02 योगप्रत्युक्त्यधिकरणम्

॥एतेन योगः प्रत्युक्तः॥3॥ अत्रापि विषयसंशयपूर्वपक्षसिद्धान्तहेतवः पूर्ववद्ब्रष्टव्याः। हिरण्यगर्भस्य भ्रमासम्भवात् तत्कृतस्य शास्त्रस्येश्वराभ्युपगमेन श्वेताश्वतरोपनिषदाद्युक्तयोगानुष्ठानवर्णनेन च कपिलादिस्मृतिवैलक्षण्येन च वेदान्तान्तरङ्कत्वात् तेनोपबृंहणीया वेदान्ता इति तदुक्तरीत्या ईश्वराधिष्ठितस्य प्रधानस्य कारणत्वोनाभ्युपगन्तव्यत्वात् ब्रह्म कारणमित्येतदयुक्तं" इत्यस्यातिदेशाधिकरणस्याधिका शङ्का। हिरण्यगर्भस्यापि क्षेत्रज्ञत्वेन तत्कृतस्य शास्त्रस्य भ्रममूलत्वसंभवात्, अब्रह्मात्मकप्रधानकारणत्वाभ्युपगमात्, ईश्वरस्य निमित्तमात्रत्वाङ्गीकारात्, वेदांताभिमतध्येयवैषम्यात्, तन्निरूप्यविलक्षणध्यानविधानाच्च विरुद्धेन तेन वेदान्ता नोपबृंहणीया इति तत्परिहारः॥ संग्रहकारिका॥ योगस्तर्ह्युपबृंहणत्वमयतां सह्यब्जभूनिर्मित- स्तत्राङ्गीकृत ईश्वरश्श्रुतिमितो योगश्च तद्रोचरः। मैवं श्रुत्युदितेश्वरात्तदुदिताद्योगाच्च तद्गोचरा- द्वैलक्षण्यजुषौ हि तौ भववतः कस्येह नास्ति भ्रमः॥ इति योगप्रत्युक्त्याधिकणम्॥