31 कारणत्वाधिकरणम्

कारणत्वेनचाकाशादिषु यथाव्यपदिष्टोक्तेः॥14॥ समाकर्षात्॥15॥ माभूवन् पंचपंचजनास्सांख्यतत्वानि, तथापि ब्रह्मकारणमिति सिद्धांत्यभिमतं न सिध्यति। कारणवाक्यानां परस्परविरोधेन क्वचिदपि प्रतिष्ठितत्वाभावात्, तानि विहाय स्मृत्यनुसारेण प्रधानस्यैव कारणतया वक्तव्यत्वादिति प्रत्यवस्थानात्सङ्गतिः। कारणवाक्यैः ब्रह्म कारणमिति निश्चेतुं" शक्यं, उत परस्परविरोधेन तैः किमपि निश्चेतुं नशक्यमिति, तान्यनपेक्ष्य कपिलादिस्मृतिभिः प्रधानं कारणमिति निश्चेयमिति संशये पूर्वपक्षः- छांदोग्ये ‘सदेवसोम्येदमग्रआसीदेकमेवाद्वितीय’मिति सत्पूर्विकासृष्टिराम्नाता। तत्रैव ‘तद्धैक आहुरसदेवेदमग्रआसीत् एकमेवाद्वितीय’मित्यस्रत्कारणवादमुपक्षिप्य ‘कुतस्तुखलु सोम्यैवंस्यात् कथमसतस्सज्जायेते’ति असत्कारणवादं निराकृत्य ‘सदेवसोम्येदमग्र आसी’दिति सत्पूर्विकासृष्टिः स्थिरीकृता। तैत्तिरीयकेतु छान्दोग्ये नीराकृतमसत्कारणवादं परिगृह्य असत्पूर्विका सृष्टिराम्नाता। ‘असद्वा इदमग्रआसीत् ततो वै सदजायत’ इति। बृहदारण्यकेऽपि तथैवाम्नायते– ‘सदेवेदमग्रआसीत् तत्सदासीत् तत्समभव’दिति। तत्रैव अव्याकृतपूर्विकाऽपि सृष्टिराम्नायते– ‘तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियते’ति। अव्याकृतं ह्यव्यक्तं प्रधानमेव। एवं कारणवाक्यानां परस्परविरोधेन ब्रह्म वा स्वतन्त्रं प्राधानंवैकं कारणमिति निर्णयालाभेसति आप्ततमकपिलादिप्रणीतस्मृतिभिः प्रधानं कारणमिति निश्चेयं, तत्रैव सर्वाणि कारणवाक्यानि योजनीयानि, ईक्षणादयोऽपि गौणायोजनीयाइति। एवंप्राप्ते सिद्धांतः– ब्रह्मणएव जगदुत्पद्यत इति निश्चेतुं शक्यते। जन्मादिसूत्रे सर्वज्ञत्वसत्यसङ्कल्पत्वादिविशिष्टं ब्रह्मयथाव्यपदिष्टंतथाभूतस्यतस्यैकस्यैव ‘तस्माद्वाएतस्मादात्मनआकाशस्संभूतः, तत्तेजोऽसृजते’त्यादिश्रुतिभिराकाशादिषु कारणत्वेन प्रतिपादनात्। नन्वस्तु तथाप्रतिपादनं, तथाऽप्युदाहृतकारणवाक्यजातविगानं कथं समाधेयं। उच्यते- आनन्दवल्ल्यां ‘सोऽकामयत बहुस्यां प्रजायेये’ ति पदेन पूर्वप्रकृतमानंदमयं" परामृश्य तस्य जगत्सृष्टिसङ्कल्पमुक्त्वा ‘इदं सर्वमसृजत यदिदं किंचे’त्यादिना तस्य सर्वस्रष्टृत्वसर्वानुप्रवेशसर्वात्मभावानभिधाय ‘तदप्येष श्लोकोभवती’त्युक्ते सर्वस्मिन्नर्थे साक्षित्वेन ‘असद्वा इदमग्र आसी’दिति श्लोक उदाहृतः। तस्मादानन्दमयसमाकर्षात् असच्छब्दस्तस्मिन्नेवानभिव्यक्तनामरूपताभिप्रायो वक्तव्यः।‘असदेवेदमग्र आसी’ दित्यत्रापियमेव निर्वाहः। असच्छब्दोक्तस्य ‘तत्सदासी’ दिति सत्पदेन समाकर्षात्, अत्यन्तासतश्च ‘नासतोदृष्टत्वा’ दिति न्यायेन सद्रूपतापत्त्ययोगात्। ‘तद्धेदं तर्ह्यव्याकतमासी’ दित्यत्राप्यव्याकृतपदं अव्याकृतशरीरकपरमपुरुषपरं। ‘सएष इह प्रविष्ट आनखाग्रेभ्यः पश्यंचक्षुश्श्रृण्वन् श्रोत्रं मन्वानोमन’ इत्यनन्तरवाक्ये ‘सएष’ इत्यनेन प्रकृतमव्ाकृतं समाकृष्य तस्य अन्तःप्रविष्टसर्वांतर्यामिपुरुषत्वाभिधानात् । ‘तन्नामरूपाभ्यां व्याक्रियते’ति कर्मकर्तरिलकारः। तदव्याकृतशरीरमविभक्तनामरूपं ब्रह्म स्वयमेव स्वात्मानं विभक्तनामरूपमकरोदित्यर्थः। ‘तदात्मानं स्वयमकुरुते’ ति श्रुत्यन्तरैकार्थ्यात्। एवं कारणवाक्यानां ब्रह्मपरत्वे सति ईक्षणब्रह्मात्मश्रुतयोऽप्यनुगृहीता भवती। तस्माद्ब्रह्मैककारणकं जगदिति सिद्धम्॥ संग्रहकरिके॥ कारणवाक्यविगानादाप्ततमोक्तं प्रधानमेव भवेत्। कारणमशेषजगतः कारणवाक्यानि तत्र नेयानि॥ मैवं सर्वत्रापि ब्रह्मसमाकर्षसत्वेन । तेषां नास्ति विगानं तस्माद्ब्रह्मैव कारणं जगतः॥ इति कारणत्वाधिकरणम्॥4॥