34 प्रकृत्यधिकरणम्

प्रकृतिश्च प्रतिज्ञादृष्ठान्तानुपरोधात्॥23॥ अभिध्योपदेशाच्च॥24॥ साक्षाच्चोभयाम्नात्॥25॥ आत्मकृतेः॥26॥ परिणामत्॥27॥ योनिश्च हि गीयते॥28॥ एवं निरीश्वरसांख्ये निरस्ते सतीश्वरः केवलं निमित्तभूतः प्रधानमेव तु परिणामिजगदुपादानमिति वदतस्सेश्वरसांख्यस्य मतं निराक्रियत इति सङ्गतिः। किं ब्रह्म जगतोनिमित्तमात्रं उतोपादानमपीति तस्योपादानत्वे श्रुतिन्यायविरोधतदानुकूल्याभ्यां संशये पूर्वपक्षः- ईश्वरोनिमितिमात्रं, प्रधानमेव उपादानं। ‘मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरं, मयाध्यक्षेण प्रकृतिस्सूयते सचराचर’मित्यादिश्रुतिस्मृतिदर्शनात्, लोके कुलालमृत्पिण्डादिनिमित्तोपादानभेददर्शनाच्च परमात्मनउपादानत्वासम्भवाच्च। कार्यकारेण परिणामित्वं ह्युपादानत्वं, नतु परिणाम्याधारत्वमपि। मृदि घटाकारेण परिणममानायां तदाधारस्य भूतलक्स्याप्युपादानत्वप्रसङ्गात्। न च ‘बहुस्यां प्रजायेये’ति ब्रह्मणस्सृक्ष्यमाणतेजःप्रभृतिरूपेण स्वस्य बहुभवनसङ्कल्पश्रवणादुपादानत्वमप्येष्टव्यमिति वाच्यम्। तदनुपादानत्वेपि ततो भेदेऽपि स्वकीयत्वप्रयुक्ताभेदोपचारेणतदुपपत्तेः। ‘प्रजायेमहिरूद्रप्रजाभिः, अग्ने यन्मे तनुवा ऊनन्तन्मआपृणेत्याह यन्मे प्रजायै पशूनामूनन्तन्मआपूरयेतिवावैतदाहे’त्यादिमन्त्रार्थवादा हि प्रजापशुरूपेण स्वस्यैव जननं स्वस्यैव प्रजापश्वात्मकत्वञ्चावेदयन्ति। नच प्रतिज्ञादृष्टान्तानुसारेणोपादानत्वमप्येष्टव्यमिति वाच्यम्। ब्रह्मज्ञाने सत्यपि वियदादिषु मृतिपिण्डादिज्ञाने सत्यपि घटशरावादिषु च संशयदर्शनेन प्रतिज्ञादृष्टान्तयोरौपचारिकतया नेतव्यत्वात्। ‘तदात्मानं स्वयमकुरुते’त्यादेः ‘यदायदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्स्य तदाऽऽत्मानं सृजाम्यह’ मित्यादिवन्नयनसम्भवादिति। एवंप्राप्ते सिद्धान्तः– ब्रह्म जगत उपादानमपि, न निमित्तमात्रं। उपादानत्वे सत्येवहि सर्वविज्ञानप्रतिज्ञामृत्पिण्डघटशरावादिदृष्टान्तौ नोपरुध्येयाताम्। न च तयोरौपचारिकत्वं कल्प्यं, मुख्यत्वसमर्थनोपपत्तेः। तथाहि– ‘सदेव सोम्ये दमग्रआसीत् एकमेवाद्वितीय’ मित्यत्र सत्पदं सूक्ष्मचिदचिद्विशिष्ट वस्तुपरम्।अन्यथा ब्रह्मातिक्तस्य जीववर्गस्य अव्यक्तस्य च सत्वेन अवधारणविरोधात्, अवधारणस्य तत्पृथग्भूतवस्त्वन्तरव्यवच्छेदकत्वेनोपापादनीयत्वात्। तज्ज्ञाने च तत्कार्ये सर्वमपि विषयोभवति। कार्यद्रव्यस्य कारणानन्यत्वात्। कार्यगतस्थूलावस्था परं विषयो नभवति। अतस्तेनाकारेण संशय उपपद्यते। अन्यदिहापेक्षितं प्रतिज्ञाद्दष्टान्तवाक्ययोर्विश्वारणीयमारम्भणाधिकरणे विचारयिष्यते। न च कुलालमृत्पिण्डन्यायेन निमित्तोपादानभेदन्यमश्शङ्कनीयः। तत्र हि निमित्तोपादानाभेदग्राहकप्रमाणाबावात् तद्भेदः, इह तत्प्रमाणे जाग्रति कथमभेदो न स्यात्। न च भूतलवत्परिणाम्युपादानाधारस्योपादानत्वोक्तिर्निरालंबनेति वाच्यं। अपृथक्सिद्वकार्वाश्रयत्वरूपत्वादुपादानत्वस्य तस्य ब्रह्मण्यपिमुख्यत्वात्। नच कार्याश्रयत्वे साक्षात्त्वन्निवेशनीयं, येन साक्षात्तदाश्रयभूता प्रकृतिरेवोपादानं स्यात्। साक्षात्त्वविशेषणे गौरवात्। किंच प्रतिज्ञाद्दष्टान्ताभ्यां तावद्ब्रह्मण उपादानत्वमवसीयते। ‘‘बहुस्यां प्रजायेये’’ त्यभिध्योपदेशादपितदवसीयते। न चतस्य मुख्यत्वसम्भवे पूर्वपक्षोदाहृतमन्त्रार्थवादवत्क्लिष्टगतिः कल्पनीया। तथा ‘ब्रह्मवनं ब्रह्मसवृक्ष आसीत् यतोद्यावापृथिवी निष्टतक्षुः। मनीषिणो मनसा विब्रवीमिवः ब्रह्माध्यतिष्ठद्भुवनानि धारय’न्निति साक्षाच्च तस्य निमित्तोपादानोभयरूपत्वमाम्नायते। अत्र हि ‘वृक्ष’ इति तक्षणनिर्वर्त्यद्यावापृथिव्युपादानत्वमुक्तम्। ‘ब्रह्माध्यतिष्ठ’ दिति निमित्तत्वं। तथा ‘तदात्मानं स्वयमकुरुते’ ति सृष्टौ तस्यैव कर्तृकर्मभावश्रवणादपि तस्य निमित्तोपादानोभयरूपत्वमवगम्यते। ‘तदात्मानं सृजाम्यह’मितिवदुपपद्य इत्युक्तमितिचेत् न। तत्रापि निमित्तोपादानभावसिध्यविशेषात्। इयांस्तु विशेषः। तत्र अवतारशरीररूपेण स्वात्मानः स्वेम सृष्टिरुच्यते, इह प्रपञ्चरूपेणेति। एं बहुविधश्रुतिसिद्धमपि तस्योपादानत्वं ‘निष्कलं निष्क्रियं शान्त’ मित्यादिनिर्विकारत्वविषयबहुश्रुत्यन्तराविरोधेन कल्पनीयम्। तथा तत्कल्पनञ्च निरुक्तोपादानलक्षणे साक्षादाश्रयत्वाविवक्ष्यैव निर्वहतीत्यतोऽपि साक्षात्वन्नविवक्षणीयम्। न च व्यवहितकारणवद्व्यवहिताश्रयो नास्ति, स केवलमाश्रयस्यैवाश्रय इति शङ्कनीयम्। पर्यङ्कास्तीर्णवस्रे शयानं प्रति तद्वहनाक्षमस्य वस्रमात्रस्य आश्रयत्वायोग्यतया व्यवहितस्य पर्यङ्गस्य वस्रद्वारा तदाश्रयत्वात् प्रासादस्थपर्यङ्कशयिते पुरुषे ‘प्रसादे शेत’ इति व्यवहारदर्शनाच्च। एतेन स्वाभिन्नकार्यावस्थाश्रयत्वमुपादानलक्षणम्, तथा च ब्रह्मप्रपञ्चयोरपृथक्सिद्धिसत्वेऽप्यभेदाभावात् न ब्रह्मणः प्रपञ्चोपादानत्वमित्यपि शङ्का निरस्ता। श्रुतोपादानत्वनिर्वाहार्थमपृथक्सिद्धिगर्भस्यैव लक्षणस्य वाच्यत्वात् श्रुतोपपत्त्यनुसारेण अश्रुतकल्पनौचित्यात्। तस्मादुक्तलक्षणपरिणामित्वाभ्युपगमे श्रुतोपादानत्निर्वाहात् श्रुतिनिर्विकारत्वाव्याकोपाच्च निरुक्तपरिणामित्वरूपं निरवद्यमेवोपादानत्वम्, यदक्षरवाक्यगतभूतयोन्यादिशब्दैरपि जोघुष्यते। योनिशब्दोह्युपादानपर्यायः। अक्षरप्रकरणे ‘कर्तारमीशं पुरुषं ब्रह्ययोनि’ मिति कर्तृत्वस्यापि श्रवणात् ततोऽपि निमित्तोपादानोभयरूप्तवसिद्धिः। तस्मात् ब्रह्म जगत उपादानं निमित्तञ्चेति सिद्धम्॥ संग्रहकारिके॥ अस्तीश्वरस्तथाऽपि तु नोपादनामयमपिणामित्वात्। तदधिष्ठितं प्रधानं श्रुतिस्मृतिभ्यामुपादानम्॥ निर्दोषो निर्विकारस्स्वत इति चिदचिद्देह एष स्वदेह द्वारादोषैर्विकारैरपि च न सहते सङ्गतिं विश्वनेता। तेनोपादानलक्ष्मच्युतमिह न भवेद्भाव्यवस्थाश्रयत्वं" पर्यङ्कास्तीर्णवस्रस्थितिजुष इव यद्देहगत्याश्रयोऽसौ॥ इति प्रकृत्यधिकरणम्॥7॥