तदनन्यत्वमारम्भणशब्दादिभ्यः॥ भावेचोपलब्धेः॥ सत्वाच्चापरस्य॥ असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषाद्युक्तेश्शब्दान्तराच्च॥ पटवच्च॥ यथा च प्राणादिः॥ विलक्षणत्वाधिकरणे कारणात् ब्रह्मणः कार्यस्य जगतो वैलक्षण्येऽप्यनन्यत्वं ‘असदिति चेन्न प्रतिषेधमात्रत्वा’ दिति गुणसूत्रोक्तं" कुण्डलहिरण्यन्यायेन सांख्यंप्रत्युपपादितम्। इदानीं वैलक्षण्ये सत्यनन्यत्वमयुक्तम्। वैलक्षण्यस्य भेदव्याप्तत्वात्। अत एव कुण्डलहिरण्ययोरप्यनन्यत्वमसिद्धम्। सर्वत्र कार्यकारणयोर्बुद्धिशब्दान्तरादिभिर्भेदावश्यम्भावादिति वदतो वैशेषिकस्य मतमास्थायानन्यत्वमाक्षिप्य समाधीयत इति सङ्गतिः। तत्रैवं पूर्वपक्षः- अनन्यत्वे ब्रह्मणो जगत्कारणत्वं न संभवति। लोके कार्यकारणभूतानां घटमृत्पिण्डादीनां बुद्धिशब्दान्तरादिभिः" कार्यकारणभावस्य भेदव्याप्तिनिर्धारणात्। नहि मृत्पिंडे पिंडशब्दो वा घटे वा पिंडाकारा बुद्धिरुदेति। न च घटशब्दो मृत्पिंडे पिंडशब्दो वा घटे प्रयुज्यते। न च पिंडाकारो घटे पृथुबुध्नोदराकारो मृत्पिंडेवाऽस्ति। न च मृत्पिंडेनोदकाहरणं घटेन वा कुड्यनिर्माणं क्रियते। न च तंतुष्विव पटे बहुत्वं पटइव तंतुष्वेकत्वं वाऽस्ति। न च घटस्येव मृत्पिंडस्य दण्डचक्रादि कारणम्, मृत्पिंडस्येव घटस्य जलसंयोजनपूर्वकमर्दनं" वा कारणं भवति। न चोत्तरकाले मृत्पिंडः पूर्वकाले घटोवाऽस्ति। न च पूर्वकाले घटादिदर्शनमुत्तरकाले मृत्पिंडदर्शनं वाऽस्ति। तस्माद्बुद्धिशब्दादिभेदात् कार्यकारणयोर्भेद एष्टव्यः। एकस्मिन्नेव शरीरे बाल्ययौवनाद्यवस्थाभेदेनेव एकस्मिन्नेव मृद्द्रव्ये पिंड घटावस्थाभेदेन बुद्धिशब्दान्तरादय उपपद्यन्त इति चेत् न । अवस्थानामनित्यतायामसत्कार्यवादापत्तेः, अनित्यानामवस्थानां प्राक्सता कारणेनानन्यत्वासम्भवात् कार्यकारणानन्यत्वसिद्धांतभङ्गापत्तेश्च। तासामपि नित्यातायां बुद्धिशब्दान्तरादिव्यवस्थित्यसम्भवात् दण्डचक्रादिकारणकलापवैयर्थ्यप्रसङ्गाच्च। ननु मृदः पिण्डतादशायामनभिव्यक्ता घटावस्था, अभिव्यक्तैव सा बुद्धिशब्दान्तरादिभाजनं, अभिव्यक्त्यर्थश्च दण्डचक्रादि कारणकलापः। न च तथा सति मृत्पिण्डगतघटावस्थाभिव्यक्त्यर्थेन दण्डचक्रादिव्यापारेण तद्गतकरककपालमणिकमल्लकाद्यवस्थानामप्यपवरकगतघटाभिव्यक्त्यर्थमारोपितेन प्रदीपन तद्गतकरकादीनामिवाभिव्यक्तिप्रसङ्गः। नैल्योत्पलत्वयोः प्रदीपप्रभयोत्पलत्वस्यैवाभिव्यक्तिः। कूपजलस्य कूपान्तरस्थितिसमये जलत्वशौक्ल्ययोर्जलत्वस्यैवाभिव्यक्तिरित्यादिव्यवस्थादर्शनेन तद्वदिहापि यथा दर्शनमभिव्यङ्ग्याभिव्यञ्जकभाववैचित्र्योपपत्तेरिति चेत्- मैवम्। अभिव्यक्तावपि नित्यत्वानित्यत्वविकल्पे पूर्वोक्तदोषानातिप्रसक्तेः।किंच केयमभिव्यक्तिः, ज्ञानं चेत्, तदा दण्डचक्रादिमेलनस्य घटज्ञानकारणत्वापत्त्या तस्मिन्नसति क्वचिदपि घटज्ढानोदयो न स्यात्। आवरणाभिभवश्चेत् तेन किमावरणमभिभूयते? पूर्वं मृदिस्थिता पिंडावस्थेति चेत्-न। तथा सति घटध्वंसकमुद्गरपातानंतरमपि घटावस्थायाः प्रतीतिप्रसङ्गः। तदावरणभूतायाः पिण्डावस्थायास्तिरोहितत्वात्। ननु तदानीं मुद्गरपाताभिव्यक्ता कपालावस्था तदावरणं, स्वकारणाभिव्यक्तायाः कस्याश्चित् कार्यावस्थायाः तद्गतसकलकार्यावस्थांतरावरणत्वाभ्युपगमात्। न च तथा सति कपालेषु कदाचित् घटकारणमेलने घटावस्थाभिव्यक्तिप्रसङ्गः। इष्टापत्तेः। कपालानि चूर्णीकृत्य जलमृदन्तरसंयोजनमर्दनव्यापारैर्मार्दवं" प्रापय्य दण्डचक्रादिमेलने घटाभिव्यक्तिदर्शनात्। न च दग्धपटकारणानां पुनः पटभावो न दृश्यत इति शङ्कनीयम्। तद्भस्मनां क्षितितलपतितानां तत्क्षितिप्ररूढकार्पासतरुफलपरिणतौ क्रमेण तेषां पटभावाभिव्यक्तिदर्शनादितिचेत् मैवं। एवं घटाद्यवस्थानां" पिण्डाद्यवस्थास्वपि सद्भावस्य तदानीं तदप्रतीत्यर्थं प्रतीयमानपिंडाद्यवस्थानां तदावरणत्वस्य च कल्पने कल्पकाभावात् यथानुभवमवस्थानामागन्तुकत्वेन व्यवस्थित्युपपत्तेः। अन्यथा कदाचित् कस्याश्चितेवावस्थाया अनुभवः, नावस्थान्तराणामित्यनुभवाननुभवव्यवस्थाया अप्यनुपपत्तेः। न ह्यभिव्यक्तिरनुभवस्वयंवरलभ्यः, येन दंडचक्रादिसमवधानात्पूर्वं पिंडावस्थाया एवानुभवः, तदनन्तरं घटावस्थायाएव। ततो मुद्गरपातानन्तरं" कपालावस्थाया एवेत्यादिव्यवस्था सिध्येत्। न च जलसंयोजनमृण्म़ृदुकरणादिकं दण्डचक्रादिकं मुद्गरपातनादिकञ्च पिंडघटकपालावस्थानामनुभवेषु वा तत्तदितरावस्थानामननुभवेषु वा करणानीत्युक्त्या तथा व्यवस्थानिर्वाहः। उदाहृततत्तत्कारणसमवधानेष्वतीतेष्वपि पिंडाद्यवस्थानामनुभवस्य तत्तत्प्रतिद्वंद्विव्यवस्थानामननुभवस्यचानुवृत्तिसत्त्वात्। तस्माद्यथानुभवं पूर्वं पिंडावस्थैव, मध्ये घटावस्थैव, ततःकपालावस्थैवेति व्यवस्थैवाङ्गीकर्तुं युक्ता। तथा सत्यवस्थानामागन्तुकत्वेनासत्कार्यवादः प्रसज्यत इति तत्परिहारार्थमिदंकल्प्यत इति चेत्, किमभिव्यक्तीनामागन्तुकत्वे स न प्रसज्यते, अभिव्यक्तीनामपि नित्यत्वे तु कथमपि त्वदुक्तव्यवस्थासिद्धिः। एवमवस्थानां तत्तदभिव्यक्तीनां वाऽऽगन्तुकत्वेवासत्कार्यवादस्य अप्रतिक्षेप्यत्वस्थितौ द्रव्यमात्रे सत्कार्यवादाभ्युपगमस्य निष्प्रयोजनत्वात्। कुलालेन घटः कृतः, कलादेन कुण्डलं कृतमिति कर्तृकार्ययोरिव मृत्पिण्डेन घटः कृतः सुवर्णेन कुण्डलं कृतमिति समवायिकारणतत्समवेतकार्ययोरप्यबाधित भेदव्यवहारदर्शनात् कार्यकारणयोरवस्थाभेदवद्द्रव्यभेद उपगन्तुं युक्तः। ‘मृद्धटस्सुवर्णं कुण्डल’ मित्यभेदव्यवहारेण भेदव्यवहारो बाधित इति चेत् न। मृत्त्वसुवर्णत्वयोरवयवावयविवृत्तिजातित्वेन तथा व्यवहारोपपत्त्या तेन भेदव्यवहारबाधनायोगात्। अत एव यत्रावयववृत्तिस्तन्तुत्वादिजातिर्नावयविपटादिवृत्तिः, न तत्र तन्तयः" पट इत्यादिव्यवहारः। तस्मात् सहावस्थाभिः कार्यकारणद्रव्ययोर्भेद एव युक्त इति लोके कार्यकारणभेदनियमदर्शनात् जगद्ब्रह्मणोरनन्यत्वे ब्रह्मणोजगत्कारणत्वासम्भवात् जगत्कारणे ब्रह्मणि समन्वय इत्येतन्नघटत इति एवंप्राप्ते सिद्धांतः- तदनन्यत्वं परमकारणाद्ब्रह्मणोऽनन्यत्वमेव। जगतः तदुपपादयद्भ्य आरम्भणशब्दादिभ्यः। तथा च छान्दोग्ये- ‘श्वेतकेतुर्हारुणेय आस तं ह पितोवाचे’ति प्रस्तुत्य ‘श्वेतकेतो वस ब्रह्मचर्यं न व सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवती’ति पित्रा नियुक्तस्य तस्य गुरुकुलवासं प्रतिनिवृत्तिञ्च ‘सहद्वादशवर्ष उपेत्य चतुर्विंशतिवर्षः पुनरेयाये’त्युक्त्वा तस्य वेदाभ्यासमूलमवलेपं" पश्यतातमवलेपमपनीयतस्याब्रह्मजिज्ञासामुत्पिपादयिषता पित्रा स इत्थं पृष्ट इत्युक्तम्। ‘स्तब्धोस्युत तमादेशमप्राक्ष्यो येनाश्रुतं" श्रुतं भवत्यमतं मतमविज्ञातं विज्ञात’मिति। येन श्रुतेन मतेन विज्ञातेन चेत्यर्थः। ‘आत्मनि खल्वरे दृष्टे श्रुते मतेविज्ञाते इदं सर्वं विदितं भवती’ति श्रुत्यन्तरात्। एवं कृत्स्नस्य जगतो ब्रह्मैककारणकत्वं कारणात् कार्यस्यानन्यत्वं च हृदि निधाय ब्रह्मविज्ञानेन सर्वविज्ञाने प्रतिज्ञाते सति तदभिप्रायमजानता पुत्रेण कथमन्यविज्ञानेनान्यद्विज्ञातं भवतीति मन्यमानेन ‘कथन्नुभगवस्स आदेश’ इति पृष्टे पिता स्वप्रतिज्ढातमर्थमुपपादयितुं कारणात् कार्यस्यानन्यत्वे लौकिकृष्टान्तमुवाचेति वर्णितम्- ‘यथा सोम्यैकेन मृत्पिंडेन सर्वं मृण्मयं विज्ञातं स्या’दिति । यथा एकमृत्पिण़्डारब्धघटशरावाद यस्तदनतिरिक्तद्रव्यत्वात् तज्ज्ञानेन ज्ञाता भवन्तीत्यर्थः। अत्र वैशेषिकप्रक्रियया कारणात्कार्यस्य बुद्धिशब्दान्तरादिभिर्द्रव्यान्तरत्वमाशंक्य लोकप्रतीत्यैव कार्यकारणानन्यत्वमुपपादयितुं" वाक्यशेषः ‘वाचारंभणं विकारो नामधेयं मृत्तिकेत्येव सत्य’मिति। अस्यार्थः- आरभ्यते आलभ्यते स्पृश्यत इत्यारम्भणम्। ‘यत्पर्यपश्यत्सरिरस्य मध्य’ इतिवत् रलयोरभेदाद्रेफः। आलम्भ इह स्पर्शः। ‘आलम्भस्स्पर्शहिंसयो’रिति हि कोशकाराः। ‘कृत्यल्युटो बहुल’मिति कर्मणि ल्युट्। वाचा- ‘घटेनोदकमाहरे’त्यादिवाक्पूर्वकोदकाहरणादिव्यवहारेण हेतुनेत्यर्थः। वाक्पदेनाजहल्लक्षणया व्यवहारस्यापि संग्रहः। वाचेति हेतौ तृतीया, अध्ययनेन हेतुना वसतीतिवत् प्रयोजनस्य हेतुत्वविक्षया प्रयोजनार्था। वाक्पूर्वकव्यवहारसिद्ध्यर्थं मृद्द्रव्येणैव पृथुबुध्नोदरत्वादिविकारस्संस्थानविशेषः ततप्रयुक्तञ्च घट इति नामधेयं स्पृश्यते। ‘नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्या’मिति विकारनामधेयोभयवर्तिन आरम्भणशब्दस्य नपुंसकशेषतैकवचनञ्च। उदकाहरणादिव्यवहारविशेषसिध्यर्थं मृद्द्रव्यमेवावस्थांतरनामधेयांरभाग्भवति। अतो घटाद्यपि मृत्तिकेत्येव सत्यं प्रामाणिकं न तु द्रव्यांतरत्वेनेति। ‘आरम्भणशब्दादिभ्य’ इत्यादिशब्देन ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं, तदैक्षतबहुस्यांप्रजायेयेती’त्यादयः कार्यकारणयोर्जगद्ब्रह्मणोरननयत्वप्रतिपादकाश्शब्दागृह्यंते। एवञ्च यद्यपि बालस्थविररीत्या बुद्धिशब्दान्तरादयोऽवस्थाभेदेनेव घटरुचकादिरीत्या द्रव्यभेदेनाप्युपपद्यन्ते। द्रव्यभेद एव चात्यन्तसामञ्जस्यम्। तथाऽपि कार्यकारणानन्यत्वे मृद्घटादिकं दृष्टां तयंत्या श्रुत्याऽवस्थाभेद एव दर्शित इति अवस्थाभेदकृता एव बुद्धिशब्दान्तरादय इत्युररीकरणीयम्। न चावस्थानामागन्तुकतायामसत्कार्यवादापत्तिर्दोषः। सत एव द्रव्यस्योत्पत्तिर्हि सत्कार्यवादः, न त्ववस्थानामप्यनागन्तुकत्वं। न च प्रागपि सतो द्रव्यस्योत्पत्त्यनुपपत्तिः। न ह्यभूत्वा भवनुमुत्पत्तिरित्यभ्युपेयते। किं त्ववस्थान्तरोत्पत्तिरुत्पत्तिः, पूर्वावस्थाप्रहाणं नाश इति। एवं च एकमृत्पिण़्डारब्धेषु घटशरावादिष्वेकत्वावस्थाप्रहाणेनानेकत्वावस्थापत्तिः। सांद्रतंत्वारब्धे पटे अनेकत्वावस्थाप्रहाणेनैकत्वावस्थापत्तिः। अतो विरलतंत्वारब्धे पटे पटगतैकत्वावस्थापत्तावपि न तन्तुसतस्तन्तुत्वस्येवाऽनेकत्वस्यापि न ग्रहाणम्। किन्तु तन्तुत्वावच्छेदेनानेकत्वानुवृत्तिः, पटत्वावच्छेदेनैकत्वापत्तिरित्यादयोपि विशेषा यथादर्शनमनुसन्धेयाः। ननु ‘मृत्तिकेत्येवसत्य’मित्य श्रुत्या घटशरावादिकं मृत्तिकेत्येव प्रामाणिकम्, न तु द्रव्यांतरत्वेनेत्येवमर्थया कार्यकारणद्रव्यानन्यत्वे प्रमाणांतरमप्यादर्शितमिति व्याख्यातम्, तत् किं प्रमाणान्तरमिति चेत्-प्रत्यभिज्ञाप्रत्यक्षमिति ब्रूमः। मृत्पिण्डावस्थासद्भावेपि हि घटशरावादिद्रव्यसद्भावः प्रत्यभिज्ञाप्रत्यक्षेणोपलभ्यते। इदं घटशरावादिकं सर्वं पूर्वाह्ने मृत्पिण्ड एवासीदिति पूर्वाह्नस्थित एक एव मृत्कूटः एतावद्घटशरावादिरूप आसीदिति च प्रत्यभिज्ञा दृश्यते। नन्विदं घटशरावादिकं सर्वं पूर्वाह्ने नासीदित्यपि लोके व्यवहारो दृश्यते। श्रुतावपि ‘असदेवेदमग्र आसी’दिति प्राग्जगदसत्त्वं व्यपदिश्यते। कथं प्रत्यक्षश्रुतिभ्यां लोकवेदयोः कार्यकारणानन्यत्वव्यवस्थासिद्धिरिति चेत उच्यते- पृथुबुध्नोदरादिस्थूलत्वविरोधिसूक्ष्मत्वं यद्धर्मान्तरं ततोऽयमसद्व्यपदेशः। न तु प्राक्सर्वथैवाभावात्। कुतः श्रुतौ वाक्यशेषात् ‘इदं वा अग्रेनैव किंच नासी’दित्यत्र हि ‘तदसदेव सन्मनोऽकुरुत स्या’मितीत्यसतो मनस्काराख्यमानससङ्कल्पप्रतिपादको वाक्यशेषश्श्रूयते। लोकेऽपि तत एवासद्व्यपदेश इति युक्तितोऽवगम्यते। न हि सर्वत्र तत्तद्विरोधिधर्मव्यतिरेकेणाभावोनाम कश्चिदस्ति। कल्पनीयाभाववत् तद्विरोधनः क्लृप्तभावरूपधर्मांतरस्यैवाभावव्यवहारालंबनतोपपत्तावतिरिक्ताभावकल्पने गौरवात्। लोकवेदयोरसद्व्यपदेशप्रतिद्वंद्विनश्शब्दान्तराच्च ‘सदेव सोम्येदमग्र आसीत्’ ‘इदं घटशरावादिकं पूर्वाण्हे मृदेवासी’दित्येवंरूपात्तथाऽवगम्यते। असद्व्यपदेशात् सद्व्यपदेशस्य कार्यकारणानन्यत्वपर्यवसायिनो युक्तिसाहित्येन बलवत्तवात्। युक्तिर्हि विरोधिभावधर्मव्यतिरेकेणाभावनामकं वस्त्वन्तरं न कल्पनीयमिति प्रागुपन्यस्ता। यथा तन्तव एव व्यतिषक्ततन्तुव्यतिरेकेण पटनामकमवयविद्रव्यान्तमस्ति। तस्य रूपादिराहित्ये चाक्षुषतवाद्यभावप्रसंगात्। रूपान्तरादिमत्त्वेऽवयवरूपव्यतिरेकेण अवयविनि रूपान्तरस्य गुरुत्वद्वैगुण्यस्य चोपलब्धिप्रसंगात्। एवं व्यतिषक्तन्तूनामेवपटभाववत् एकस्यैव वायोश्शरीरे वृत्तिविशेषेण प्राणापानादिभाववच्च ब्रह्मण एव विचित्रचराचररूपजगद्भावोपपत्तेर्न वस्तुभेदः कल्पनीय इत्यनयापि युक्त्या सद्व्यपदेशेभ्योबलवत्त्वमवधारणीयम्। एवञ्च ‘सुवर्णेन कुण्डलं कृत’ मित्यादिव्यवहारोप्यवस्थाभेदकृतेनैव कार्यकारणभावेन उपपादनीयः। अन्यथा कुण्डलाय सुवर्णे तोलयित्वार्पिते सुवर्णकारेण कुण़्डलं कृत्वा द्विगुणगुरुत्वेन तोलयित्वा प्रत्यर्पणीयत्वप्रसंगात्। तस्मान्मृत्पिण्डघटशारावादीनामनुन्यत्वात् तद्दृष्टां तेन ब्रह्मजगतोरप्युपादानोपादेयभूतयोरनन्यत्वमिति॥ संग्रहकारिका॥ कार्याणां बुद्धिशब्दाकृतिफलगणनाहेतुकालादिभेदा- द्भिन्नत्वंकारणेभ्यस्स्थिरमिति न दशाभेदतस्स्यात्स भेदः। एकस्यैव ह्यनेका समुदयति दशा हेतुभिः कालभेदात् सत्वासत्वादिरूपात्तदिदमपि जगद्ब्रह्मणोऽनन्यदेव॥ इति आरम्भणाधिकरणम्॥