07 इतरव्यपदेशाधिकरणम्

इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः॥21॥ अधिकन्तु भेदनिर्देशात्॥22॥ अश्मादिवच्च तदनुपपत्तिः॥23॥ ब्रह्मणस्स्वानन्यजगत्स्रष्टृत्वे तस्य हिताकरणादयो दोषास्स्युरित्याक्षेपिकी संगतिः पर्वपक्षश्च- न च प्रसाधितेन मृत्पिंडघटशरावादिदृष्टांतेन ब्रह्मणस्सूक्ष्मचिदचित्प्रपञ्चविशिष्टरूपेण कारणत्वं, स्थूलचिदचित्प्रपञ्चरूपेण कार्यत्वमिति ब्रह्मण एव कार्यकारणभावेनानन्यत्वमुच्यते, न तु ब्रह्मजगतोरिति वाच्यम्। ब्रह्मणस्सर्वकारणस्य स्वविशेषणे चिदचिदात्मके जगद्रूपकार्येऽपि कारणत्वस्यावश्यवक्तव्यत्वात्। ततश्च ब्रह्मणस्तेनाप्यनन्यत्वं वाच्यमिति सर्वज्ञं सर्वशक्तिकं ब्रह्म स्वाभिन्नत्वेन जीवं पश्यदपि तस्य हितरूपं जगन्नसृजति, अहितरूपमेव जगत्सृजतीति स्वस्यैव हिताकरणादिदोषः प्रसज्यते। अतस्स्वस्मादनन्यदेव जगद्ब्रह्म सृजतीत्येतन्नयुक्तमिति। राद्धान्तस्तु- जीवादधिकं ब्रह्म ततो भिन्नमेव। ‘सत्यकामस्सत्यसङ्कल्पः, ज्ञाज्ञौ द्वावजावीशनीशौ, सकारणं करणाधिपाधिपः, अस्मान्मायी सृजते विश्वमेत तस्मिंश्चान्यो मायया सन्निरुद्धः’ इत्यादि भेदनिर्देशात्। अनन्यत्वश्रुतयस्तु अपृथग्भावविषयाः। पृथग्भूतप्रकारो हि ब्रह्मणश्चिदचिदात्मकप्रपञ्चः। ‘सदेवे’ त्यादिश्रुतौ अग्रे ‘इदं सर्वंसदेवासी’दिति सामानाधिकरण्यनिर्देशेन जगतस्सूक्ष्मतादशायां सच्छब्दनिर्दिष्टब्रह्मविशेषणत्वस्य ‘तदैक्षत बहु स्यां प्रजायेये’ति ब्रह्मणे बहुभवनसङ्कल्पाद्युक्त्या। स्थूलतादशायां तद्विशेषणत्वस्य च प्रतिपादनेन जगतः कदापि ब्रह्मपृथग्भावो नास्तीत्यवगमात् मृद्घटशरावादिरप्यपृथग्भावरूप एवानन्यत्वे दृष्टान्तः। स्वाभिन्नात् स्वस्य कदापि पृथग्भावासंभवात्। न चानन्यत्वश्रुतयाः ‘सर्वं खल्विदं ब्रह्म तत्त्वमसी’त्याद्यावा मुख्याभेदविषयाः, भेदश्रुतयस्तु तत्तद्विशेषणभेदादौपचारिकभेदविषया इत्यस्त्विति वाच्यम्। तथासीत प्रसक्तहिताकरणादिदोषस्यैव परिहारालाभादश्मकाष्ठलोष्टादिवदस्यन्तहेयगुणानां जीवानां निर्दोषकल्याणगुणैकतानब्रह्माभेदासंभवाच्च। तस्मात् ‘अवस्थितेरितिकाशकृत्स्न’इत्यादि सूत्रोक्तप्रकारेमानन्यत्वश्रुतय एवापृथग्भूतप्रकारप्रकारिभावविषया इत्येव युक्तमिति॥ संग्रहकारिका॥ एवं जीवा अपि नियमतस्तत्वमस्यादिवाक्या द्ब्रह्माभिन्ना इति तदहितां नैव कुर्वीत सृष्टिम्। मैवं वाक्यं न तदभिदया भेदनिर्देशदृष्टे- स्तत्स्थत्वेनत्वितिहिकथितः काशकृत्स्नीयपक्षः॥ इति इतरव्यपदेशाधिकरणम्॥