33 वाक्यान्वयाधिकरणम्

वाक्यान्वयात्॥19॥ प्रतिज्ञासिद्धेर्लिंगमाश्मरथ्यः॥20॥ उत्क्रमिष्यत एवंभावादित्यौडुलोमिः॥21॥ अवस्थितेरिति काशाकृत्स्नः॥22॥ बृहदारण्यके मैत्रेयीब्राह्मणे याज्ञवल्क्यः स्वयंप्रविव्रजिषया मैत्रेयीकात्यायन्योः स्वभार्ययोर्वित्तसंविभागं चिकीर्षन् वित्तेन किममृतत्वं प्राप्तुं शक्यमिति मैत्रेय्या पृष्टो ‘यथैवोपकरणवतां जीवितं तथैवतेजीवितंस्यात् अमृतत्वस्य तु नाशास्ति वित्तेन ’ त्युक्त्वा ‘येनाहन्नामृतास्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मेब्रूही’ ति तया पुनरमृतत्वसाधनं पृष्टः ‘न वा अरे पत्युः" कामाय पतिः प्रियोभवति आत्मनस्तु कामाय पतिः प्रियोभवती’ त्यादिभिः ‘न वा अरे सर्वस्य कामाय सर्वं पिर्यं भवति आत्मनस्तु कामाय सर्वं प्रियं भवती’त्यन्तैः वाक्यैः पतिजायापुत्रवित्तादिकं स्रवं यद्भोगार्थतयैव प्रियं भवति तं पत्यादिसर्वभोक्तारमात्मानमुपक्रम्य ‘आत्मावा अरे दृष्टव्यश्श्रोत्व्योमन्व्योनिदिध्यासितव्य ’ इत्यमृतत्वसाधनमात्मदर्शनं तत्साधनानि श्रवणादीनि चोपदिश्य ‘आत्मनिखल्वरे दृष्टे श्रुते मते विज्ञाते इदंसर्वंविदित ’ मित्यात्मविज्ञानेन सर्वविज्ञआनमुक्त्वा ‘सयथाऽऽर्द्रैधाग्नरभ्याहितस्य पृथक्धूमाविनिश्चरन्त्येवंवा अरेऽस्य महतोभूतस्य निश्वासितमेतद्यदृग्वेतो यदुर्वेदस्सामवेदोऽथर्वाङ्रसइतिहासः पुराणं विद्याउपनिषदश्लोकास्सूत्राण्यनुव्याख्यानानि व्याख्यानानीष्टं हुतमाशितं पायितमयञ्च लोकः परश्च लोकस्सर्वाणि च भूतन्यस्यैवैतानिसर्वाणिनिश्वसितानी’ति तस्य नामरूपात्मकसकलप्रपञ्चकारणत्वं" प्रदर्श्य ‘प्रज्ञानघनएवैतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविश्यति नप्रेत्यसंज्ञाऽस्ती’ति तस्योत्पत्तिविनाशविशेषविज्ञआनाभावानुक्त्वा ‘एतावदरेखल्वमृत्व’मिति तस्यात्मनोवेदनममृतत्वसाधनमुपसञ्डहारेति श्रूयते। अत्र पतिजायादिवाक्यजातमुत्पत्तिविनाशवाक्यञ्च परमात्मविषयमिति प्रतीयते। सर्वाणि चैतानि वाक्यानि एकविषयत्वेन प्रवृत्तानि प्रकृतपरमर्शिभिरात्मशब्दसर्वनामशबादैरुत्तरोत्तरवाक्यप्रवृत्तेः। चतुर्थाध्याये मैत्रेयीब्राह्मणे महद्भूतमनन्तमपार’मिति परमात्मासाधारणविशेषणानि ‘प्रज्ञानघनएवे’त्यादिवाक्योक्तोत्पत्तिविनाशादिजीवलिंगसामानाधिकरण्येन निर्दिष्टानि। एवं जीवेश्वरलिंगयुक्तवाक्यानामेकविषयत्वप्रतीतावपि नाबेदस्तयोश्श्रुतितात्पर्यविष इत्यभ्युपगन्तुं युक्तम्। ‘नाहं सर्वज्ञ ’ इत्याद्यनुभवेन जीवे सर्वज्ञत्वादिविशिष्टेश्वरभावबाधात्। उभयोर्भेदेन अत्र प्रतिपादनकल्पनंत्वेकविषयत्वप्रतीतिविरुद्धम्। तस्मात् जीवेश्वरयोरन्यतरएवात्र प्रतिपाद्यः। अप्रतिपाद्यलिंगानि च प्रतिपाद्ये योज्यानीति स्थिते जीवधर्माणामीश्वरे योजनेन सिद्धान्तो भविष्यति। ईश्वरलिंगानां जीवे योजनेन सांख्यतन्त्रसिद्धः पुरुष एवात्र प्रतिपाद्य इति तावत्पूर्वपक्षः। तथाहि- पतिजायादिसम्बन्धस्तावदविचलं" जीवलिंगम्। ‘नवा अरे पत्युः कामाये’त्यत्र वैशब्देन प्रसिद्धिद्योतकेन। प्रसिद्धं ह्येतत् तवापि, मैत्रेयि यत् पत्यादयो जायादीनां" पत्यादिप्रयोजनाय प्रिया न भवंति किं तु स्वप्रयोजनायैवेत्येवमर्थप्रतीतेः। अतः पत्यादिकं परित्यज्यामृतत्वसाधकं स्वात्मदर्शनमेव श्रवणादिभिस्सम्पादनीयमिति ‘आत्मा वाऽअरे द्रष्टव्य’ इत्यादि नोच्यत इति सङ्गच्छते। ननु स्वात्मभोगाय पत्यादीनां प्रियत्वमुक्त्वा ततः" केवलमात्मस्वरूपमन्वेष्टव्यमिति वचनं न संघटते। प्रियमेवह्यन्वेष्टव्यं नतु प्रियवियुक्तस्वरूपमिति चेत्, उच्यते– सर्वेषामपि स्वात्मा स्वतः प्रियः, पतिजायादयस्तु न पतित्वादिना प्रियाः, तेषां स्वेष्टसंपादकत्वदशायामिव स्वानिष्टकरणत्वदशायां प्रीत्यदर्शनात्। अतः स्वात्मनः पत्यादीनां चानुभवानुसारेण व्यवस्थिताव्यवस्थितपुरुषार्थत्वरूपं तत्वमालोच्याव्यवस्थितगौणपुरुषार्थरूपं पत्यादिकं परित्यज्य मुख्यमेवाश्रयेदिति प्रकृतिवियुक्तात्मदर्शनतदर्थश्रवणमननध्यानविधानं सङ्गच्छत एव। ‘दशमन्वन्तराणीह तिष्ठन्तींद्रियचिन्तका’ इत्यादिना तन्त्रसिद्धपुरुषध्यानस्य सांख्यैर्मुक्तफलकत्वप्रतिपादना। सर्वविज्ञानवचनमपि तत्र सङ्गच्छते। मुक्त्यर्थानुसन्धेयप्रकृतिवियुक्तजीवस्वरूपाणां" विशेषकान्तराभावेनैकारतया स्वात्मनि तथा विज्ञातेसति ‘एवमाकारस्सर्वे जीवा’ इति ज्ञातुं शक्यत्वात्। सर्वोपादानत्व वचनं तु जीवाधिष्ठितप्रधानविषयतया सङ्गच्छते। तत्रह्याद्रेंधनविशिष्टस्याग्नेः धूमोपादानत्वं दृष्टान्तीकृतं। न चाग्निर्धूमोपादनां, किंत्वाद्रेंधनमेव। तदुत्कर्षेण धूमोत्कर्षदर्शनात्। एं दार्षान्तिकभावेऽप्याद्रेंधनकल्पजडप्रकृतिविशिष्टस्याग्निकल्पस्य चेतनस्योपादानत्ववर्णनं दृष्टान्तानुसारात् ‘दध्ना जुहोती’ति विधानमिव विशेषणए संक्रामति। एवमिह ब्रह्मधर्माणां जीवे योजयितुं शक्यत्वात्, जीवधर्माणां पतिजायादिसम्बन्धोत्पत्तिविनाशाविशेषविज्ञानाभावानां" ब्रह्मणि योजयितुं शक्यत्वात्। बृहदारण्यकचतुर्थषष्ठाध्यायाम्नातयोर्मैत्रेयीब्राह्मणयोस्तन्तरसिद्धे पुरुषे पर्यवसानेन तत्सामान्यात् सर्वाण्यपि कारणवाक्यानि पुरुषाधिष्ठितप्रधानकारणत्वपराणि। अतः प्रधानमेव जगत्कारणं नत्वीश्वरो नाम कश्चिदस्तीति। एवं प्राप्ते सिद्धांतः— अमृतत्वसाधनवेदनेनोपक्रमस्तेनोपसंहाो मध्येचामृतत्वसाधनात्मदर्शनश्रवणमननध्यानकीर्तनञ्च प्रकरणस्य परमात्मविषयत्व एवोपपद्यते, नतन्त्रसिद्धपुरुषविषयत्वे। ‘नान्यः पन्था’ इति श्रुतेः श्रुतिविरुद्धस्य ‘पुरुषं निर्गुणं प्राप्ये’त्यादितान्त्रिकवचनस्य हेयत्वात्। कथं ब्रह्मणि पतिजायादिवाक्यघटना। इत्थं- पतिजायापुत्रवित्तादयो मत्प्रयोजनायाहमस्यप्रियस्स्यामिति स्वसङ्कल्पात् प्रिया न भवन्ति, किन्तु परमात्मनस्स्वाराधकप्रियप्रतिलंभनविषयकामनानिर्वृत्तय इति। परमात्मा हि कर्मभिराराधितस्तत्तत्कर्मानुगुणं प्रतिनियतदेशकालस्वरूपपरिमाणमाराधकाननान्तत्तद्वस्तुगतं" प्रियत्वमापादयति। ‘एष ह्येवानन्दयाती’ति श्रुतेः। न तु किमपि वस्तु स्वतः प्रियमप्रियं वा भवति। यथोक्तं भगवता परशरेण– ‘तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते। तदेव कोपाय पुनः प्रसादाय च जायते। तस्माद्दुःखात्मकन्नास्ति न च किञ्चित् सुखात्मक’मिति। नन्वित्थं पतिजायादिवाक्यं परमात्मविषयतां प्राप्नोतु नाम। ‘तान्येवानुविनश्यती’त्यादि जीवपरामर्शः कथन्तद्विषयतां प्राप्नुयादिति चेत्, इत्थं जीवस्तावत् ईश्वरादुत्पद्यते। ‘यथा सुदीप्तात्पावकाद्विप्फुलिङ्गा’इत्यादिश्रवणात्। अतस्तयोः कार्यकारणभूतयोरस्ति घटमृत्पिण्डयोरिव मुख्यमेवैक्यं, तदिह ज्ञापनीयम् ‘आत्मनिखल्वर’इत्यादिपूर्ववाक्योक्तसर्वविज्ञानप्रतिज्ञासिध्यर्थमिति तत्ज्ञापनार्थं" जीवशब्दैरीश्वराभिधानमित्याश्मरथ्य आचार्यो मन्यते। संसारदशायां जीवेश्वरयोर्भेदेऽपि मोक्षदशायां ‘यथा नद्यस्स्यंदमानास्समुद्र’इति मन्त्रोक्तनदीसमुद्रन्यायेन अभेदप्राप्तेः जीवशब्दैरीश्वराभिधानमित्योडुलोमिराचार्यो मन्यते। ईश्वरस्य जीवेऽन्तर्यामितयाऽवस्थितेस्तन्नियाम्यत्वेन तच्छरीरस्य जीवस्य शब्दाश्शरीरिपर्यन्ताइति जीवशब्दैरीश्वराभिधानमिति काशकृत्स्नआचार्यो मन्यते। इतमेव मतं सूत्रकारस्याभिमतम्। जीवोत्पत्तेः ‘नात्माऽश्रुते’रित्यत्र, मुक्तावागन्तुकरूपाभिनिष्पत्तेः ‘संपद्याविर्भाव’इत्यत्र निराकरिष्यमाणत्वात्, सर्वशब्दानां" शरीरिपरमात्मपर्यन्तत्वस्य ‘चराचरव्यपाश्रयस्तु स्या’ दिति सूत्रेण प्रसाधयिष्यमाणत्वाच्च। तस्मादादिमध्यावसानपरामर्शात् मैत्रेयीब्राह्मणं" परमात्मपरम्। नतु तन्त्रसिद्धपुरुषपरमिति सर्वेषां कारणवाक्यानां सिद्धं परमात्मपरत्वम्॥ संग्रहकारिकाः॥ मैत्रेयीब्राह्मणोक्तः पतिसुतवनिताद्यन्वयात् पञ्चविंश- स्तस्य ज्ञानाद्विमुक्तिः प्रकृतिविरहितस्येति तंत्रे प्रसिद्धिः। तन्न्यायात्सर्ववेदावधिपरिपठिताश्चेतनैकान्तशब्दाः" तत्रैवाख्यां लभंतां भवतु च तदधिष्ठातृकं तत्प्रधानम्॥ पतिसुतवनितादिकीर्तनेऽपि स्पृशति न संसृतिभाजमात्मशब्दः। इह सुदृढमुपक्रमादिदृष््ट्या परविषये सति तस्य कः प्रसङ्गः॥ तस्मादिहात्मा भणितः पुमान्परस्तदिष्टमाराधकसौख्यलम्भनम्। तत्सिद्धये स्युस्तनयादयः प्रियाःस्वरूपतो नेति तदर्थइष्यतां॥ जीवपरामर्शोऽयं शरीरिपरमात्मपर्यन्तः। यत्रोत्पत्तिविनाशज्ञानाभावाहि न गदितास्तस्य॥ इति वाक्यान्वयाधिकरणम्॥6॥