जगद्वाचित्वात्॥16॥ जीवमुख्यप्राणलिङ्गादिति चेत्तद्व्याख्यातम्॥17॥ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपिचैवमेके॥ अत्रेयं विषयशुद्धिः– अजातशत्रुर्नाम काशीराजः स्वसमीपमागत्य ‘ब्रह्मे ते ब्रुवाणी’त्युक्तवन्तं बालाकिं गार्ग्यं ‘सहस्रं दद्म एतस्यां वाचि जनको जनक इति वै जना धावन्ति’ति प्रशस्य बालाकिना ‘य एवैष आदित्ये पुरुषस्तमेवाहमुपास’ इत्यादिभिर्वाक्यैर्ब्रह्मत्वेनोपदिष्टानादित्यचन्द्रविद्युत्स्तनयित्न्वादिगतान् पुरुषानब्रह्मत्वेन तत्तत्पुरुषोक्त्यनन्तरमेव प्रत्याख्याय ततस्तूष्णींभूते तस्मिन् किमेतावदेव परिज्ञानमिति पृष्ट्वा तेनैतावदेवेत्यभिमते ‘मृषा वै किल मासमवादिष्ठाः ब्रह्म ते ब्रवाणी’त्युक्त्या तमपोद्य ‘यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म सवै वेदितव्य’ इति स्वयमुपदिदेश। अत्र यो वेदितव्य उपदिष्टः पुरुषः स किं सांख्यतन्त्रसिद्धः पुरुषः उतपुरुषोत्तम इति संशये पूर्वपक्षः।तन्त्रसिद्धः" पुरुष एवायम्। ‘यस्य वै तत्कर्मे’ति पुण्यपापसम्बन्धश्रवणात्। नच तस्य ‘एतेषां पुरुषाणां कर्ते’ति श्रुतादित्यादिपुरुषकर्तृत्वासम्भवः। आलोकदानादिना तद्भोगोपयोगिनां तेषां तददृष्टजन्यत्वेन अदृष्टद्वारा तस्य तत्कर्तृक्वाक्। ‘तद्यता श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाश्श्रेष्ठिनं भुञ्जन्ति एवमैवेष प्राज्ञ आत्मा एतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मानः एतमात्मानं भुञ्जन्ति’ति वाक्यशेषे यथा प्रधानपुरुषः स्वकीयैर्भृत्यादिभिर्भोगसाधनान्युपहरद्भिर्भोगान्भुङ्क्ते यथा च ते भोगसाधनान्युपहरन्तः प्रधानपुरुषं पालयन्ति तथा वेदितव्यत्वेनोपदिष्ट आत्मा प्रकृतैरादित्यादिपुरुषैर्भुङ्क्ते ते च तं पालयन्तीत्युक्तत्वाच्च। ननु तथाऽपि पुण्यपापवान् पुरुषो वेदितव्यः परिग्राह्य इत्यत्र किन्नियामकम्। कर्मशब्दस्य पुण्यपापरूढितवत् क्रियत इति व्युत्पत्या कार्यमात्रयोगस्यापि सत्वेन परमपुरुषपक्षेऽपि ‘यस्य वैतत्कर्मे’त्येतदुपपन्नम्। रूढिप्राबल्यावलम्बने चलनेऽपि रूढेस्सत्वेनान्यतरपरिग्रहे विनिगमनाविरहात् रूढ्योः परस्परं कलहायमानयोर्लब्धोन्मेषो योग एवेह प्रबल इति वक्तुं शक्यत्वादिति चेन्न। आदित्यादिपुरुषकर्तृत्वमपूर्वद्वारकं विवक्षितमित्येतदर्थसमर्पणार्थतया कर्मशब्दस्यापूर्वरूढेरिहोपयुक्तत्वेन रूढ्यन्तराद्योगाच्च तस्याः प्रबलत्वात् चलनरूढेः परमपुरुषपक्षे विभौ तस्मिन्ननन्वयेन सांख्यपुरुषपक्षेऽपि विभुत्वेन तैरभ्युपगते तस्मिन्ननन्वयेन जीवाणुत्वपक्षेऽपि चनलोक्तेः प्रयोजनाभावेन रूढ्यन्तरोन्मेषशङ्कानवकाशाच्च। तस्माद्वक्तव्यतयोपक्रान्तं ब्रह्म तन्त्रसिद्धः पुरुष एवेति न तद्व्यतिरिक्तेश्वरसिद्धिः। एवञ्च यद्यपि पूर्वाधिकरणेषु सकलवेदान्तप्रसिद्धब्रह्माधिष्ठानेन प्रधानस्य जगत्परिणामित्वमुक्तं, तथाऽपि तथाभूतं ब्रह्म सांख्यपुरुष एवेतीह ब्रह्मनिरूपणोपक्रमसांख्यपुरुषनिरूपणाभ्यामवगमात् तस्मिन्नेव सर्वेषां वेदान्तानां पर्यवसानमभ्युपेयमिति सर्वपूर्वाधिकरणाक्षेपेणायं" पूर्वपक्षः। तत एवास्य पूर्वाधिकरणसङ्गतिश्च। एवं प्राप्ते सिद्धान्तः– ‘यस्य वैतत्कर्मे’त्यत्र एतच्छब्दस्तावत् प्रत्यक्षादिसन्निधापितसकलजगद्वाची। प्रकरणोपपदादिसङ्कोचकाभावात्। अतस्तत्समानाधिकरणः" कर्मशब्दोऽपि कार्यत्वयोगेन सकलजगद्वाचीत्यभ्युपेयं। सकलजगद्वाच्येतच्छब्दसामानाधिकरण्येन दुर्बलस्यापि योगस्योन्मेषात्। पूर्ववाक्योक्तमादित्यादिपुरुषकर्तृत्वं" प्रति द्वारतया निर्वाहकत्वेन अपूर्वं बुद्धिस्थमितिचेत् न। जगदेकदेशभूतादित्यादिकीर्तनेन तदेकदेशि जगत् बुद्धिस्थमित्यपि वक्तुं" शक्यत्वात्। उभयोर्बुद्धिस्थत्वसंभवे च एतत्पदसामानाधिकरण्येन जगद्वाचित्वस्यैव युक्तत्वात्। अपूर्ववाचित्वमादित्यादिपुरुषकर्तृत्वनिर्वाहकतया प्रकृतोपयोगीतिचेत् न। एकः कथमेतावतामादित्यादिपुरुषाणआं कर्तेत्याकांक्षायां नह्यन्तेषामेव कर्ता किंतु सर्वस्यास्यजगतः। तथाच यस्यैतत्सर्वमेव जगत्कार्यं तस्यादित्यादिपुरुषकर्तृत्वे का विचिकित्सेति कैमुतिकन्यायेन कार्यसामान्ययोगस्याप्यादित्यादिपुरुषकर्तृत्वनिर्वाहकतया प्रकृतोपयोगसाम्यात्, तत्साम्येच एतत्पदसामानाधिकरण्यबलात् कार्यत्वयोगोन्मेषेण जगद्वाचित्वस्यैवाभ्युपेयत्वात्, ‘एतेषां पुरुषाणां कर्ते’ति प्रकृतं कर्तारं ‘यस्य’ ति परामृश्य कर्मशब्देन तत्संबन्धिनिर्देशरूपेण कर्तृकर्मसम्भिव्याहारेणापि कर्मशब्दे कर्तृव्यापारविषयत्वात्मककार्यत्वयोगोन्मेषात् सर्वकार्यसाधारणेन कार्यसामान्योगेनैव अपूर्वेऽपि वृत्तिसम्भवेन तत्र तस्य असाधारण्येन रूढिकल्पनायोगाच्च। पूर्वतंत्रे हि बर्हिराज्याधिकरणे बर्हिश्शब्दस्य लवनादिसंस्कृतेषु दर्भेष्वाज्यशब्दस्योत्पवनादिसंस्कृते घृते च सार्वभौमे शिष्टप्रयोगो सत्यपि क्वाचित्कं तयोर्दर्भघृतजातिमात्रे प्रयोगमवलम्ब्य तेनैव संस्कृप्रयोगनिर्वाहात् तयोस्संस्काररूपं प्रवृत्तिनिमित्तान्तरं न कल्प्यमित्युक्तम्। ‘एकदेशेऽपि यो द्दष्टश्शब्दो जातिनिबन्धनः। तदत्यागान्नतस्यास्ति निमित्तान्तरकल्पने’ति। अतः ‘क्लृप्तो योगः कल्प्यां रूढिं बाधत’ इति न्यायात् नापूर्वरूडिकल्पनावकाशः। तस्मात् ‘यस्य वैतत्कर्मे’ ति सकलजगत्कर्तृत्वोपदेशोऽयम्। ेवं च प्रत्यक्षादिसन्निधापितसकलजगदुपस्थापकैतच्छब्दः आदित्यपुरुषाद्येकदेशमात्रकर्तृत्वमात्रव्यवच्छेदको वाशब्दश्च सार्थको भवति। ब्रह्मनिरूपणोपक्रमः ‘चक्षोस्मीर्यो अजायते’ त्यादिश्रुतिप्रतिपन्नपरब्रह्मधर्मादित्यपुरुषादिकर्तृत्वोपन्यासश्च सर्वलोकप्रसिद्वजीवातिरिकिक्तबालाक्यविदितपुरुषोपदेशश्च अनुकगीलितो भवति। ‘सर्वान् पाप्मनोऽपहत्य सर्वेषाञ्च भूतानां श्रैष्ठयं" स्वराज्यं पर्येति यएवं वेदे’त्यौपसंहारिकब्रह्मवेदनफलवर्णनमप्युपपादितं भवति। ननु ‘एतैरात्मभिर्भुङ्क्ते’ इति भोक्तृत्वं, ‘अथास्मिन् प्राणएवैकधा भवती’ति सप्तम्यन्तनिर्दिष्टवेदितव्यपुरुषाश्रितमुख्यप्राणसंबन्धश्चेति जीवलिंगद्वयं वेदितव्यपुरुषस्य जीवत्वगमकं वाक्यशेषे श्रूयत इति चेत्, तस्य निर्वाहः प्रतर्दनविद्यायामेवाभिहितः। उपक्रमोपसंहारबलात् ब्रह्मपरत्वेन निश्चिते वाक्ये तन्मध्यगतान्यन्यलिंगानि तदनुरोधेन नेयानीति। कथन्तन्नयनमिति चेत्। इत्थं जीवातिरिक्तब्रह्मस्वरूपप्रतिबोधनार्थं जीवसङ्कीर्तनमिति तदिदं प्रश्नव्यापाख्यानाभ्यामवगम्यते। प्रश्नस्तावत् राज्ञा गार्ग्यं प्रति कुतः, ‘क्वैष एतत्बलाके पुरुषोऽशयिष्ट क्कैषतदाऽभूत् कुतएतदागा’दिति। एवं राज्ञा पृष्टं" सुषुप्तजीवाधिकरणमविजानात् गार्ग्ये ‘हितानाम हृदयस्य नाड्य’ इत्यादिना ‘तासु तदा भवति यदा सुप्तः स्वप्नं नकथञ्चन पश्यती’त्यन्तेन जीवस्य सुषुप्त्यधिकरणं हृदयावच्छिन्नं ब्रह्म प्राप्तं मार्गतयाऽधिकन्तव्यासु नाडीषु सर्पणमुक्त्वा ‘अथास्मिन् प्राणएवैकधाभवती’ ति राज्ञैव कृतं स्वपृष्टार्थविवरणम्। तस्य व्याख्यानमिदं सुषुप्तौ जीवस्य ब्रह्मणि लयप्रतिपादकं। ‘सता सोम्य तदा सम्पन्नो भवती’ ति छन्दोगश्रुत्यैकार्थ्यात्, ‘य त्रैषएतत्सुप्तोभूत्, यएष विज्ञानमयः पुरुषः क्वैषतदाऽभूत् कुतएतदागा’दिति ‘यत्रैषएतत्सुप्तोभूत् यएषविज्ञानमयः पुरुषः तदैषां प्राणानां विज्ञानेन विज्ञानमादाय यएषोऽन्तर्हृदयआकाशस्तस्मिन्शेत’इति वाजसनेयिशाखाम्नातबालाक्यजातशत्रुसंवादगतप्रश्नोत्तरैकार्थ्याच्च। तस्माद्वेदितव्यतयोपदिष्टः पुरुषस्सुषुप्तजीवाधिकरणत्वेन ततोभिन्न उक्तइति सभगवान् परमपुरुषएवेति सिद्धम्॥ संग्रहकारिकाः॥ ब्रह्मेति सर्वागमसीमलालितः सांक्योदितः पूरुषएव नाधिकः। ब्रह्मप्रसङ्गो यदजातशत्रुणा कर्मान्विते तत्र समाप्तिमापितः॥ मैवमिह कर्मशब्दः कार्यपरो नैव पुण्यपापपरः। निखिलजगत्स्वरसैतत्पदसमभिव्याहृतिग्रासात्। बालाक्यविदितपुरुषोपदेशवाक्यप्रवेशाच्च। चक्षोस्सूर्य इतीदृक्प्रापकवचनानुरोधाच्च॥ इति जगद्वाचित्वाधिकरणम्॥5॥