्याविधायकानांच वाक्यानामानर्थक्यप्रसङ्गात्। सर्वोपादानस्य ब्रह्मणश्चिदचिद्रूपविशेषणांशेऽपि कारणत्वस्य वक्तव्यतया तत्र कृत्स्नस्य ब्रह्मण एककार्यात्मना परिणामे कार्यान्तरात्मना परिणामः" कारणब्रह्मावशेषश्च न स्यादिति दूषणस्य वज्रलेपायमानत्वाच्च। तस्मादाद्यः पक्षो न युक्तः। नापि द्वितीयः। निरवयवस्यैंकदेशेन परिणामायोगात् सावयवत्वमिष्यतामिति चेन्न। ‘निष्कलं निष्क्रियं शांत’मित्यादिनिरवयवत्व श्रुतिव्याकोपप्रसङ्गात्। तस्माद्ब्रह्म जगदुपादानमित्येतन्नयुक्तमिति॥ सिद्धांतस्तु- नैवं शङ्कावकाशोऽस्ति। निरवयवमेव ब्रह्म जगदाकारेण परिणमते। स्वयञ्च यथापूर्वं परिपूर्णमवतिष्ठत इति श्रुत्यैव मुखतः प्रतिपादनात्। न च श्रुतिप्रतिपन्नोऽर्थः कुतर्केणोपनयमर्हति। ‘नैषा तर्केण मतिरापनेये’ति श्रुतिः। ननु श्रुतिरपि ग्रावप्लवनादिवत् प्रमाणांतरविरुद्धं" प्रतिपादयितुं नशक्तोतीति चेत्, न। ब्रह्मणश्शब्दैकबोध्यत्वेन तद्वैलक्षण्यात्। प्रत्यक्षादियोग्येह्यर्थे तद्विरुद्धं श्रुतिरपि न बोधयति। श्रुत्येकगम्यस्त्वर्थो यथा श्रुत्येव सिध्यति। न तु तद्विषयत्वायोग्येन प्रमाणांतरेण बाधितुं शक्यम्। न हि रूपसाधनाक्षमस्य श्रोत्रस्य तद्बाधकत्वमस्ति। किंच जीवात्मन्यचिद्धर्मविलक्षणाः कर्तृत्वभोक्तृत्वादयोऽभ्युपेयन्ते। एवं परमात्मनि चिदचिद्धर्मविलक्षणा धर्माः कुतो न स्युः। लोकेऽग्निजलादयोऽपि औष्ण्यशैत्यादिभिर्विचित्रा दृश्यन्ते। न खलु ते परस्परदृष्टांतेन परस्परविलक्षणधर्मशून्यास्स्वीक्रियन्ते। न च ‘जातिर्व्यक्तौ नांशेन वर्तते निरवयवत्वात्। नापि परिसमाप्य वर्तते। व्यक्त्यन्तरे तदभावप्रसङ्गा’दिति कृत्स्नैकदेशवृत्तिविकल्पेन जातेर्व्यक्तौ वृत्तिर्निराक्रियते। स्वपक्षे च सांख्यस्य तुल्यमिदं दोषापादनम्, निरवयवं प्रधानं कथमिव महदादिविचित्रकार्यारम्भकमिति। सत्वरजस्तमांसि तस्यावयवास्सन्तीति चेन्न। प्रधानातिरिक्तानां तेषां तदवयवानमभ्युपगमे तत्त्वानां चतुर्विंशतिसंख्याविरोधात्, तेषामपि कृत्स्नैकदेशविकल्पेन महदहङ्काराद्यारम्भकत्वायोगाच्च। परमाण्वादिकारणवादिनामपि कृत्स्नैकदेशसंयोगादिविकल्पैर्द्व्यणुकाद्यारंभायोगाच्च। तस्मात् कल्प्यमपि प्रधानं कृत्स्नैकदेशवृत्तिविकल्पागोचरं मन्यमानस्य श्रुतिसिद्धे ब्रह्मणि का तद्गोचरत्वप्रत्याशा।किञ्च श्रुतिवशादिव सर्वशक्त्युपेतत्वादपि ब्रह्मणो निरवयवस्यापि विचित्रजगदाकारेण परिणामो घटते। सर्वशक्त्युपेतं हि ब्रह्म। ‘परऽस्य शक्तिर्विविधैव श्रूयत’ इत्यादिदर्शनात्। अल्पशक्तिमतामपि प्रपञ्चान्तर्गत चिदचितामतर्कणीया विविधा वैचित्री दृश्यते। सर्वशक्तिमतस्सा कथं न भवेत्। ननु शक्तिमतामपि करणकलेबरापेक्ष एव शक्त्युन्मेषो दृष्टः। अतस्तदनपेक्षं सदपि सर्वशक्तिमत्त्वमध्ययनानपेक्षं धीशक्तिमत्त्वामिवाप्रयोजकमिति चेत्- अत्रोत्तरमुक्तमेव। शब्दैकप्रमाणकं वस्तु यताशब्दमेव ग्राह्यम्। न तु लोकदृष्टकारणविरहेण प्रत्याख्यातुं शक्यम्। तथैव च श्रुत्तिः- ‘अपाणिपादो जवनो गृहीता पश्यत्यचक्षुस्सश्रृणोत्यकर्णः। न तस्य कार्यं करणंच विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते। परास्यशक्तिर्विवधैव श्रूयते स्वाभाविकी ज्ञानबलक्रियाचे’ति। अतश्श्रुत्या श्रुतिदर्शितयुक्त्युपोद्बलितया निरवयवमपि ब्रह्म जगदाकारेण परिणमते, तथैव परिपूर्णमतिष्ठते चेति युक्तमेव॥ संग्रहकारिके॥ कृत्स्नं यदि परिणमते ब्रह्म तदा नावशिष्येत। नांशेन निरंशत्वाद्विशिष्टपक्षेऽपि तुल्यमिदम्॥ एतादृशाः प्रधाने परमाण्वादौ च दोषास्स्युः। न ब्रह्मणि श्रुतिशतप्रतिपन्ने विविधशक्तियुते॥ इति कृत्स्नप्रसक्त्याधिकरणम्॥