30 संख्योपसंग्रहाधिकरणम्

न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च॥11॥ प्राणादयो वाक्यशेषात्॥12॥ ज्योतिषैकेषामसत्यन्ने॥13॥ अजा शब्दस्य स्वतन्त्रप्रकृतिपत्वे विशेषकस्याभावात् वाक्यान्तरानुरोधेन ब्रह्मात्मकत्वं साधितम्। तदत्रनप्रसरति। ब्रह्मसत्वे संख्याधिक्यात्, तेन विनैव संख्यापूरणएन अब्रह्मात्मिका प्रकृतिरिति निश्चयसंभवादिति शङ्कया सङ्गतिः। वाजसनेयिनस्समामनंति। ‘यस्मिन्प़ञ्च पञजना आकाशश्च प्रतिष्ठितः। तमेव मन्यआत्मानं विद्वान् ब्रह्मामृतोऽमृत’मिति। अयम्मन्त्रः सांख्यतन्त्रसिद्धतत्वपरः उत वाक्यशेषाम्नातप्राणादिपर इति पंचविंशतिसंख्यातत्वाधिक्यप्रतीतिभ्यांसंशये पूर्वपक्षः। सांख्यतत्वपरः। पंचविंशतिसंख्यातत्वाधिक्यप्रतीतेः। तत्प्रतिश्च पंचशब्दविशेषितात्पञ्चशब्दात्। पंचजनाइति हि न मनुष्यादिवाचीशब्दः। प्रथमपंचशब्दसमभिव्याहारेण द्वितीयपंचशब्दस्यापि संख्यापरत्वावसायात्। ततश्च पञ्चानां जनानां समूहाइति समाहारविषयोयं समासः। तथा निश्चये च पंचपूल्यइतिवदीकाराभावो लिङ्गव्यत्ययश्च छान्दसस्समर्थनीयः। तद्धितार्थोत्तरपदयोरभावेन समासस्य समाहाविषयत्वावश्यंभावात्। ते समूहाः कतीत्याकांक्षायां पुनः पञ्चसंख्यया विशेष्यन्ते ‘प़ञ्च प़ञ्च पूल्य’ इतिवत्। ननु समासमभअयुपगम्य छान्दसत्वेन रूमसमर्थनं किमर्थं, असमासेऽपि प़ञ्चशब्दद्वयेन प़ञ्चविंशतिसंख्यालाभोपपत्तेः। एवं संवर्धनेन संख्याविशेषलाभोऽप्यन्यत्र संप्रतिपन्न एव। यथा ‘प़ञ्चप़ञ्चाशतस्रिवृतस्संवत्सरा’ इत्यत्र प़ञ्चगुणितपंचाशत्संख्यया पंचाशदुत्तरद्विशतसंख्यालाभः। यथावा ‘वयसो वयसस्सप्त दशसप्तदशानि ददाती’त्यत्र सप्तदशगुणितसप्तदशसंख्यया एकोननवत्युत्तरद्विशतसंख्यालाभः। यथावा ‘पंचभिर्धाता विदधाविदं यत्तासां स्वसॄरजनयत् पंच पंच तासामुयंति प्रयवेण पंच नानारूपाणि क्रतवो वसानाः त्रिंशत्स्वसार उपयंति निष्कृत’ मित्यत्र पंचगुणितपंचसंख्यया पंचविंशतिसंख्यालाभा इति चेत् मैवं। पंचजनशब्दस्य समासपदत्वेन तन्नायायनवतारात्। समासपदत्वंच शतपथब्राह्मणपठितस्यास्य मन्त्रस्य अन्तानुदात्तस्वरेण निश्चीयते। अस्यान्तानुदात्तस्वरस्य शतपथब्राह्मणस्वरविधायकभाषिकाख्यग्रन्थविहितब्राह्मणपठितमन्त्रत्वनिमित्तोदात्तादेशरूपत्वात्। अतस्तस्य ‘स्थानिना समासस्ये’ ति व्याकरणविहितेन अन्तोदात्तस्वरेण ‘पंचानांत्वा पंचजनाना’मिति मन्त्रान्तरे समासदर्शनेन च अत्रापि समासेन भाव्यमिति। तस्मात्समाहारसमासोऽयं, छान्दसत्वेन रूपसिद्धिरित्येव युक्तम्। न च तत्वाधिक्यप्रसङ्गः। चतुर्विंशतेस्तत्वानां आत्मनि प्रतिष्ठितत्ववचनं तददृष्टायत्तत्वात् भाक्तं, आत्मनस्तद्वचनं स्वमहिमप्रतिष्ठितत्ववचनवत् भाक्तमित्युपपत्तेः। सांख्यतत्वापरिग्रहे श्रुतपंचविंशतिसंख्यान्वयानिर्वाहादिति। एवं प्राप्ते सिद्धान्तः॥ पंचविंशतिसंख्योपसंग्रहादपि न सांख्यतत्वप्रतीतिः। तेभ्यः पृथग्भावात्। तद्वैलक्षण्यात्। ‘यस्मिन् पंच पंचजना’ इति तेषां यच्छब्दनिर्दिष्टब्रह्मात्मकताप्रतीतेः, आत्माकाशाभ्यां संख्यातिरेकाच्च। नच पंचविंशतिसंख्यान्वयानुरोधेन पूर्वपक्षावसानोक्ता क्लिष्टगतिः कल्पनीया। कठवल्लीषु ‘इन्द्रियेभ्यः" पराह्यर्था’ इत्यादिना पुरुषावरत्वेन वर्णितानां ज्ञानेन्द्रियकर्मेन्द्रियभूततन्मात्रा मनोबुद्धिभोक्तृस्थूलसूक्ष्मशरीराणां" ‘तच्चाकाशं सनातन’मित्यादिष्वाकाशशब्देन प्रसिद्धस्य अप्राकृतभगवल्लोकस्य च ग्रहणसम्भवात् कठवल्लीषु अव्यक्तशब्दस्य स्थूलसूक्ष्मशरीरद्वयपरत्वोपपत्तेः. एवमक्लेशेन अन्तरङ्गशाखान्तरदृष्टसंख्योपसंग्रहसंभवे क्लिष्टगत्या बहिरङ्गाप्रामाणिकसांख्यतत्वोपसंग्रहायोग्ता। वस्तुतोऽत्र पंचविंशतिसंख्याप्रतीतिरेव नास्ति। समाहारसमासे स्रीप्रत्ययाभावपुल्लिंगयोः छान्दसत्वेन समर्थनीयत्वात्, पंचजनशब्दस्य संज्ञाशब्दत्वमभ्युपगम्य ‘दिक्संख्ये संज्ञाया’ मिति सूत्रविहितसंज्ञआसमासवर्णनोपपत्तेः। ननु तर्हि पंचजनसंज्ञकाः केचिदिह वर्णनीया इति चेत् सत्यम्। सन्त्येव वाक्यशेषश्रुताः प्राणादयः ‘प्राणस्य प्राणमुत चक्षुषश्चक्षुश्श्रोत्रस्यश्रोत्रमन्नस्यान्नं मनसो ये मनोविदु’रिति वाक्यशेषे हि षष्ठ्यन्तैः प्राणादिशब्दैः प्रसिद्धाः प्राणादयः श्रूयन्ते। ननु शतपथब्राह्मणे माध्यन्दिनानामेवान्नपाठः। न काण्वानाम्। अतस्तेषां" प्राणादयः पंचपंचजना नस्युरिति चेत् उच्यते- ‘यस्मिन्पंचपंचजना’ इत्यस्मात् पूर्वस्मिन्मंत्रे ‘तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृत’ मिति ज्योतिषां ज्योतिष्ट्वेन ब्रह्मण्यभिधीयमाने ब्रह्माधीनस्वकार्याणां केषांचिज्जोतिषां प्रतिपादकेन षष्ठ्यन्तज्योतिश्शब्देन प्रकाशकानि ज्ञानेन्द्रियाणइ गृह्यन्त इति इन्द्रियविशेषाणां समर्पकेण ‘प्राणस्य प्राण’ मित्यादिवाक्यशेषेणावधार्यते। तत्र ‘प्राणस्ये’ति शब्देन वायुसम्बन्धिनस्स्पर्शेन्द्रियस्य ग्रहणम्। मुख्यप्राणस्य ज्योतिश्शब्देन षष्ठ्यन्तेन प्रदर्शनायोगात्। ‘चक्षुष’ इति ‘श्रोत्रस्ये’ ति चक्षुश्श्रोत्रेन्द्रिययोर्ग्रहणम्। ‘अन्नस्ये’त्यन्नशब्दोदितपृथिवीसम्भन्धिघ्राणेन्द्रियग्रहणम्। तेनैव अद्यतेऽनेनान्नमिति व्युत्पत्त्या तंत्रेण रसनेन्द्रियस्यापि ग्रहणम्। ‘मनस’ इति मन इन्द्रियस्य। एवं गृहीतानां सर्वेषामिन्द्रियाणआं ग्रहणसिध्यर्थं" कण्वशाखायामप्युपसंहर्तव्यम्। षष्ठ्यन्तज्योतिःपदोदितेन्द्रियोपक्रमस्य वाक्यशेषगतेंद्रियविशेषोपन्यासस्य च तत्रापि तुल्यत्वात् तदेवं ‘यस्मिन् पंच पंचजना आकाशश्च प्रतिष्ठित ’ इति पंचजनशब्दनिर्दिष्टानि इन्द्रियाणि आकाशशब्दोपलक्षितानि भूतानि च ब्रह्मणि प्रतिष्ठितानीति सर्वतत्वानां ब्रह्माश्रयत्वप्रतिपादनात् नतन्त्रसिद्धब्रह्मानधीनपंचविंशतितत्वानुवादशङ्कावकाशइति स्थितम्॥ संग्रहकारिकाः॥ यस्मिन्पञ्चेति मनौ पचोक्ताः पंचजनसमाहाराः। तत्वानि पंचविंशतिरेते कपिलेन कथितानि॥ मैवं ब्रह्माश्रयताभेदान्नहिधीस्तदुक्तत्वानां। अधिकरणाऽऽकाशाभ्यां तदुक्तसंख्यातिरेकाच्च॥ पंचजनाइति संज्ञापदेन पंचेंन्द्रियाणि कथ्यन्ते। दृष्टानि यानि शेषे ब्रह्माधीनस्वकार्याणि॥ संग्राह्यं काण्वैरप्यन्नपदं घ्राणरसनपरं। ज्योतिः पदोदितेन्द्रियसमुपक्रमवाक्यशेषगतितौल्यात्॥ इति संख्योपसंग्रहाधिकरणम्॥3॥