05 भोक्त्रापत्त्यधिकरणम्

॥भोक्रापत्तेरविभागश्चेत्स्याल्लोकवत्॥ पूर्वाधिकरणस्यातिदेशाधिकरणत्वात् तद्विहाय तन्मूलाधिकरणेन सङ्गतमिदमधिकरणम्। तत्र हि ‘न तु दृष्टान्तभावा’दिति सूत्रेण शरीरगतबालत्वयुवत्वादीनां" शरीरिण्यप्रसङ्गं दृष्टान्तीकृत्य चिदचिच्छरीरकं ब्रह्मेति तद्गतदोषाणां ब्रह्मण्यप्रसक्तिरुक्ता। साऽनुपपन्ना। जीववच्छरीरित्वे तत्कृत सूखदुःखभोगप्रसक्तेरित्याक्षिप्यते। प्रथमेऽध्याये ‘सम्भोगप्राप्तिरिति चेन्न वैशेष्या’दिति सूत्रेण परस्यास्मदादिशरीरानुप्रवेशप्रयुक्ता सुखदुःखभोगप्रसक्तिर्निराकृता। यथा परगृहप्रविष्टस्यागृहस्वामिनो गृहसाकल्यवैकल्यप्रयुक्तहर्षविषादभाक्त्वं नास्ति एवं परस्यापीति। इह पुनः शरीरस्वामित्व प्रयुक्ता सा निराक्रियते। ‘न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ती’ति श्रवणात् शरीरस्वामित्वे तत्कृतसुखदुःखभोगो न निवारयितुं शक्य इति पूर्वः पक्षः। सिद्धान्तस्तु- यथाऽपराधिनमपराधानुगुणं क्लेशयितुं तदर्थं कारागृहं निर्माय तत्क्लेशनार्थं स्वयमपि तत्र प्रविष्टस्य स्वतन्त्रस्य तत्कृतक्लेशभाक्त्वं" न भवति, एवं परस्यापि। ‘नहवै सशरीरस्ये’त्यादिश्रुतिरपि स्वकर्मोपार्जितशरीरविषया। न तु शरीरस्वामिमात्रविषया। अन्तर्यामिब्राह्मणो- ‘यस्य पृथिवी शरीर’मित्यादिना परस्य पृथिव्यादिशरीरस्वामित्वमुक्त्वा तत्तदभिमानिदेवतावत् तत्कृतसुखदुःखभाकत्वशङ्कानिरासायैव प्रतिपर्यायं ‘एषत आत्माऽन्तर्याम्यमृत’ इत्यमृतत्ववचनादिति॥ संग्रहकारिके॥ यदि वर्ण्येत चिदचिच्छरीरं ब्रह्म कारणम्। तदा शरीरिणोऽस्य स्यात् भोक्तृत्वं सुखदुःखयोः॥ मैवं कर्मकृतं तन्न शरीरकृतं ततोऽस्य तन्न भवेत्। राजानुग्रहनिग्रहवशवर्तित्वं यथा राज्ञः॥ इति भोक्त्रापत्त्यधिकरणम्॥