28 आनुमानिकाधिकरणम्

अथ चतुर्थ पादः" आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्त गृहीतेर्दर्शयति च॥1॥ सूक्ष्मं तु तदर्हत्वात्॥2॥ तदधीनत्वादर्थत्वात्॥3॥ ज्ञेयत्वावचनाच्च॥4॥ वदतीति चेन्न प्राज्ञो हि प्रकरणात्॥5॥ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च॥6॥ महद्वच्च॥7॥ इह पादे सांख्यतन्त्रप्रतिपादनच्छायापन्नानां वाक्यानां सांख्याभिमतार्थनिरासेन ब्रह्मणि समन्वयः प्रतिपाद्यत इति पादार्थस्तत्सङ्गतिश्चेत्युभयमपि प्रथमपाद एव दर्शितं। काठके श्रूयते- ‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परम्मनः। मनसस्तु परा बुद्धि र्बुद्धेरात्मा महान् परः॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः॥ पुरुषान्नपरं किंचित् सा काष्ठा सा परागति’रिति। तत्र किं सांख्यतन्त्रसिद्धं प्रधानमव्यक्तशब्दनोच्यते, उत शरीरमिति शाख्यतत्वप्रक्रियाप्रत्यभिज्ञानशरीरीपरिशेषाभ्यां संशये, पूर्वपक्षः सांख्याभिमतं प्रधानमिदमव्यक्तम्। ‘महतः परमव्यक्तमव्य्क्तात्पुरुषः" परः’ इति तत्प्रक्रियाप्रत्यभिज्ञानात्, ‘पुरुषान्न परं किंचि’दिति पञ्चविंशपुरुषातिरिक्ततत्वनिषेधाच्च। न तु शरीरमव्यक्तं। व्यक्ते तस्मिन्नव्यक्तशब्दस्य शक्त्यभावात्। लक्षणातः प्रधाने रूढेर्बलवत्त्वात्। सांख्यकल्पिता सा रूढिः नैयायिककल्पितपक्षसपक्षादिरूढिवदन्यत्रशब्दार्थनिर्णये अनुपयोगिनीति चेन्न। सांख्यतन्त्रसिद्धतत्वानुवादोयमिति तत्प्रक्रियाप्रत्यभिज्ञानात् सिद्धौ तदीयरूढेरेव ग्राह्यत्वात्, ‘न पक्षे न सपक्षे वा विपक्षे केवलं स्थितः। चित्रंनिस्रिंशधूमस्ते प्रतीपाग्न्यनुमापक’ इति काव्यश्लोके नैयायिककल्पतिरूढेरप्युपयोगदर्शनात्। ननु ‘पुरुशान्न परं किंचि’दित्यत्र पुरुषः पंचविंश इति कथमवगम्यते, येनायं पंचविंशातिरिक्तनिषेधस्स्यादिति चेत्, इत्थं। ज्ञानंकर्मेंद्रियाणि दशोंद्रियशब्दगृहीतानि, भूततन्मात्राः दशार्थशब्दोदिताः, मनोऽन्तः करणं बुद्धिरहङ्कारः महानात्मा महत्तत्त्वमव्यक्तं प्रथानमिति सांख्याभिमतानि चतुर्विंशतिस्तत्वानि प्राङ्निर्दिष्टानि। अतः पुरुषः पंचविंशः। यद्यपि सांख्यानाम्महत्तत्व एव बुद्धिशब्दः, आत्मशब्दश्च चेतने, तथापि प्रत्यभिज्ञापकभूयस्त्वानुसारेण कार्ये कारणोपचारादहङ्कारे बुद्धिशब्दः, महत्तत्वे व्यापकत्वयोगेनात्मशब्दः। ‘यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनी’ त्युपरितनमन्त्रे ज्ञानेप्यात्मशब्ददर्शनात्। ननु पूर्वत्र ‘आत्मानं रथिनं विद्धि शरीरं रथमेव तु। बुद्धिन्तु सारथिं विद्धि मनः प्रग्रहमेवच॥ इन्द्रियाणि हयानाहुर्विषयांस्तेषुगोचरा’ नित्यात्मशरीरादिषु रथिरथादिरूपेण रूपितेषु इन्द्रियादिपत्ववाक्ये शरीरव्यतिरिक्तानींद्रियादिशब्दैर्गृहीतानि, शरीरमेकं स्वशब्देन नगृहीतं, अव्यक्तशब्दश्चाधिकोस्तीति परिशेषादव्यक्तशब्दो लक्षणयापि शरीरार्थको वक्तुं युक्त इति चेत् न। रथिरथादिरूपेण निरूपितान्येव इन्द्रियादिपरत्ववाक्येप्यन्यूनातिरेकेण ग्राह्याणीति नियमे कारणाभावात्। तथा नियमे हि न तावद्रूपकवाक्यस्याकांक्षाकारणं। तस्य वाक्यस्येन्द्रियादिभिरसंयतैर्जीवैः पुनः पुनः संसारमेति संयतैस्तुमुक्तिमिति प्रदर्शनार्थे रथिरथादिरूपेणांगभावमासाद्य निराकांक्षत्वात्। नापीन्द्रियादिपरत्ववाक्यस्याकांक्षा तत्र कारणं। तस्यापि पुरुषपत्वप्रतिपादनेऽङ्गभावमासाद्य निराकांक्षत्वात्। अतः परिशेषादव्यक्तशब्दश्शरीरलक्षक इत्येतदयोगात् सांख्यतन्त्रप्रक्रियाप्रत्यभिज्ञानुसारेण तत्तन्त्रसिद्धप्रधानार्थक" इत्येव युक्तमिति। एवं प्राप्ते राद्धान्तः— पूर्वत्र रथिरथादिरूपेण रूपितानां मध्ये यच्छरीरं रथरूपकेण विन्यस्तं तदात्मनारूपितं तदव्यक्तशब्देन परिशेषात् गृह्यत इति युक्तम्। तत्रह्यात्मा शरीरं बुद्धिर्मन इन्द्रियाणितद्विषया इति षडर्था रथरथिसारथितद्गृह्यमाणतुरगरज्जुतुरगतन्मार्गात्मना यद्रूपिताः" तन्मुक्तयर्थोपासनोपकरणत्वाद्वशीकार्यत्वायेति तावन्निर्विवादं। ‘यस्त्वविज्ञानवान्भवति अयुक्तेन मनसा सह। तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः। यस्तु विज्ञानवान्भवति युक्तेन मनसा सह। तस्येंन्द्रियाणि वश्यानि सदश्वा इव सारथे’रिति तत्रैव श्रवणात्। तत्र च वशीकार्यतायां प्राधान्याप्राधान्यविवेचनमपेक्षितं यत् प्रधानं तद्वशीकरणे यत्नातिशयसिद्ध्ये। इन्द्रियादिपरत्ववाक्यमपि वशीकार्यतायां प्राधान्याप्राधान्यरूपं परापरभावं विना विषयान्तरन्नलभते। न हि ‘दशमन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः। भौतिकास्तु शतं पूर्णं सहस्रन्त्वाभिमानिकाः॥ बौद्धा दशसहस्राणि तिष्ठन्ति विगतज्वराः। पूर्णं शतसहस्रन्तु तिष्ठन्त्यव्यक्तचिन्तकाः॥ पुरुषन्निर्गुणं" प्राप्य कालसंख्या न विद्यत’ इति सांख्यकल्पिततत्तदुपासनाफलभूयस्त्वाल्पत्वरूपः परापरभाव इति वक्तुं शक्यम्। तत्र मनसः इन्द्रियेभ्यः" पृथक्परिगणनाभावेन भूततन्मात्रापेक्षया निकर्षापत्त्या तद्विषयत्वे ‘अर्थेभ्यश्चपरम्मन’ इति मनइन्द्रियस्य अर्थशब्दोक्तभूतपरत्वोक्त्यनुपपत्तेः। नापि हेतुहेतुमद्भावरूप इति वक्तुं शक्यम्। सांख्यमते इन्द्रियाणामाहङ्कारिकत्वेन ’ इन्द्रियेभ्यः पराह्यर्था’ इति भूततन्मात्राणामिंद्रियपरत्वोक्त्यनुपपत्तेः, तेषां भौतिकत्वाभ्युपगमे ‘अर्थेभ्यश्च परं मन ’ इति मनंइंद्रियस्य भूतपरत्वोक्तयनुपपत्तेः। तस्मात् इंद्रियेभ्यः तद्विषयाः वशीकार्यत्वे पराः। वश्येंद्रियस्यापि विषयसन्निधाविंद्रियविजृम्भणात्। तेभ्योऽपि मनः परं। मनसि विषयध्यानप्रवृत्ते विषयासन्निधाने रागविजृम्भणात्। तस्मादपि बुद्धिः परा। अध्यवसायाभावे मनसोऽकिंचित्करत्वात्। ततोऽप्यात्मा परः। सर्वस्या अपि विषयवृत्तेः आत्मेच्छायत्तत्वात्। तत एवात्मा अणुरपि महानिति विशेष्यते। तस्मादपि शरीरं परं। तदायत्तत्वात् सर्वासामपि पुरुषप्रवृत्तीनां। तस्मादपि परस्सर्वान्तर्यामी सर्वप्रेरकः परिपूर्णः पुरुषोत्तम इति इन्द्रियादयो वशीकार्यतायामुत्तरोत्तरं परा उच्यन्त इति तदर्थो वाच्यः। सर्वान्तर्यामिणो भगवतो वशीकरणं तच्छरणागतिरेव। ‘तमेव शरणं गच्छे’ त्यादिवचनात्। तदिदमिंद्रियादिपरमपुरुषान्तानां वशीकार्यतायामुत्तरोत्तरपरत्वमग्रे श्रुतिरेव दर्शयति– ‘यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि। ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्तआत्मनी’ति। अस्य हि मन्त्रस्यायमर्थः। वागुपलक्षितं सर्वं ज्ञानकर्मेन्द्रियजातं मनसि नियच्छेत्। बाह्येन्द्रियव्यापारमुत्सृज्य मनोमात्रेणावतिष्ठेत्। विषयविकल्पाभिमुखं तन्मनः आत्मनि स्थितायां बुद्धौ विषयदोषाध्यवसायरूपायां नियच्छेत्। तां बुद्धिं महति प्रत्यगात्मनि नियच्छेत्। तदुपादेयताविषयां तत्प्रवणां कुर्यात्। तञ्च प्रत्यगात्मानं निरूपप्लवे परमात्मनि नियच्छेत्। तच्छेषताप्रतिपत्तिं कुर्यादिति। तस्मात्सूक्ष्मव्याकृतमव्यक्तशब्दार्हमिति तदवस्थांतररूपं शरूरमुपचारादव्यक्तमित्युक्तम्। यदि सूक्ष्ममव्याकृतमभ्युपगम्यते तर्हि तदेव सांख्यमतमापन्नमिति कथं तन्निरसनम्। स्वतन्त्रमेवाव्याकृतं कार्याणि साधयतीति सांख्यमतन्निरसनीयम्। परमपुरुषाधिनत्वात् तेन प्रेर्यमाममेवाव्याकृतम्महदादिकार्यजातं साधयतीति त्वस्माकमभ्युपगम इति विशेषः। किञ्च- यदि सांख्याभिमतमव्यक्तमिहश्रुतिरवक्ष्यत्, तदातस्यतत्कार्यस्य व्यक्तजातस्यच ज्ञेयत्वमप्यवक्ष्यत्। ‘व्यक्ताव्यक्तज्ञविज्ञानान्मोक्ष’ इति हि सांख्यानामुद्धोषः। ननु ‘अशब्दमस्पर्शमरूपमव्ययन्तथाऽरसन्नित्यमगन्धवच्च यत्। अनाद्यनन्तम्महतः परं ध्रुवं निचाय्य तन्मृत्युमुखात् प्रमुच्यत ’ इत्यनन्तरमेव सा श्रुतिरव्याकृतं वदति। व्यक्तधर्मभूतशब्दादिनिषेधानामव्यक्तपर्यवसानस्य न्याय्यत्वात् महतः परत्वोक्तेश्च यत्तदिति सामान्यतोऽपि निर्देशस्याव्याकृतपरत्वौचित्यादितिचेन्मैवम्। ‘विज्ञानसारथिर्यस्तु मनःप्रग्रवान्नरः। सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पद’मिति परमपुरुषप्रकरणात्। स एव ह्यन्यत्र निचाय्यत्वन प्रतिपाद्यते। अत एव ‘पुरुषान्नपरं कि चि’दिति पञ्चविंशपुरुषातिरिक्ततत्वनिषेध इति शङ्का निरस्ता। प्रकरणेन तत्र पुरुषशब्दस्य परमपुरुषपरत्वात्। ‘अशब्दमस्पर्श’ मित्यादि तु ‘यत्तदद्रेश्यमग्राह्य’ मित्यादिवत् तस्मिन्नप्युपपद्यते। ‘महतः पर’मिति ‘बुद्धेरात्मा महान्पर’ इति प्रस्तुतात् जीवात् परत्वमुपक्तम्। अपिचास्मिन्प्रकरणे प्राप्यस्य परमपुरुषस्य प्राप्त्युपायस्योपासनस्य प्राप्तुरुपासकस्यचेति त्रयाणामेव ज्ञेयत्वेनोपन्यासः प्रश्नश्च दृश्यते। तत्र ‘तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं" पुराणम्। अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाती’ति। अतं ‘देवं मत्वा धीर’ इति क्रमेण उपास्योपासनोपासकानामुपन्यासः, ‘येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके। एतद्विद्यामनुशिष्टस्त्वयाऽहं" वराणमेष वरस्तृतीय’ इति मोक्षरूपप्रश्नद्वारा उपायोपेयोपेतॄणां त्रयाणामपि प्रश्नः। प्रेतः प्रकर्षेणेतः अपुनरावृत्तिं मुक्तिं" प्राप्तः। आत्मोच्छत्तिर्मुक्तिरिति शून्यवादिनां विमतिः ‘नायमस्तीति चैक ’ इत्युपन्यस्ता। नत्वत्र प्रेतशब्दो मृतवचनः। मृतास्तित्वस्य वैवस्वतं लोकं प्राप्य तं पृच्छता ’ न साम्परायः प्रतिभाति बालं प्रमाद्यंतं वित्तमोहेन मूढम्। अयं लोको नास्ति पर इति मानी पुनःपुनर्यशमापद्यते म’ इत्यादिवैवस्वतवचनं श्रुतवता च नचिकेतसा निर्ज्ञातत्वेन मृते देहातिरिक्ते नास्तित्वविमत्युपन्यासायोगात्। तस्मात्रयाणामेवात्र ज्ञेयत्वेनोपन्यासः प्रश्नश्चेति नेह तांत्रिकस्याव्यक्तस्यानुवादप्रसक्तिरस्ति। अपि च ‘बुद्धेरात्मा महान्पर’ इत्यत्र महत्तत्वन्नग्राह्यं, चेतनरूढात्मशब्दसामानाधिकरण्यात्। ‘तद्यच्छेज्ज्ञान आत्मनी’त्यत्र सप्तम्यौ तु वैयधिकरण्येन प्राग्व्याख्यातौ। अतोऽपि जीवात्मपरत्वेनोच्यमानमव्यक्तं" न सांख्यतन्त्रसिद्धं प्रधानमिति युक्तम्। महत्तत्वपरत्वानभिधानात्॥ संग्रहकारिके॥ महतः परमव्यक्तं पठितं यद्धि काठके। प्रधानं कपिलोक्तं तत्तत्तन्त्रप्रत्यभिज्ञया॥ मैवं तत्स्याच्छरीरं रथिरथतुरगाद्यात्मना रूपिताना मात्मादीनां मुमुक्षो र्नियतमिह वशीकार्यताज्ञापनार्थम्। एतस्यां तारतम्यस्फुटसमधिगमायेन्द्रियेभ्यः पराइ" त्यारभ्याम्नातमन्त्रे न्यसनमभिलषत्यस्वशब्दं शरीरम्॥ इति आनुमानिकाधिकरणम्॥