03 विलक्षणत्वाधिकरणम्

न विलक्षणत्वादस्य तथात्वञ्च शब्दात्॥ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्॥ दृश्यते तु॥ असदिति चेन्न प्रतिषेनुगतिभ्याम्॥ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम्॥ न तु दृष्टान्तभावात्॥ स्वपक्षदोषाच्च॥ तर्काप्रतिष्ठानादपि॥ अन्यथाऽनुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः॥ मन्वादिस्मृतिभिरोवोपबृंहणं कार्यमित्युक्तमयुक्तम्। तासां तर्कविरुद्धत्वात्। अतस्तर्कानुगृहीतया सांख्यस्मृत्यैवोपबृंहणं कार्यमिति प्रत्यवस्थानात्सङ्गतिः। ब्रह्मकारणत्वं युक्तमयुक्तंवेति चेतनात् ब्रह्मणोऽचेतनतया तद्विलक्षणस्य जगत उत्पत्तिसम्भवासम्भवाभ्यां" संशये पूर्वपक्षः चेतनाद््ब्रह्मणोऽचेतनस्य जगत उत्पत्तिर्न सम्भवति। विलक्षणत्वात्। घटकुण़्डलमृत्सुवर्णादीनां मृत्त्वसुवर्णत्वादिकारणगतासाधारणरूपेण सालक्षखण्ये सत्येव हि कार्यकारणभावो दृष्टः। चेतनस्य च चेतनत्वमसाधारणं न तत्कार्येषूपलभ्यते। न च कदाऽप्युनुपलभ्यमानं चैतन्यं" सुषुप्तजीवेष्विव घटादिष्वनुद्भूतं श्रुत ब्रह्मकारणताऽन्यथाऽनुपपत्त्या कल्पनीयम्। सति चैतन्ये कदाचिदुद्भवावश्यम्भावेन तथा कल्पनाऽयोगात्। अन्यथा श्रुतय़ृपादित्यभावान्यथानुपपत्त्या यूपेऽप्यनुद्भूतादित्यत्वकल्पनापत्तेः, ‘विज्ञानञ्चाविज्ञानञ्चे’त्यादिचेतनाचेतनविभाजकश्रुतिविरोधापत्तेश्च विलक्षणाविलक्षणयोः कार्यकारणभावाभ्युप गतौ वैलक्षण्ये सति भेदावश्यंभावेन कार्यकारणैक्यसिद्धांतविरोधापत्तेश्चेति। सिद्धांतस्तु- क्रिमिमाक्षिकादिषु सत्यपि वैलक्षण्ये कार्यकारणभावो दृश्यते। तत्राचेतनांश एव माक्षिकप्रकृतिक इति सालक्षण्यमस्तीति चेत् न। यथा कथञ्चित्सालक्षण्यस्य कार्यकारणभावप्रयोजकत्वे सर्वस्य सर्वस्मादुत्पत्तिः" प्रसज्यत िति कारणगतासाधारणरूपेण सालक्षण्यं तवाभिमतम्। न च तदिहोपपादयितुं शक्यम्। क्रिमौ माक्षिकत्वस्याभावात्। एवमुपपद्यते विलक्षणयोरपि जगद्ब्रह्मणोः कार्यकारणभावः। न च तथा सति भेदाभ्युपगमापत्तिः। सालक्षण्यप्रतिषेधेऽपि कुण्डलहिरण्ययोरिवाभेदोपपत्तेः। न च जगद्ब्रह्मणोरभेदे जगत्सृष्ट्यादिषु सत्सु हेया जगदवस्थाः जगतीव ब्रह्मण्यपि स्युरित्येकस्मिन्नेव ब्रह्मणि हेयगुणाः तद्विरुद्धाः" श्रुत्यन्तरसिद्धापहतपाप्मत्वादयश्चेत्यसामञ्जस्यापत्तिः। सूक्ष्मचिदचिद्वस्तुशरीरकं ब्रह्म कारणं, स्थूलचिदचिद्वस्तुशरीरकं ब्रह्म कार्यमित्येवंरूपे सिद्धान्ताभिमते कार्यकारणाभेदे तदप्रसक्तेः शरीरगतधर्माणां शरीरिण्यप्रसङ्गे बाल्ययौवनत्थाविरादीनामात्मन्यसम्बन्धस्य दृष्टान्तस्य सद्भावादिति। एवं च यद्यपि स्थूलसूक्ष्म शरीररूपविशेषणांशे कार्यकारणयोरचेतनत्वेन विशेष्यांशे तयोश्चेतनत्वेन च सालक्षण्यमस्तीति वक्तुं शक्यम्, तथाऽपि कारणगतविशेष्यांशस्य कार्यगत विशेषणांशेऽपि कारणत्वं वक्तव्यमित्यभ्युपेत्य वैलक्षण्यम्। तत्र दृष्टान्त उपन्यस्तः। बाल्यावस्थस्य यौवनाद्यवस्थान्तरापत्तावपि हि कारणगतविशेष्यांशस्य कार्यगतविशेषणांशेऽपि कारणत्वमस्ति, निरात्मकशरीरस्य यौवनादिप्राप्त्यभावात्, तथेहापि सत्यपि वैलक्षण्ये कार्यकारणभाव उपपद्यत इति दर्शयितुम्॥ संग्रहकारिके॥ अचेतनं चेतनतः कथं स्याद्विलक्षणाद्विश्वमिति स्थवीयः। विशिष्टयोः कारणकार्यभावे न चोद्यमेतद्धि पदं लभेत॥ तथाऽपि तर्कप्रतितर्कउच्यते न सर्वसाम्यं क्वचिदप्युदीक्ष्यते। यथा कथञ्चित्प्रकृतेऽपि वर्तते विशेषतो न क्रिमिमाक्षिकादिषु॥ इति विलक्षणत्वाधिकरणम्॥