29 चमसाधिकरणम्

चमसवदविशेषात्॥8॥ ज्योतिरुपक्रमातु तथाह्यधीयत एके॥9॥ कल्पनोपदेशाच्च मध्वादिवदविरोध॥10॥ पूर्वत्र रूपकवाक्ये शरीरश्रवणादव्यक्तं शरीरं न तंत्रसिद्धा प्रकृतिरित्युक्तम्। तर्हि तदश्रवणादंजा तंत्रसिद्धा प्रकृतिस्स्यादिति प्रत्यवस्थानात्सङ्गतिः। श्वेताश्वरोपनिषदः पठ्यते– ‘अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजास्सृजमानां सरूपाः। अजोह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्य’ इति। अत्र किमजाशब्देन तन्त्रसिद्धा स्वतन्त्रा प्रकृतिरुच्यते, उत सिद्धान्ताभिमता ब्रह्माधीना प्रकृतिरिति संशये पूर्वपक्षः। तन्त्रसिद्धैवोच्यते। ‘अजा’मिति जन्मराहित्यश्रवणात्, ‘सृजमाना’मिति स्वातंत्र्यश्रवणाच्च। न तु ब्रह्मात्मिका। तस्यास्सिद्धान्ते ब्रह्मकारणकत्वाभ्युपगमेन जन्मराहित्याभावात्, सृष्टौ ब्रह्मप्रेर्यत्वाभ्युपगमेन स्वातन्त्र्याभावाच्चेति। सिद्धान्तस्तु– ब्रह्मकारणिकाया अपि जन्मराहित्यमुपपादयिष्यते। तथा अजाशब्दयौगिकार्थस्य जन्मराहित्यस्य साधारणत्वात् न तेन तत्रसिद्धेति विशेषः" प्रतीयते। यथा ‘अर्वाग्बिलश्चमसऊर्ध्वबुध्नस्तस्मिन् यशोनिहितं विश्वरूपम्। तस्यासत ऋषयस्तप्ततीर’ इत्यस्मिन् मंत्रे यौगिकेन चमसशब्देन चम्यते भक्ष्यते अनेनेति व्युत्पत्तिमता भक्षणसाधनमात्रं प्रतीयते। न कश्चित्विशेषः, यौगिकशब्दानामार्थप्रकरणवाक्यशेषादिभिर्विनाऽर्थनिश्चयासम्भवात्। तत्र ‘यथेदं तच्छिर एषह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्न’ इति वाक्यशेषः शिरोऽत्र चमस इति निश्चायकोऽस्ति। तस्मिन्निहितं यशः प्राणवायुः" तस्य तीरस्थास्सप्त ऋषयश्श्रोत्रचक्षुर्घ्राणयुगलरसनानीति निश्चायको वाक्यशेषोऽस्ति। नैवमिहाजा तंत्रसिद्धा प्रकृतिरित्यत्र किञ्चिन्निश्चायकमस्ति। सृष्टिस्वातंत्र््यं तु स्वव्यापारकर्तृत्वरूपं परप्रेर्यत्वेऽर्युपपद्यते। सारथिना प्रेर्यस्यापि रथस्य ‘रथो गच्छती’ ति स्वातंत्र्यव्यवहारात्। तस्मादिह तन्त्रसिद्धा अजा न ग्राह्या। किं तु ब्रहामात्मिकैव ग्राह्या। ब्रह्मकारणकत्वाम्नानात्। तैत्तिरीत्या हि ‘अणोरणीयान्महतो महीया’ निति मंत्रेण ब्रह्मोपक्रम्य ‘सप्त प्राणाः प्रभवंति तस्मा’दित्यादिना ‘यस्माज्जाता न परा नैव किं च नासे’त्यंतेन प्राणसमुद्रपर्वतादिकस्य सर्वस्य प्रपञ्चस्य ब्रह्मणस्सकाशात्प्रभवमधीयानास्तेषां मंत्राणां मध्य एव ‘अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं" सरूपाम्। अजोह्येको जुषमाणोऽनिशेते जहात्येनां भुक्तभोगामजोऽन्य’ इति पठन्ति। अतोऽत्र ब्रह्मकार्यवर्गमध्ये पाठादजाऽपि ब्रह्मकारणिका विवक्षितेत्यवसीयते। ननु अयमजामन्त्रस्तद्भोगत्यागरूपबन्धमुक्तजीवृत्तांतविषयः, कथमिह ‘अजा’मिति द्वितीयान्तेन ‘सप्त प्राणाः प्रभवंती त्यनुवृत्तक्रियान्वयः। अतो नास्याः प्राणादिवत् ब्रह्मकारणकत्वं प्रतीयइतिचेत् उच्यते- यथा ‘ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छ’ दितिवाक्यमिंद्रवृत्तांतमात्रविषयतया प्रतीयमानमपि दर्शपूर्णमासप्रकरणानुरोधादिंद्रेण अग्नीषोमाभ्यां दत्ततयोच्यमानस्य पुरोडाशद्रव्यकस्य यागस्य विधायकं, तथा वृत्तान्तमात्रविषयतया प्रतीयमानोऽपि अयं मंत्रस्सकलकार्यजनयित्र्याः" प्रकृतेः परमेश्वरसृज्यत्वप्रतिपादक इति पूर्वापरपरामर्शादङ्गीकर्तव्यम्। ननु कथं प्रकृतेः परमेश्वरकारणकत्वं जन्मराहित्यढ्च। स्थूलसूक्ष्मभेदान्नैतद्विरूद्धम्। यथा मधुविद्यायामादित्यस्य व्वादिदेवताभोग्यरसाश्रयत्वोदयास्तमयादिमत्त्वं, ‘अथ ततऊर्ध्वं" उदेत्य नैवोदेता नास्तमेतैकलएव मध्ये स्थाते’ त्युक्तम् सर्वविशेषप्रहाणेनैकतयाऽवस्थानञ्च कार्यकारणवस्थाभेदरूपस्थूलसूक्ष्मावस्थाभेदेन न विरुद्धम्। ‘एकल’ इति लकारोपजनश्छान्दसः। एकएवेत्यर्थः। तस्मात् ब्रह्माधीननैवेयमजा तंत्रसिद्धेरिति सिद्धम्॥ संग्रहकारिके॥ स्वातंत्र्यजनिराहित्ये सृजमानामजामिति। यस्याश्श्रुते सा प्रकृतिस्सांक्योक्ता न परात्मिका॥ मैवं ब्रह्मात्निकायामपि यदजनिता कारणावस्थया स्यात् स्वव्यापाराश्रयत्वं रथवदिह परप्रेर्यतायामपि स्यात्ऽ तस्मान्नायं विशेषोऽस्त्यपितु परसृजिप्रक्रियास्तेविशेष स्तत्सृायान्ततस्स्यादतिविशदमजामन्त्रतात्पर्यमस्याः॥ इति चमसाधिकरणम्॥2॥