27 अर्थान्तरत्वादिव्यपदेशाधिकरणम्

आकाशोऽर्थान्तरत्वादिव्यपदेशात्॥42॥ सुषुप्त्युत्क्रान्त्योर्भेदेन॥43॥ पत्यादिशब्देभ्यः॥44॥ पूर्वं दहराकाशस्य परब्रह्मत्वसमर्थनाय अल्पश्रुतिपरिहारे कृते तत्प्रसङ्गादंगुष्ठमात्रस्य परमात्मत्वं साधितम्। तत्प्रसङ्गामतं" तु अधिकरणत्रयम्। अथ पूर्वप्रकृचदहरविद्याया बुद्धिस्थत्वेन तदनन्तरश्रुतस्याकाशवाक्यस्य परमात्मपरत्वं निरूप्यत इति सङ्गतिः। छान्दोग्ये दहरविद्यानन्तरं श्रूयते– “आकाशो हवै नामरूपयोर्निर्वहिता ते यदन्तर तद्ब्रह्म तदमृतं स आत्मे"ति। तत्र आकाशः “अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य। धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानी"ति पूर्वमन्त्रप्रकृतो मुक्तात्मा, पूर्वपक्षः– स मुक्तात्मा। " ते यदन्तरे"ति नामरूपमध्यस्थितत्वोक्त्या नामरूपास्पृष्टत्ववर्णनात्। “नामरूपयोर्निर्वहते"ति तु मुक्तात्मनु पूर्वावस्थाभिप्रायेण उपपद्यते। स हि बद्धावस्थायां नामरूपयोर्नितरां वोढा, देवमनुष्यादिजन्मपर्यायेण बहुविधनामरूपवोढा स्थित इत्येवं प्राप्त उच्यते– अयमाकाशः परमात्मा। न मुक्तात्मा। मुक्तात्मभेदोपपादकनामरूपनिर्वोढृत्वश्रवणात्। निर्वोढृत्वं हि रूढ्या कर्तृत्वम्। न तु योगेन नितरां वोढृत्वम्। रूढेः प्रबलत्वात्। नामरूपकर्तृत्वं तु जीवस्य न बन्धमुक्त्यवस्थयोस्सम्भवति। जगद्व्यापारनिषेधात्। तत्तु परमात्मन एव धर्मः। “नामरूपे व्याकरवाणि, तस्मादेतद्ब्रह्म नाम रूपमन्नञ्च जायत” इत्यादि श्रुतेः। तस्माद्यद्यपि पूर्वमंत्रे अभिसम्भवितृत्वेन मुक्तात्मा प्रकृतः। तथाऽपि अभिसम्भाव्यत्वेन परमात्माऽपि प्रकृत इति तद्विषय एवायमाकाशशब्दः। आकाशशब्देन प्रकृतस्य दहराकाशस्य प्रत्यभिज्ञानादपि तद्विषयोऽयं। नच प्रजापतिवाक्येन व्यवधानात् न तत्प्रत्यभिज्ञानमस्तीति शङ्कनीयम्। तस्याप्युपासकस्वरूपयाथात्म्यकथनद्वारा दहरवाक्यशेषत्वात्। दहरवाक्ये दहराकाशउपास्यतयोपक्रान्त इह प्राप्यतयोपसंह्रियत इति विशेषः। अथ स्यात् जावात्मनो भिन्नं आत्मान्तरमेव नास्ति। बृहदारण्यके– “यो़ऽयं विज्ञानमयः प्राणे” ष्विति प्रकृतस्य जीवस्य “एष ब्रह्मलोकस्सम्म्राडि” ति निर्दिष्टपरमात्मैक्योपदेशात्, “नेह नानास्ति किं चने” ति भेदनिषेधाच्च। एं च नामरूपकर्तृत्वमपि मुक्तात्मनि घटते। तस्यैव परमात्मत्वात्। अतोऽयमाकाशो न मुक्तात्मा, किं तु तद्भिन्नः परमात्मेति निर्णयो न युक्त इति चेत्, मैवं। बृहदारण्यके प्राणेष्विति जीवं प्रकृत्य “प्राज्ञेनात्मनाऽन्वरूढउत्सर्जन्याती"त्युत्क्रान्तौ च, भेदेन व्यपदेशात् “एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल” इत्यादिवाक्यश्रुतपरिष्वज्जकविषयपत्यादिशब्देभ्यश्च जीवभिन्नस्य परमात्मनः” प्रत्याख्यानासम्भवात्। ऐक्योपदेशभेदनिषेधौ तु प्रकार्यैक्यनिबन्धनाविति समनन्तरपादे वक्ष्यते। तस्मादिहाकाशः परमात्मा न मुक्तात्मेति युक्तमेव॥ संग्रहकारिकाः॥ मुक्तात्मा प्रकृतस्स्यात् आकाशो नामरूपनिर्वोढा। प्राग्बद्धस्तुद्दूनिति तन्निर्वोढा ततस्तदस्पृष्टः॥ निर्वोढेष्येत कर्ता यदि भवतु तथा पूर्वमन्त्रोपदिष्टः” प्राप्तव्यब्रह्मलोकोदिततदभिदया यद्विमुक्तोऽपि कर्ता। तेनैक्यं ब्रह्मलोकश्रुतिसमधिगतेनैकधैवेति किञ्चि- न्नानानास्तीति चास्य स्फुटगतिबृहदारण्यके प्रत्यपादि॥ मैवन्निर्वोढा स्यात् कर्ता योगाद्धि बलवति रूढिः। तत्कर्तृताच बद्धे मुक्तेऽपि च नैव सम्भवति॥ बृहदारण्यकवचसामर्थो न ब्रह्मजीवैक्यं। सुप्त्युत्क्रांन्त्योर्भेदश्रवणात्पत्यादिशब्देभ्यः॥ इति अर्थातरत्वादिव्यपदेशाधिकरणम्॥10॥ इति तृतीय पादः