एतेन शिष्टापरिग्रहा अपि व्याख्याताः॥ प्रधानकारणवादिसांख्यामात्रतर्केण समन्वयभङ्गाभावेऽपि परमाणुकारणवादिकणभक्षाक्षचरणक्षपणकादि- बहुत्वान्त्रिकाभिमततर्केण तद्भङ्गस्स्यादित्यधिकाशङ्कानिरासाय पूर्वन्यायातिदेशार्थमिदमधिकरणम्। परमाणुकारणवादिनां तर्केण समन्वयभङ्गो भवति न वेति तेषा परस्परविरोधसद्भावेऽपि तद्भङ्गसामर्थ्यसम्भवतदसम्भवाभ्यां" संशये पूर्वपक्षः। सम्भवति तद्भङ्गे सामर्थ्य, यथा शुनां परस्परविरोधसत्त्वेऽपि एकं वराहं मारयितुमैकमत्येन तद्भक्षणलिप्सया प्रवृत्तानां सर्वेषां शुनां तदलाभेऽपि वराहस्य मारणं भवति। एवं परमाणवस्सत्याः शून्याः विज्ञानात्मकाः क्षणिकाश्चतुर्विधाः" एकविधा इत्येवमवान्तरकलहसद्भावेऽप्यल्पपरिमाणानामेव तंत्वादीनां महापरिमाणपटाद्यारम्भकत्वदर्शनात् तद्विपरीतपरिमाणयोर्ब्रह्मजगतोरुपादानोपादेयभावो न सम्भवतीति प्रतिष्ठितेन सकलपरमाणुवाद्यभिमतेन तर्केण तद्भङ्ग उपपद्यत इति पूर्वः पक्षः। सिद्धान्तस्तु- यथा नानादिग्विप्रकीर्णमपि बहुलन्तमस्तोमं एक एवादित्यः प्रतिक्षिपति, एवमुदाहृतं अन्यदप्येतादृशं तर्कजालं ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मय’ मित्याद्यो मृत्याद्यो मृत्पिण्डारब्धघटशरावादिप्रत्युदाहरणेन प्रतिक्षिपन् वेद एव जागर्तीति नात्रप्रयतितव्यमस्तीति॥ संग्रहकारिके॥ अणुकारणता बहवादिमता प्रतितिष्ठति तर्क इहेति मुधा। तदवान्तरभेदकथाकलहक्षपितश्श्रुतिसीम्नि न स प्रभवेत्॥ अल्पान्महत्स्यान्महतो नाल्पमित्येष वादिनां। श्ववराहनयः क्षिप्तः श्रुत्या दृष्टान्तवर्णनात्॥ इति शिष्टापरिग्रहाधिकरणम्॥