उपसंहारदर्शनान्नेतिचेन्नक्षीरवद्धि॥24॥ देवादिवदपि लोके॥25॥ सत्यसङ्कल्पत्वादिभेदनिर्देशादनन्यत्वश्रुतयस्संत्वपृथग्भावमात्रविषयाः। नैवं सत्यसङ्कलप्पत्वेऽपि सर्वशक्तिमत्त्वेऽपि सहकारिसाहितस्य ब्रह्मणो जगदुपादानत्वतत्स्रष्टृत्वश्रुतयस्समर्थयितुंशक्यन्ते। शक्तस्यापि सहकारिरहितस्याकार्यकरत्वादित्युत्थानादवांतरसङ्गतिः। पूर्वपक्षश्च- ‘सदेव सोम्येदमग्र आसी’दित्यवधारणेन प्राक्त्सृष्टेस्सर्वसहकारिशून्यं खलु ब्रह्म श्रूयते। तत्कथं जगत्कारणभावमश्नुवीत। न च सर्वशक्तिकत्वेन कश्चिद्विशेषः। घटाद्युत्पादनशक्तएव हि कुलालादिस्सहकारिणः अपेक्ष्यैव घटादिकमुत्पादयति। एवं ब्रह्मापि सर्वकार्योत्पादनशक्तञ्चेत्, तत्तत्कार्योचितानि सहकारीण्यपेक्ष्यैव तानि तानि कार्याणि जनयेत्। न हि कुलालो घटोत्पादनशक्तइति सहकार्यनपेक्षः तमुत्पादयति। अशक्तस्सहकारिषु सत्स्वपि न तमुत्पादयतीत्येव शक्तस्याशक्ताद्विशेषः। तस्मात् सहकारिरहितं ब्रह्म न कारणं भवितुमर्हतीति पूर्वःपक्षः। राद्धान्तस्तु- ब्रह्मणस्सहकारिराहित्येऽपि क्षीरस्य दधिभावापत्तिवत् देवर्षिप्रभृतीनां स्वस्वभोगसाधनस्रष्ट़ृत्ववत् जगदुपादानत्वं तत्स्रष्टृत्ववञ्च उपपद्यते। न च क्षीरस्य दधिभावापत्तौ पाकातंचने सहकारिणी स्तः। न च ब्रह्मणो जगदुपादानत्वे किञ्चित्सहकार्यस्ति। देवादीनाञ्च योगप्रभावासादितैश्वर्यतया भूतवशिनां स्वसङ्कल्पाकृष्टैर्भूतैस्स्रष्टृत्वमुपपद्यते। न तथेश्वरस्य नित्यसिद्धस्य भूतवशितापादको योगप्रभावोऽस्तीतिचेत्- मैवं। विनापि पाकातंचनाभ्यां चिरेण दधिभावो भवत्येव। अचिरेण दधिभावापत्त्यर्थं रसविशेषार्थञ्च तयोरपेक्षा। योगाभ्यासादैश्वर्यावाप्तिश्च श्वेताश्वतरोपनिषदादिमन्त्रार्थवादेभ्योऽवगन्तव्या। ब्रह्मणोऽपि सङ्कल्पमात्रेण स्रष्टृत्वे मन्त्रार्थवादास्संतीति न कश्चिद्विशेषः। किंच सर्वस्यापि सङ्कल्पमात्रेण स्वशरीरव्यापारयितृत्वं दृष्टम्। कृत्स्नञ्जगत् ब्रह्मणश्शरीरमिति तस्य जगद्व्यापारे न काचिदनुपपत्तिः॥ संग्रहकारिका॥ अग्रे सदेकं सहकारिशून्यं कथं ह्युपादानतया जगत्स्यात्। सङ्कल्पमात्रेण कथं च कुर्यात् क्षीरादिदेवादिवदित्यवेहि॥ इति उपसंहारदर्शनाधिकरणम्॥