35 सर्वव्याख्यानाधिकरणम्

एतेन सर्वे व्याख्याता व्याख्याताः॥29॥ अतीतपञ्चत्रिंशदधिकरणन्यायादिदेशरूपत्वात् सङ्गतिः। अतीताधिकरणेष्वनुदाहृताः कारणवाक्यवेशेषाः किमुक्तलक्षणब्रह्मपरा उत नेति तेषामुक्तन्यायविषयत्वसम्भवासमभवाभ्यां संशये पूर्वपक्षः। अनुदाहृताः कारणवाक्यविशेषास्सर्वे परमपुरुषैकान्तिका न भवन्ति। ‘हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्, यदा तमस्तन्नदिवा न रात्रिर्नसन्नचासच्छिव एव केवल’ इत्यादिकारणवाक्यान्तरेषु ब्रह्मशिवादिशब्दोक्तकारणान्तरप्रतीतेरिति। सिद्धान्तस्तु– अतीताधिकरणोक्तन्यायैरेव तेऽपि परमपुरुषविषयास्सिद्ध्यन्तीति। तत्सिद्धिप्रकारस्तु श्रुतप्रकाशिकादिषु प्रपञ्चितो द्रष्टव्यः। अतिविस्तरापत्तेर्नेह सलिख्यते। कारणभूते वस्तुनि शिवादिशब्दा अपि श्रुता इतिचेत् पूर्वन्यायैस्तेऽपि ब्रह्मणि नारायणे योज्याः॥ इति सर्वव्याख्यानाधिकरणम्॥8॥ इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैताविद्याचार्यश्रीविश्वजि- द्याजिश्रीरङ्गराजाध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ चतुर्मतसारे नयमयूखमालिकाख्ये द्वितीयपरिच्छेदे प्रथमस्याध्यायस्य चतुर्थपादः" प्रथमोऽद्यायस्समाप्तः॥