01 स्मृत्यधिकरणम्

॥स्मृत्यनवकाशदोषप्रसंगइतिचेन्नान्यस्मृत्यनवकाशदोषप्रसंगात्॥ ॥इतरेषाञ्चानुपलब्धेः॥ प्रथमेऽध्याये श्रीमन्नारायणाख्यं परंब्रह्म सकलजगत्कारणमिति तत्र सर्वेषां वेदान्तानां न्यायतस्समन्वयव्युत्पादनेन प्रसाधितं। तत्र संभावितसर्वविधविरोधसमाधानेन तदेव स्थिरीकर्तुं द्वितीयोऽध्याय आरभ्यते। तत्र प्रथमाधिकरणे सांख्यस्मृतिविरोधेन वेदांतानामन्यपरत्वाशङ्का निरस्यते। ननु कथं स्मृतिविरोधे श्रुतेरन्यपरत्वशङ्का, श्रुतिस्मृतिविरोधे स्मृतेरेवाप्रामाण्यस्य ‘विरोधेत्वनपेक्ष्यं स्यादसति ह्यनुमान’ मिति पूर्वतन्त्राधिकरणे स्थितत्वात्। तत्र हि ‘औदुंबरीं स्पृष्ट्वोद्राये’दिति प्रत्यक्षश्रुतिविरोधेन ‘औदुंबरी सर्वा वेष्टयितव्ये’ति स्मृतेरनादरणीयत्वं, असत्येव प्रत्यक्षश्रुतिविरोधे स्मृतेर्मूल श्रुत्यनुमापकत्वेन प्रामाण्यञ्चोक्तम्। सत्यं। प्रत्यक्षश्रुतेः स्फुटार्थत्वे तथैव। जगत्कारणविषयावेदान्तास्तु स्पर्शनश्रुतिवन्नस्फुटार्थाः, किंत्वतिगहना नानाप्रकाराः ‘वेदार्थोयस्स्वयं" ज्ञातस्तत्राज्ञानं भवेदपि। ऋषिभिर्निश्चिते तस्मिन् का शङ्का स्यान्महात्मभि’ रित्युक्तरीत्योपबृह्मणनिश्चयार्थाइति कपिलदिमहर्षिप्रणीतसांख्यस्मृतिरूपोपबृह्मणानुसारेण तेषामन्यपरत्वशङ्का भवत्येवेति तन्निरासार्थमिदमधिकरणम्। अत्र प्रथमाध्यायप्रसाधितं ब्रह्मणो जगत्कारणत्वमयुक्तं युक्तंवेति सांख्यमन्वादिस्मृतिविप्रतिपत्तेः" किं सांख्यस्मृत्योपबृंहणीयास्सन्तो वेदान्तास्तदनुसारेण प्रधानकारणपराः, उत मन्वादिस्मृत्युपबृंहणीयास्सन्तस्ते ब्रह्मकारणपराइत्यनिर्धारणात् संशये पूर्वपक्षः सांख्यस्मृत्योपबृंहणीयाः। तस्या निरवकाशत्वात्। मन्वादिस्मृतीनां वर्णाश्रमादिधर्मेषु अग्निहोत्रादिकर्मसु च सावकाशत्वात्। न च मनुव्यासादि बहुस्मृतिविरोधात् सांख्यस्मृतेर्भ्रान्तिमूलत्वं कल्प्यतामिति वाच्यम्। ‘ऋषिं प्रसूतं कपिलं" यस्तमग्रे ज्ञानैर्बिभर्ति जयमानञ्च पश्ये’दिति श्वेताश्वतरोपनिषदि सांख्यकर्तुः कपिलस्य ज्ञानपरिपूर्णत्वश्रवणेन तत्कल्पनाऽयोगात्। ‘यद्वै किञ्च मनुरवदत्तद्भेषज’ मिति मनूक्तीनामपि कार्त्स्न्येन प्रामाण्यं श्रुतमितिचेन्न। भेषजशब्दस्य प्रामाण्यार्थत्वाभावेन तदसिद्धेः। यजुर्वेदेहि ‘यो बरह्मवर्चसकामस्स्यात् तस्मा एतं सोमारौद्रंचरुं निर्वपे’दिति ब्रह्मवर्चसकामस्येष्टिं विधाय ‘यावदेव ब्रह्मवर्चसं तत्सर्वं करोती’ति फलार्थवादानन्तरं ‘अत्ब्रह्मवर्चसंक्रियत इत्याहुरीश्वरो दुश्चर्माभवितो’रित्येवंरूपेष्ठ्यनुष्ठानेन ‘अतिब्रह्मवर्चसं क्रियते तेन यजमानश्वित्रीभवितुं प्रभवती’त्येवं फलमेव पुनर्दोषपर्यवसायिनं सङ्कीर्त्य तत्परिहारार्थं ‘मानवी ऋचौ धाय्ये कुर्या’दिति मनुना दृष्टे ‘अग्निं वः पूर्व्यंगिरा देवमीडे वसूना’मित्यादिके ऋचौ सामिधेनीमध्ये धाय्यारूपे वेधाय कथं" मानवीभ्यामृग्भ्यां श्वित्रपरिहारइत्याकांक्षायां ‘यद्वै किञ्च मनुरवदत्तद्भेषजं भेषजमेवास्मै करोती’त्यर्थवादेन तत्सङ्घटकं, न तु मनुदृषऋगर्थानां ‘अग्निर्वसूनाम्मध्ये पूर्व्य’ इत्यादीनां मनुस्मृतिवचनार्थानाञ्च प्रामाणिकत्वप्रतिपादनम्। मनूक्त्यर्थानां" श्वित्रे व्याध्यन्तरे वा भेषजरूपत्वं बाधितमिति चेत्, तर्हि असदर्थावलम्बनार्थवादत्वमस्तु। नह्यर्थवादस्य सदर्थावलम्बनत्वसिध्यर्थं" प्रकृतार्थासङ्धटकार्थान्तरपरिग्रहो युक्तः। तस्मात् यद्वै किञ्चे त्यादिकमनुवाक्यानां सर्वेषां स्वस्वविषयत्वेन प्रतीते सर्वत्रार्थे प्रामाम्यप्रतिपादनपरमित्येतदसिद्धेः मनुस्मृतिवचनानां ब्रह्मकारणवादांशमपहाय वर्णाश्रमधर्मेष्वेव अवकाशकल्पनं युक्तमिति वेदान्तानां" निरवकाशया सांख्यस्मृत्यैवोपबृंहणीयत्वात् ते कपिलसूत्रहरिहरवार्तिकादिप्रतिपादितेन प्रकारेण प्रधानकारणत्वपरा नेतव्याः। तेषु ये पुरुषस्यैव कारणत्वं स्फुटं वदन्ति तेत्वमात्यजयं राज्ञीव प्रधानकृत्यं पुरुषे व्यपदिशंतीति नेतव्याइति मन्वादिस्मृतिभिरेवोपबृंहणीयाः। तासामाप्ततमप्रणीतानां बहूनामनवकाशत्वात्। न च कर्मभिस्तासां सावकाशत्वं, परमपुरुषाराधनभूतकर्मप्रतिपादकानामपि तदाराधनीयतया तच्छेषिणि परमपुरुषे जगत्कारणे ब्रह्मण्येव तात्पर्यात्। अत एव मनुना वर्णाश्रमादिधर्मान् ऋषिभिः पृष्टेन तदाराधनीयपरमपुरुषोपदेशपूर्वकमेव तेषामुपदेशः कृतः। ‘आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्। अप्रतर्क्यमनिर्देश्यं प्रसुप्तमिव सर्वतः॥ ततस्स्वयम्भूर्भगवानव्यक्तो व्यञ्जयन्निदम्। महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः॥ सोऽभिध्याय शरीरात्स्वात् सिसृक्षुर्विविधाः प्रजाः। अप एव ससर्जादौ तासु वीर्यमपासृजत्॥ तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्। तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः॥ आपो नारा इति प्रोक्ता आपो वै नरसूनवः। ता यदस्यायनं प्रोक्तं तेन नारायणस्स्मृतः’ इत्यादिना पुराणेषु परः पुमान्। विष्णुराराध्यते पन्था नान्यस्तत्तोषकारक’ इत्यादिवचनैस्तदाराधनतया तच्छेषत्वेनैव कर्मप्रतिपादनमिति स्पष्टमेव। तथा याज्ञवल्क्येनापि ‘क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता’ इतीश्वरं प्रस्तुत्य ‘मुखपादोरुपज्जास्स्युस्तस्य वर्णा यथाक्रम’मिति पुरुषसूक्तप्रक्रियया तस्य जगत्कारणत्वं प्रतिपादयता मनुवदेव स्ववर्णितवर्णाश्रमधर्माणामाराधनीये पुरुषसूक्तप्रतिपाद्ये श्रियःपतौ नारायण एव तात्पर्यमाविष्कृतम्। तथा आपस्तम्बेनापि ‘पूः" प्राणिनस्सर्व एव गुहाशयस्याहन्यमानस्यविकल्मषस्ये’ति एवं ‘एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण’ इति सुबालोपनिषत्प्रतिपाद्यरूपं" नारायणं प्रस्तुत्य ‘तस्मात्कायाः प्रभवति सर्वे समूलं शाश्वतिकस्सनित्य’इति तस्य सकलमूलकारणत्वं वदता सएव स्ववर्णितवर्णाश्रमादिधर्माणामाराधनीय इति तत्र तात्पर्यमाविष्कृतम्। एवमन्येषामपि स्मर्तॄणां वचनान्युदाहरणीयानि। नच अनवकाशत्वतौल्ये कथं मन्वादिस्मृतिभिरेवोपब्रह्मणीया इति निर्णय इति वाच्यम्। मन्वादीनामाप्ततमत्वात्। मनोस्तावदाप्ततमत्वं तदुक्तीनां भेषजत्वश्रुत्याऽवसितम्। तथाहि – भेषजत्वमिह रोगदुरितोभयशान्त्यथसा धारणदोषपरिहारार्थत्वमात्रं विवक्षितं, नतु विशिप्य रोगशान्त्यार्थत्वमेव। ‘यद्वैकिंचे’ति वाक्यस्यात्यंतासार्थत्वापत्तेः। नहि मनुस्मृतिवचनानां मध्ये किमपि वचनं वैद्यकवद्रोगशांत्यर्थभेषजप्रतिपादकमस्ति। दुपितशांत्यर्थप्रतिपादकंत्वस्त्येव वर्णाश्रमधर्मविषयचनजातम्। नित्यनैमित्तिकानां वर्णाश्रमधर्माणां दुरितक्षयहेतुत्वात्। ननु तथा़ऽपि सर्वाणि मनुस्मृतिवचनानि दुरितक्षयोपयोगीनि न भवंति, मनुस्मृतौ राजनीतिव्यवहारपदनिर्णयविषयत्वेन द्दष्टार्थानामपि सत्त्वादिति वीप्सार्थकयत्किञ्चिच्छब्दासांगत्यमस्तीतिवाच्यं। तेषामपि दुरितक्षयार्थकर्मानुष्ठानोपकारकत्वेन परम्परया तादर्थ्यसत्त्वात्, तदभावेऽपि कार्त्स्न्यपरयत्किञ्चिच्छब्दस्य वर्णाश्रमधर्मविषयवचनजातपरत्वेन सङ्कोचोपपत्तेश्च असंकुचितसर्वपरत्वासंभवे संकुचितसर्वपरत्वौचित्यात्। अतएव ‘सर्वएव हारियोजनस्य लिप्सन्त’ इति ज्योतिष्टोमप्रकरण श्रुतिवाक्ये सर्वशब्दस्य असंकुचितसर्वपरत्वासम्भवात् केनचिदवच्छेदेन सामस्त्यपरत्वे वाच्ये प्राकरणिकज्यौतिष्टोमिकार्त्विज्यावच्छिन्नसामस्त्यपरत्वं" युक्तमिति ऋत्विजामेव हारियोजनभक्षणविधायकमिदं वाक्यमिति निर्णीतं पूर्वतन्त्रे। एवञ्च भेषजत्वोक्त्या लब्धप्रामाण्यानां मनूक्तीनां" परमतात्पर्यविषयमाराधनीयं विहाय तदाराधनमात्रे तात्पर्यपर्यवसानायोगस्य उक्तत्वात्। तत्रैव धर्मशास्त्ररूपाणां सर्वासां मनूक्तीनां" परमतात्पर्यविषयमाराधनीयं विहाय तदाराधनमात्रे तात्पर्यपर्यवसानायोगस्य उक्तत्वात्। तत्रैव धर्मशास्त्ररूपाणां सर्वासां मूक्तीनां" प्रामाण्यं लभ्यत इति तत्र तस्याप्ततमत्वम्। तथा ‘सहोवाच व्यासः पाराशर्य’ इति श्रुत्या स्वप्रतिपाद्येऽर्थे व्यासोक्तत्वेन गौरवप्रदर्शनात् तथा व्यासोपदिष्टानां सर्वेषां प्रामाण्यं लभ्यत इति तस्याप्ततमत्वम्। एवं याज्ञवल्क्यादीनामपि ‘जनकोह वै देहो बहुदक्षिणेन यज्ञेनेज’ इति बृहदारण्यकाध्यायादिवचनभङ्गीभिराप्ततमत्वं, कपिलस्यत्वाप्तत्वमात्रम्। ‘ऋषिं प्रसूत’ मित्यादेस्तदृषित्वोपयो- गिकतिपयवेदवेदार्थगोचरज्ञानवत्त्वमात्रविषयत्वेनापि चारितार्थ्यात्। तथा सांख्यशास्त्रप्रवक्तारः कपिलासुरिपञ्चशिखादयस्त्रिचतुराएव स्मृतीतिहासपुराणवक्तारो मन्वादयस्त्वतिबहवइति सुप्रसिद्धम्। स्मृतीतिहासपुराणानिच कपिलादिप्रणीतकतिपयसूत्ररूपात् सांख्यशास्त्रात् अतिबहुलानीतिव्यक्तमेव। तस्मादाप्ततममन्वादिबहुप्रणीतबहुशास्त्रविरोधात् सांख्यशास्त्रस्य निरवकाशत्वमकिंचित्करमिति निवकाशाभिर्मन्वादिस्मृतिभिरेवोपबृह्मणीया वेदांताः। ततश्च तेषां समन्वयात् ब्रह्मणोजगत्कारणत्वमविचलमिति॥ संग्रहकारिकाः॥ वेदान्तौघस्य सांख्यस्मृतिरतिगहनस्यार्थतत्वावधृत्यै वक्तुं युक्तोपबृह्मण्यनितरविषया साह्यलब्धावकाशा। नत्वन्या कापि धर्मावगतिपरतया विश्रुता सावकाशा तस्माद्वेदान्तवेद्यं न भवति जगतः करणं ब्रह्मतत्ते॥ मैवं मनुव्यासमुखस्मृतीनामपि प्रतीतोऽनवकाशभावः। आराधनीये खलु कर्मभिस्स्वैर्नारायणे भावमुशन्ति तासाम्॥ तस्माद्भजन्त्याप्ततमैः प्रणीतास्ताएव तेषामुपबृह्मणत्वम्। या तद्विरुद्धार्थरैव दृष्टा सांख्यस्मृतिर्भ्रान्तिनिबन्धना सा॥ इति स्मृत्यधिकरणम्॥